००६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाके सप्त सूक्तानि । तत्र ‘महाँ इन्द्रः’ इत्यष्टाचत्वारिंशदृचं प्रथमं सूक्तं काण्वस्य वत्सस्यार्षं गायत्रम् । अन्त्यतृचवर्जमैन्द्रम् । तस्मिन् परशुनाम्नो राज्ञः पुत्रस्य तिरिन्दिरस्य दानं स्तूयते । अतः स तृचस्तद्देवताकः । तथा चानुक्रान्तं-’ महाँ इन्द्रोऽष्टाचत्वारिंशद्वत्सस्तृचोऽन्त्यस्तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः’ इति । महाव्रते गायत्रतृचाशीतौ अन्त्यतृचवर्जमिदं सूक्तम् । तथैव पञ्चमारण्यके सूत्र्यते- महाँ इन्द्रो य ओजसेति तिस्र उत्तमा उद्धरति ’ (ऐ. आ. ५. २. ३) इति । प्रातःसवने सोमातिरेके ‘महान्’ इत्यादिकाः स्तोमातिशंसनार्थाः । सूत्रितं च–’ महाँ इन्द्रो य ओजसातो देवा अवन्तु न इत्यैन्द्रीभिर्वैष्णवीभिश्च स्तोममतिशस्य’ (आश्व. श्रौ. ६. ७) इति । तृतीये पर्याये होतुः शस्त्रे ‘महाँ इन्द्रः’ इति तृचोऽनुरूपः । सूत्रितं च – महाँ इन्द्रो य ओजसा समस्य मन्यवे विश इति’ ( आश्व. श्रौ. ६. ४ ) इति । अप्तोर्यामे ब्रह्मणोऽतिरिक्तोक्थे अयमेव तृचोऽनुरूपः । सूत्र्यते हि-’ महाँ इन्द्रो य ओजसा नूनमश्विना ’ ( आश्व. श्रौ. ९. ११) इति । दर्शयागे महेन्द्रयाजिनः सांनाय्यस्य ‘महान्’ इत्येषानुवाक्या । सूत्र्यते हि – महाँ इन्द्रो य ओजसा भुवस्त्वमिन्द्र ब्रह्मणा महान् ’ (अश्व. श्रौ. १. ६ ) इति ॥

Jamison Brereton

6 (626)
Indra (1–45), Tirindira Pārsavya’s Da ́ ̄nastuti (46–48)
Vatsa Kāṇva
48 verses: gāyatrī, arranged in trcas ̥
The Vatsa group contains only one hymn to Indra, but at forty-eight verses it is one of the longest hymns in the entire R̥gveda. It is thus not surprising that the hymn is not a tightly structured creation, but a fairly loose collection of three-verse units treating various aspects of Indra. Nonetheless, certain themes are threaded through the hymn, in particular the Kaṇvas’ role in strengthening Indra through their poetry. This is strongly articulated in the first tr̥ca (vss. 1–3), in which the poet Vatsa himself claims this role in verse 1, alongside his ancestral family in verses 2–3. This last verse contains the striking assertion that the Kaṇvas’ praise is their “familial weapon,” which they “speak”—an image developed in verses 7–8, where the Kaṇvas’ insights are blazing missiles. In the next tr̥ca (vss. 10–12) the poetic “I” (presumably Vatsa) speaks of his poetic heritage. The tr̥ca consisting of verses 19–21 implicitly identifies the verbal products of the Kaṇvas with the physical obla tions of the sacrifice. (And pāda 20c contains a particularly opaque simile, whose

meaning we are uncertain of.) Once again, in two adjacent tr̥cas (31–33, 34–36) the Kaṇvas’ power to strengthen Indra by poetry is celebrated in straightforward terms. The last tr̥ca before the dānastuti (43–45) begins with another mention of the Kaṇvas’ activity.
Interspersed among the Kaṇvas’ self-glorifications are tr̥cas of straight praise for Indra. Tr̥cas 2 (vss. 4–6) and 5–6 (vss. 13–18) celebrate Indra’s might and his victories, especially over Vr̥tra, and could be taken as examples of the Indra-strengthening praise-poetry that the Kaṇvas attribute to themselves. The later Indra-oriented tr̥cas (22–24, 25–27, 37–39, 40–42) are more concerned with the sacrifice, the invita
tion and journey to the soma, and the goods and help the sacrificers hope to obtain from Indra. In the midst of these is an enigmatic tr̥ca (vss. 28–30), which seems to suggest a connection between the primordial birth of the god (Indra? Soma?) and the origins of poetic inspiration.
The hymn ends with a three-verse dānastuti, which, for a change, is far easier to interpret than the hymn to which it is appended.

