१०२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘पर्जन्याय’ इति तृचं त्रयोदशं सूक्तं गायत्रम् । पूर्ववदृषिदेवते । तथा चानुक्रान्तं - पर्जन्याय तृचं गायत्रम्’ इति । वैश्वानरपार्जन्यायामन्वारम्भणीयायां पार्जन्यस्य चरोः ‘ पर्जन्याय ’ इत्यनुवाक्या । सूत्र्यते हि - ‘ पर्जन्याय प्र गायत प्र वाता वान्ति पतयन्ति विद्युतः ’ ( आश्व. श्रौ. २. १५) इति ।।

Jamison Brereton

102 (618)
Parjanya
Kumāra Āgneya or Vasiṣṭha Maitrāvaruṇi
3 verses: gāyatrī
As simple and straightforward an address to Parjanya as the preceding hymn was cryptic and complex.

Jamison Brereton Notes

Parjanya Although the Anukr. identifies the meter of vs. 2 as Pādanicṛṭ (7 7 / 7), it is clearly a Gāyatrī like the other two vss., with distraction of the gen. pl. ending -nãm at the end of pādas a, c.

01 पर्जन्याय प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पर्ज᳓न्याय प्र᳓ गायत
दिव᳓स् पुत्रा᳓य मीळ्हु᳓षे
स᳓ नो य᳓वसम् इछतु

02 यो गर्भमोषधीनाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ ग᳓र्भम् ओ᳓षधीनां᳐
ग᳓वां कृणो᳓ति अ᳓र्वताम्
पर्ज᳓न्यः पुरुषी᳓णा᳐म्

03 तस्मा इदास्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓स्मा इ᳓द् आसि᳓ये हवि᳓र्
जुहो᳓ता म᳓धुमत्तमम्
इ᳓ळां नः संय᳓तं करत्