००३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘पिबा सुतस्य’ इति चतुर्विंशत्यृचं तृतीयं सूक्तं काण्वस्य मेध्यातिथेरार्षम्। अयुजो बृहत्यो युजः सतोबृहत्यः एकविंश्यनुष्टुब्द्वाविंशीत्रयोविंश्यौ गायत्र्यौ चतुर्विंशी बृहती । एताश्चतस्रः कुरयाणस्य पुत्रस्य पाकस्थामनाम्नो राज्ञो दानस्तुतिप्रतिपादिकाः । अतस्तदेवताकाः । शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तं – पिब चतुर्विंशतिर्मेध्यातिथिः प्रागाथं त्वनुष्टुब्गायत्र्यौ बृहती चान्त्याः कौरयाणस्य पाकस्थाम्नो दानस्तुतिः’ इति । महाव्रते निकेवल्ये बार्हततृचाशीतौ दानस्तुतीर्विनेदं सूक्तं सप्तम्यष्टम्योश्चोद्धारः । तथैव पञ्चमारण्यके सूत्रितं—‘पिबा सुतस्य रसिन इति विंशतेः सप्तमीं चाष्टमीं चोद्धरति (ऐ. आ. ५, २. ४) इति । ज्योतिष्टोमे निष्केवल्ये आद्यो रथन्तरसामप्रगाथः शंसनीयः । सूत्र्यते हि—-’ पिबा सुतस्य रसिन इति सामप्रगाथः’ (आश्व. श्रौ. ५. १५) इति । चातुर्विंशिकेऽहनि निष्केवल्येऽप्ययं प्रगाथः । सूत्र्यते हि उक्तो रथन्तरस्योभयं शृणवच्च न इति बृहतः’ ( आश्व. श्रौ. ७. ३ ) इति । एवमन्यत्रापि यदि रथन्तरं पृष्ठं भवति तत्र सर्वत्रायं प्रगाथो द्रष्टव्यः । पञ्चमेऽहनि प्रउगशस्त्रे ‘पिबा सुतस्थ’ इत्ययमैन्द्रः प्रगाथः । सूत्रितं च – पिबा सुतस्य रसिनो देवंदेवं वोऽवसे’ ( आश्व. श्रौ. ७. १२) इति ॥

Jamison Brereton

3 (623)
Indra (1–20), Pākasthāman Kaurayāṇa’s Dānastuti (21–24)
Medhyātithi Kāṇva
24 verses: br̥hatī alternating with satobr̥hatī, 1–20, arranged in pragāthas, anuṣṭubh 12, gāyatrī 22–23, br̥hatī 24
Like the previous two hymns, this one consists of a long praise of Indra (vss. 1–20) followed by a short dānastuti (21–24). The Indra portion is arranged in stan dard pragāthas, while the dānastuti is metrically more varied. The verse pairs of the pragāthas are for the most part internally unified, but like many of the longer hymns in VIII there is not much apparent structure in the hymn as a whole. There are, however, several recurrent themes: the greatness (mahimán) and vast power (śávas) of Indra (e.g., vss. 4, 6); the gods and poets who have previously celebrated Indra and have been helped by him (e.g., vss. 7–9, 16); and the sheer noise made by Indra’s praisers (e.g., vss. 3, 7, 16, 18). In the context of all this previous poetic activity, verses 13 and 14 raise anxious questions about what constitutes the proper topic of praise poetry and how to configure these praises anew, the perennial prob
lem of the R̥gvedic bard.
The dānastuti is far easier to interpret than those of the previous two hymns: the patron Pākasthāman is celebrated for his gift of a particularly fine sorrel horse, given also by Indra and the Maruts. The first half of the last verse (24) seems to contain an adage, or adapted piece of folk wisdom, as a foil to further praise of the patron in the second half of the verse. The verse itself has a slight Pindaric ring.

Jamison Brereton Notes

Indra

01 पिबा सुतस्य - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बा सुत᳓स्य रसि᳓नो
म᳓त्स्वा न इन्द्र गो᳓मतः
आपि᳓र् नो बोधि सधमा᳓दियो वृधे᳓
अस्माँ᳓ अवन्तु ते धि᳓यः

02 भूयाम ते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

भूया᳓म ते सुमतउ᳓ वाजि᳓नो वय᳓म्
मा᳓ न स्तर् अभि᳓मातये
अस्मा᳓ञ् चित्रा᳓भिर् अवताद् अभि᳓ष्टिभिर्
आ᳓ नः सुम्ने᳓षु यामय

03 इमा उ - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ उ त्वा पुरूवसो
गि᳓रो वर्धन्तु या᳓ म᳓म
पवाक᳓वर्णाः+ शु᳓चयो विपश्चि᳓तो
अभि᳓ स्तो᳓मैर् अनूषत

04 अयं सहस्रमृषिभिः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ सह᳓स्रम् ऋ᳓षिभिः स᳓हस्कृतः
समुद्र᳓ इव पप्रथे
सत्यः᳓ सो᳓ अस्य महिमा᳓ गृणे श᳓वो
यज्ञे᳓षु विप्ररा᳓जिये

05 इन्द्रमिद्देवतातय इन्द्रम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रम् इ᳓द् देव᳓तातय
इ᳓न्द्रम् प्रयति᳓ अध्वरे᳓
इ᳓न्द्रं समीके᳓ वनि᳓नो हवामह
इ᳓न्द्रं ध᳓नस्य सात᳓ये

06 इन्द्रो मह्ना - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो मह्ना᳓ रो᳓दसी पप्रथच् छ᳓व
इ᳓न्द्रः सू᳓र्यम् अरोचयत्
इ᳓न्द्रे ह वि᳓श्वा भु᳓वनानि येमिर
इ᳓न्द्रे स्वाना᳓स° इ᳓न्दवः

07 अभि त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ त्वा पूर्व᳓पीतय
इ᳓न्द्र स्तो᳓मेभिर् आय᳓वः
समीचीना᳓स ऋभ᳓वः स᳓म् अस्वरन्
रुद्रा᳓ गृणन्त पू᳓र्वियम्

08 अस्येदिन्द्रो वावृधे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अस्ये᳓द् इ᳓न्द्रो वावृधे वृ᳓ष्णियं श᳓वो
म᳓दे सुत᳓स्य वि᳓ष्णवि
अद्या᳓ त᳓म् अस्य महिमा᳓नम् आय᳓वो
अ᳓नु ष्टुवन्ति पूर्व᳓था

09 तत्त्वा यामि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् त्वा यामि सुवी᳓रियं
त᳓द् ब्र᳓ह्म पूर्व᳓चित्तये
ये᳓ना य᳓तिभ्यो भृ᳓गवे ध᳓ने हिते᳓
ये᳓न प्र᳓स्कण्वम् आ᳓विथ

10 येना समुद्रमसृजो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ना समुद्र᳓म् अ᳓सृजो मही᳓र् अप᳓स्
त᳓द् इन्द्र वृ᳓ष्णि ते श᳓वः
सद्यः᳓ सो᳓ अस्य महिमा᳓ न᳓ संन᳓शे
यं᳓ क्षोणी᳓र् अनुचक्रदे᳓

11 शग्धी न - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शग्धी᳓ न इन्द्र य᳓त् तुवा
रयिं᳓ या᳓मि सुवी᳓रियम्
शग्धि᳓ वा᳓जाय प्रथमं᳓ सि᳓षासते
शग्धि᳓ स्तो᳓माय पूर्विय

12 शग्धी नो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शग्धी᳓ नो अस्य᳓ य᳓द् ध पौर᳓म् आ᳓विथ
धि᳓य इन्द्र सि᳓षासतः
शग्धि᳓ य᳓था रु᳓शमं श्या᳓वकं कृ᳓पम्
इ᳓न्द्र प्रा᳓वः सु᳓वर्णरम्

