०९५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र क्षोदसा’ इति षडृचं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं सरस्वतीदेवताकम् । तृतीया तु सरस्वद्देवताका । अनुक्रम्यते च -– प्र क्षोदसा षट् सारस्वतं तु तृतीया सरस्वते’ इति । गतः सूक्तविनियोगः । प्रथमे छन्दोमे प्रउगशस्त्रे ‘प्र क्षोदसा धायसा सस्र एषेति प्रउगम्’ (आश्व. श्रौ. ८. ९) इति । सारस्वते पशौ ‘प्र क्षोदसा’ इति वपाया याज्या। सूत्रितं च- प्र क्षोदसा धायसा सस्र एषा पावीरवी कन्या चित्रायुः’ (आश्व. श्रौ. ३. ७) इति ॥

Jamison Brereton

95 (611)
Sarasvatı (1–2, 4–6), Sarasvant (3) ̄
Vasiṣṭha Maitrāvaruṇi
6 verses: triṣṭubh
The multitalented goddess of wisdom and patroness of arts and music familiar from classical Hindu sources is not the Sarasvatī of the R̥gveda: in this text she is first and foremost a river, and not the mythical river Sarasvatī of later times, but a real, physical river that flows “from the mountains to the sea” (see vs. 2). Her distin guishing characteristics are all associated with this physical nature: the power and beauty of her ever-flowing current, and the nourishment and riches it brings with it. She is often mentioned along with her sister rivers, as first among equals, and in this hymn (vs. 3) and the next (VII.96.4–6) also with her shadowy male coun terpart Sarasvant.

Jamison Brereton Notes

Sarasvatī

01 प्र क्षोदसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ क्षो᳓दसा धा᳓यसा सस्र एषा᳓
स᳓रस्वती धरु᳓णम् आ᳓यसी पूः᳓
प्रबा᳓बधाना रथि᳓येव याति
वि᳓श्वा अपो᳓ महिना᳓ सि᳓न्धुर् अन्याः᳓

02 एकाचेतत्सरस्वती नदीनाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓काचेतत् स᳓रस्वती नदी᳓नां
शु᳓चिर् यती᳓ गिरि᳓भ्य आ᳓ समुद्रा᳓त्
राय᳓श् चे᳓तन्ती भु᳓वनस्य भू᳓रेर्
घृत᳓म् प᳓यो दुदुहे ना᳓हुषाय

03 स वावृधे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वावृधे न᳓रियो यो᳓षणासु
वृ᳓षा शि᳓शुर् वृषभो᳓ यज्ञि᳓यासु
स᳓ वाजि᳓नम् मघ᳓वद्भ्यो दधाति
वि᳓ सात᳓ये तनु᳓वम् मामृजीत

04 उत स्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्या᳓ नः स᳓रस्वती जुषाणा᳓
उ᳓प श्रवत् सुभ᳓गा यज्णे᳓ अस्मि᳓न्
मित᳓ज्ञुभिर् नमसि᳓यैर् इयाना᳓
राया᳓ युजा᳓ चिद् उ᳓त्तरा स᳓खिभ्यः

05 इमा जुह्वाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ +++(यजमानाः)+++ जु᳓ह्वाना युष्म᳓द्+++(→त्वां)+++ आ᳓ न᳓मोभिः
प्र᳓ति स्तो᳓मं सरस्वति जुषस्व
त᳓व श᳓र्मन् प्रिय᳓तमे द᳓धाना
उ᳓प स्थेयाम शरणं᳓ न᳓ वृक्ष᳓म् ॥

06 अयमु ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् उ ते सरस्वति व᳓सिष्ठो
द्वा᳓राव् ऋत᳓स्य सुभगे वि᳓ आवः
व᳓र्ध शुभ्रे स्तुवते᳓ रासि वा᳓जान्
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः