००५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथाष्टमो व्याख्यातुमारभ्यते । अष्टमे मण्डले प्रथमेऽनुवाके चत्वारि सूक्तानि व्याकृतानि । ‘दूरात्’ इत्येकोनचत्वारिंशदृचं पञ्चमं सूक्तं कृण्वगोत्रस्य ब्रह्मातिथेरार्षम्। आदितः षट्त्रिंशद्गायत्र्यः । ततो द्वे बृहत्यौ। अन्तिमानुष्टुप् । अन्त्येषु पञ्चस्वर्धर्चेषु चेदिपुत्रस्य कशुनाम्नो राज्ञो दानं स्तूयते । अतस्तद्देवताकाः । शिष्टा आश्विन्यः । तथा चानुक्रान्तं - दूरादेकान्नचत्वारिंशद्ब्रह्मातिथिराश्विनं द्विबृहत्यनुष्टुबन्तमन्त्याः पञ्चार्धर्चाश्चैद्यस्य कशोर्दानस्तुतिः’ इति । प्रातरनुवाकाश्विनशस्त्रयोराश्विने क्रतौ गायत्रे छन्दसि अन्त्यतृचवर्जमिदं सूक्तम् । सूत्र्यते हि– दूरादिहेवेति तिस्र उत्तमा उद्धरेत्’ (आश्व. श्रौ. ४. १५) इति ॥

Jamison Brereton

5 (625)
Aśvins
Brahmātithi Kāṇva
39 verses: gāyatrī, except br̥hatī 37–38, anuṣṭubh 39, all arranged in trcas ̥
This long hymn (at 39 verses the longest hymn to the Aśvins in the R̥gveda) presents few difficulties and, correspondingly, few particular pleasures. Many pādas in the hymn have exact or near counterparts elsewhere.
The hymn begins not with the Aśvins but with the appearance of the (unnamed) Dawn (vs. 1), as a lead-in to the Aśvins’ early morning journey. Throughout the hymn the two gods are urged to drive here to our sacrifice, with occasional mentions of the sacrifices they should pass over on their way to ours (esp. vss. 13, 15). They are also begged for the usual assortment of wealth in goods and livestock; their “refreshments” (íṣ) are especially insistently hoped for (see vss. 5, 9, 10, 20, 21, 31, 34, 36). There is almost no mythological material, little mention of the miraculous rescues that are the Aśvins’ stock in trade. Brief allusions to two of these exploits are found in verses 22–23, and the bare names of a number of their clients are listed in verses 25–26.
The last three verses (37–39) are a dānastuti praising the gift of one Kaśu, lord of the Cedis. His previous, fairly modest, gift is mentioned in verse 38, with the hope that the Aśvins will have the opportunity to see a more magnificent version in verse 37. And in verse 39 Kaśu is implicitly challenged to make an unparalleled gift, so that other men will not win greater praise for their generosity.

Jamison Brereton Notes

Aśvins

01 दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।
वि भा॒नुं वि॒श्वधा॑तनत् ॥

02 नृवद्दस्रा मनोयुजा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।
सचे॑थे अश्विनो॒षस॑म् ॥

03 युवाभ्यां वाजिनीवसू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।
वाचं॑ दू॒तो यथो॑हिषे ॥

04 पुरुप्रिया ण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुम॒न्द्रा पु॑रू॒वसू॑ ।
स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥

05 मंहिष्टा वाजसातमेषयन्ता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मंहि॑ष्ठा वाज॒सात॑मे॒षय॑न्ता शु॒भस्पती॑ ।
गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥

06 ता सुदेवाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीम् ।
घृ॒तैर्गव्यू॑तिमुक्षतम् ॥

07 आ न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभिः॑ ।
या॒तमश्वे॑भिरश्विना ॥

08 येभिस्तिस्रः परावतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।
त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥

09 उत नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा ।
वि प॒थः सा॒तये॑ सितम् ॥

10 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॒ गोम॑न्तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिम् ।
वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥

11 वावृधाना शुभस्पती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी ।
पिब॑तं सो॒म्यं मधु॑ ॥

12 अस्मभ्यं वाजिनीवसू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ ।
छ॒र्दिर्य॑न्त॒मदा॑भ्यम् ॥

13 नि षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् ।
मो ष्व१॒॑न्याँ उपा॑रतम् ॥

14 अस्य पिबतमश्विना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।
मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥

15 अस्मे आ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म् ।
पु॒रु॒क्षुं वि॒श्वधा॑यसम् ॥

16 पुरुत्रा चिद्धि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वय॑न्ते मनी॒षिणः॑ ।
वा॒घद्भि॑रश्वि॒ना ग॑तम् ॥

17 जनासो वृक्तबर्हिषो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्म॑न्तो अरं॒कृतः॑ ।
यु॒वां ह॑वन्ते अश्विना ॥

18 अस्माकमद्य वामयम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।
यु॒वाभ्यां॑ भूत्वश्विना ॥

19 यो ह - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।
ततः॑ पिबतमश्विना ॥

20 तेन नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।
वह॑तं॒ पीव॑री॒रिषः॑ ॥

21 उत नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नो॑ दि॒व्या इष॑ उ॒त सिन्धूँ॑रहर्विदा ।
अप॒ द्वारे॑व वर्षथः ॥

22 कदा वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा ।
यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥

23 युवं कण्वाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये ।
शश्व॑दू॒तीर्द॑शस्यथः ॥

24 ताभिरा यातमूतिभिर्नव्यसीभिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ ।
यद्वां॑ वृषण्वसू हु॒वे ॥

25 यथा चित्कण्वमावतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तम् ।
अत्रिं॑ शि॒ञ्जार॑मश्विना ॥

26 यथोत कृत्व्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य॑म् ।
यथा॒ वाजे॑षु॒ सोभ॑रिम् ॥

27 एतावद्वां वृषण्वसू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।
गृ॒णन्तः॑ सु॒म्नमी॑महे ॥

28 रथं हिरण्यवन्धुरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना ।
आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥

29 हिरण्ययी वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ ।
उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥

30 तेन नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् ।
उपे॒मां सु॑ष्टु॒तिं मम॑ ॥

31 आ वहेथे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता॑वश्विना ।
इषो॒ दासी॑रमर्त्या ॥

32 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।
पुरु॑श्चन्द्रा॒ नास॑त्या ॥

33 एह वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिनः॑ ।
अच्छा॑ स्वध्व॒रं जन॑म् ॥

34 रथं वामनुगायसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।
न च॒क्रम॒भि बा॑धते ॥

35 हिरण्ययेन रथेन - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वैः॑ ।
धीज॑वना॒ नास॑त्या ॥

36 युवं मृगम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।
ता नः॑ पृङ्क्तमि॒षा र॒यिम् ॥

37 ता मे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नाम् ।
यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना॑म् ॥

38 यो मे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे॒ हिर॑ण्यसन्दृशो॒ दश॒ राज्ञो॒ अमं॑हत ।
अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः॑ ॥

39 माकिरेना पथा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ ।
अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