Jamison Brereton Notes

Indra

01 महाँ इन्द्रो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हाँ इन्द्रो॒ य ओज॑सा-
प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
स्तोमै॑र् व॒त्सस्य॑ वावृधे(4)

02 प्रजामृतस्य पिप्रतः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः ।
विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥

03 कण्वा इन्द्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम् ।
जा॒मि ब्रु॑वत॒ आयु॑धम् ॥

04 समस्य मन्यवे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टयः॑ ।
स॒मु॒द्राये॑व॒ सिन्ध॑वः ॥

05 ओजस्तदस्य तित्विष - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् ।
इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥

06 वि चिद्वृत्रस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा ।
शिरो॑ बिभेद वृ॒ष्णिना॑ ॥

07 इमा अभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तयः॑ ।
अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ॥

08 गुहा सतीरुप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोच॑न्त धी॒तयः॑ ।
कण्वा॑ ऋ॒तस्य॒ धार॑या ॥

09 प्र तमिन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म् ।
प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥

10 अहमिद्धि पितुष्परि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ ।
अ॒हं सूर्य॑ इवाजनि ॥

11 अहं प्रत्नेन - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् ।
येनेन्द्रः॒ शुष्म॒मिद्द॒धे ॥

12 ये त्वामिन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः ।
ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥

13 यदस्य मन्युरध्वनीद्वि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन् ।
अ॒पः स॑मु॒द्रमैर॑यत् ॥

14 नि शुष्ण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं॑ जघन्थ॒ दस्य॑वि ।
वृषा॒ ह्यु॑ग्र शृण्वि॒षे ॥

15 न द्याव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।
न वि॑व्यचन्त॒ भूम॑यः ॥

16 यस्त इन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् ।
नि तं पद्या॑सु शिश्नथः ॥

17 य इमे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् ।
तमो॑भिरिन्द्र॒ तं गु॑हः ॥

18 य इन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः ।
ममेदु॑ग्र श्रुधी॒ हव॑म् ॥

19 इमास्त इन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म् ।
ए॒नामृ॒तस्य॑ पि॒प्युषीः॑ ॥

20 या इन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या इ॑न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् ।
परि॒ धर्मे॑व॒ सूर्य॑म् ॥

21 त्वामिच्छवसस्पते कण्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः ।
त्वां सु॒तास॒ इन्द॑वः ॥

22 तवेदिन्द्र प्रणीतिषूत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः ।
य॒ज्ञो वि॑तन्त॒साय्यः॑ ॥

23 आ न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् ।
उ॒त प्र॒जां सु॒वीर्य॑म् ॥

24 उत त्यदाश्वश्व्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।
अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥

25 अभि व्रजम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥

26 यदङ्ग तविषीयस - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः ।
म॒हाँ अ॑पा॒र ओज॑सा ॥

27 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ ।
उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ॥

28 उपह्वरे गिरीणाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् ।
धि॒या विप्रो॑ अजायत ॥

29 अतः समुद्रमुद्वतश्चिकित्वाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति ।
यतो॑ विपा॒न एज॑ति ॥

30 आदित्प्रत्नस्य रेतसो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् ।
प॒रो यदि॒ध्यते॑ दि॒वा ॥

31 कण्वास इन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् ।
उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥

32 इमां म - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व ।
उ॒त प्र व॑र्धया म॒तिम् ॥

33 उत ब्रह्मण्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः ।
विप्रा॑ अतक्ष्म जी॒वसे॑ ॥

34 अभि कण्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः ।
इन्द्रं॒ वन॑न्वती म॒तिः ॥

35 इन्द्रमुक्थानि वावृधुः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः ।
अनु॑त्तमन्युम॒जर॑म् ॥

36 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या॑म् ।
इ॒ममि॑न्द्र सु॒तं पि॑ब ॥

37 त्वामिद्वृत्रहन्तम जनासो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
हव॑न्ते॒ वाज॑सातये ॥

38 अनु त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् ।
अनु॑ सुवा॒नास॒ इन्द॑वः ॥

39 मन्दस्वा सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति ।
मत्स्वा॒ विव॑स्वतो म॒ती ॥

40 वावृधान उप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् ।
वृ॒त्र॒हा सो॑म॒पात॑मः ॥

41 ऋषिर्हि पूर्वजा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा ।
इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ॥

42 अस्माकं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रयः॑ ।
श॒तं व॑हन्तु॒ हर॑यः ॥

43 इमां सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मां सु पू॒र्व्यां धियं॒
मधो॑र् घृ॒तस्य॑ पि॒प्युषी॑म् ।
कण्वा॑ उ॒क्थेन॑ वावृधुः ॥

44 इन्द्रमिद्विमहीनां मेधे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्यः॑ ।
इन्द्रं॑ सनि॒ष्युरू॒तये॑ ॥

45 अर्वाञ्चं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
सो॒म॒पेया॑य वक्षतः ॥

46 शतमहं तिरिन्दिरे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे ।
राधां॑सि॒ याद्वा॑नाम् ॥

47 त्रीणि शतान्यर्वताम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ।
द॒दुष्प॒ज्राय॒ साम्ने॑ ॥

48 उदानथ् ककुहो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त् ।
श्रव॑सा॒ याद्वं॒ जन॑म् ॥