13 कन्नव्यो अतसीनाम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓न् न᳓व्यो अतसी᳓नां᳐
तुरो᳓ गृणीत म᳓र्तियः
नही᳓ नु᳓ अस्य महिमा᳓नम् इन्द्रियं᳓
सु᳓वर् गृण᳓न्त आनशुः᳓

14 कदु स्तुवन्त - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓द् उ स्तुव᳓न्त ऋतयन्त देव᳓त
ऋ᳓षिः को᳓ वि᳓प्र ओहते
कदा᳓ ह᳓वम् मघवन्न् इन्द्र सुन्वतः᳓
क᳓द् उ स्तुवत᳓ आ᳓ गमः

15 उदु त्ये - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ त्ये᳓ म᳓धुमत्तमा
गि᳓र स्तो᳓मास ईरते
सत्राजि᳓तो धनसा᳓ अ᳓क्षितोतयो
वाजय᳓न्तो र᳓था इव

16 कण्वा इव - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓ण्वा इव भृ᳓गवः सू᳓रिया इव
वि᳓श्वम् इ᳓द् धीत᳓म् आनशुः
इ᳓न्द्रं स्तो᳓मेभिर् मह᳓यन्त आय᳓वः
प्रिय᳓मेधासो अस्वरन्

17 युक्ष्वा हि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

युक्ष्वा᳓ हि᳓ वृत्रहन्तम
ह᳓री इन्द्र पराव᳓तः
अर्वाचीनो᳓ मघवन् सो᳓मपीतय
उग्र᳓ ऋष्वे᳓भिर् आ᳓ गहि

18 इमे हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ हि᳓ ते कार᳓वो वावशु᳓र् धिया᳓
वि᳓प्रासो मेध᳓सातये
स᳓ तुवं᳓ नो मघवन्न् इन्द्र गिर्वणो
वेनो᳓ न᳓ शृणुधी ह᳓वम्

19 निरिन्द्र बृहतीभ्यो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓र् इन्द्र बृहती᳓भियो
वृत्रं᳓ ध᳓नुभ्यो अस्फुरः
नि᳓र् अ᳓र्बुदस्य मृ᳓गयस्य मायि᳓नो
निः᳓ प᳓र्वतस्य गा᳓ आजः

20 निरग्नयो रुरुचुर्निरु - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓र् अग्न᳓यो रुरुचुर् नि᳓र् उ सू᳓रियो
निः᳓ सो᳓म इन्द्रियो᳓ र᳓सः
नि᳓र् अन्त᳓रिक्षाद् अधमो महा᳓म् अ᳓हिं
कृषे᳓ त᳓द् इन्द्र पउं᳓सियम्

21 यं मे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् मे दु᳓र् इ᳓न्द्रो मरु᳓तः
पा᳓कस्थामा कउ᳓रयाणः
वि᳓श्वेषां त्म᳓ना शो᳓भिष्ठम्
उ᳓पेव दिवि᳓ धा᳓वमानम्

22 रोहितं मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रो᳓हितम् मे पा᳓कस्थामा
सुधु᳓रं कक्षियप्रा᳐᳓म्
अ᳓दाद् रायो᳓ विबो᳓धनम्

23 यस्मा अन्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्मा अन्ये᳓ द᳓श प्र᳓ति
धु᳓रं व᳓हन्ति व᳓ह्नयः
अ᳓स्तं व᳓यो न᳓ तु᳓ग्रियम्

24 आत्मा पितुस्तनूर्वासओजोदा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आत्मा᳓ पितु᳓स् तनू᳓र् वा᳓स
ओजोदा᳓ अभिअ᳓ञ्जनम्
तुरी᳓यम् इ᳓द् रो᳓हितस्य पा᳓कस्थामानम्
भोजं᳓ दाता᳓रम् अब्रवम्