१००

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘नू मर्तः’ इति सप्तर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैष्णवम् । ‘नू मर्तः’ इत्यनुक्रान्तम् । उक्थ्ये अच्छावाकशस्त्र इदं शंसनीयम् । सूत्रितं च - ‘ ऋतुर्जनित्री नू मर्तो भवा मित्रः ’ ( आश्व. श्रौ. ६. १) इति ।।

Jamison Brereton

100 (616)
Viṣṇu
Vasiṣṭha Maitrāvaruṇi
7 verses: triṣṭubh
The hymn begins conventionally enough, with a mortal offering sacrifice to the god (vs. 1) and a request for gifts in return (vs. 2). Viṣṇu’s three strides are the subject of the following two, responsive verses (3–4). Verse 3d also introduces the theme of Viṣṇu’s name, which is the subject of the last two real verses of the hymn (5–6, since vs. 7 is merely a repetition of the final verse of VII.99). The enigmatic epithet śipiviṣṭá found in the last verse of the last hymn (VII.99.7) is, as it were, interrogated in these verses. In verse 6 the poet, who boasts that he knows the hidden patterns, sets out to proclaim the god’s name, while addressing him as Śipiviṣṭa, and then asks in the next verse whether the god’s own proclamation of himself as Śipiviṣṭa was meant to be ignored or passed over. The poet then mysteriously alludes to two different forms of the god, which may (or may not) correspond to two different names. The hymn does not resolve these questions, perhaps leaving the shadowy figure of Viṣṇu to be fully developed in the ensuing centuries.

Jamison Brereton Notes

Viṣṇu

01 नू मर्तो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳐᳓ म᳓र्तिओ° दयते सनिष्य᳓न्
यो᳓ वि᳓ष्णव उरुगाया᳓य दा᳓शत्
प्र᳓ यः᳓ सत्रा᳓चा म᳓नसा य᳓जात
एता᳓वन्तं न᳓रियम् आवि᳓वासात्

02 त्वं विष्णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ विष्णो सुमतिं᳓ विश्व᳓जन्याम्
अ᳓प्रयुताम् एवयावो मतिं᳓ दाः
प᳓र्चो य᳓था नः सुवित᳓स्य भू᳓रेर्
अ᳓श्वावतः पुरुश्चन्द्र᳓स्य रायः᳓

03 त्रिर्देवः पृथिवीमेष - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓र् देवः᳓ · पृथिवी᳓म् एष᳓ एतां᳓
वि᳓ चक्रमे शत᳓र्चसम् महित्वा᳓
प्र᳓ वि᳓ष्णुर् अस्तु तव᳓सस् त᳓वीयान्
त्वेषं᳓ हि᳓ अस्य स्थ᳓विरस्य ना᳓म

04 वि चक्रमे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ चक्रमे पृथिवी᳓म् एष᳓ एतां᳓
क्षे᳓त्राय वि᳓ष्णुर् म᳓नुषे दशस्य᳓न् ।
ध्रुवा᳓सो अस्य कीर᳓यो ज᳓नास
उरु-क्षितिं᳓ सुज᳓निमा चकार ॥

05 प्र तत्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ त᳓त् ते अद्य᳓ शिपिविष्ट ना᳓म
अर्यः᳓ शंसामि वयु᳓नानि विद्वा᳓न्
तं᳓ त्वा गृणामि तव᳓सम् अ᳓तव्यान्
क्ष᳓यन्तम् अस्य᳓ र᳓जसः पराके᳓

06 किमित्ते विष्णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कि᳓म् इ᳓त् ते विष्णो परिच᳓क्षियम् भूत्
प्र᳓ य᳓द् ववक्षे᳓ शिपिविष्टो᳓ अस्मि
मा᳓ व᳓र्पो अस्म᳓द् अ᳓प गूह एत᳓द्
य᳓द् अन्य᳓रूपः समिथे᳓ बभू᳓थ

07 वषथ् ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓षट् ते विष्णव् आस᳓ आ᳓ कृणोमि
त᳓न् मे जुषस्व शिपिविष्ट हव्य᳓म्
व᳓र्धन्तु त्वा सुष्टुत᳓यो गि᳓रो मे
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः