१०१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्थ निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ सप्तमो व्याख्यायते । सप्तममण्डलस्य षष्ठेऽनुवाक एकादश सूक्तानि व्याख्यातानि । ‘ तिस्रो वाचः’ इति षडृचं द्वादशं सूक्तम् । अत्रानुक्रम्यते – ‘ तिस्रः षट् पार्जन्यं तु ’ इति । एते कुमार आग्नेयोऽपश्थद्वसिष्ठ एव वा ’ इति वक्ष्यमाणत्वादग्निपुत्रः कुमार ऋषिर्वसिष्ठो वा । अनुक्तत्वात् त्रिष्टुप् । इदमुत्तरं च पर्जन्यदेवत्यम् । अत्र शौनकः – आस्यदघ्नं विगाह्यापः प्राङ्मुखः प्रयतः शुचिः । सूक्ताभ्यां तिस्र आदिभ्यामुपतिष्ठेत भास्करम् ॥ अनश्नतैतज्जप्तव्यं वृष्टिकामेन यत्नतः । पञ्चरात्रेऽप्यतिक्रान्ते महतीं वृष्टिमाप्नुयात् ॥’ (ऋग्वि. २. ३२६-२७) इति ॥

Jamison Brereton

101 (617)
Parjanya
Kumāra Āgneya or Vasiṣṭha Maitrāvaruṇi
6 verses: triṣṭubh
Dedicated to Parjanya, the god of thunder, this hymn celebrates the fructifying rain in sometimes cryptic and riddling terms, which probably involve simultaneous natu ral and ritual reference. The number three is a recurrent theme: the “three speeches” of verse 1; the “triply layered” shelter and “triply turned” light of verse 2; the three heavens, three stages of flowing water, and three buckets of verse 4. There is also, as often with R̥gvedic atmospheric phenomena, gender ambiguity and gender shifting. The bull of verse 1 creates a calf as his embryo. In verse 3 an unidentified subject (though surely Parjanya) is sometimes a barren cow and sometimes gives birth. (The “he” of the translation is a necessary English compromise: the Sanskrit has no pronominal subject and therefore no gender identifier.) Later in that verse the father provides milk to the mother. As is often the case with R̥gvedic enigmas, it is likely that there is no one correct answer to the riddles, which are instead meant to stimulate creative speculation.

Jamison Brereton Notes

Parjanya

01 तिस्रो वाचः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ ।
स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥

02 यो वर्धनओषधीनाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ ।
स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॒॑स्मे ॥

03 स्तरीरु त्वद्भवति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥

04 यस्मिन्विश्वानि भुवनानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ ।
त्रयः॒ कोशा॑स उप॒सेच॑नासो॒ मध्वः॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥

05 इदं वचः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् ।
म॒यो॒भुवो॑ वृ॒ष्टयः॑ सन्त्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥

06 स रेतोधा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च ।
तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