०९२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ वायो’ इति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम् । अनुक्रान्तं च — ‘ आ वायो पञ्च ’ इति । शुनासीरीये पर्वणि वायोर्नियुत्वतो यागस्य ‘आ वायो ’ इत्यनुवाक्या । सूत्रितं च — आ वायो भूष शुचिपा उप नः प्र याभिर्यासि दाश्वांसमच्छ ’ ( आश्व. श्रौ. २.२० ) इति । नियुत्वद्वायुदेवताके पशावेषैव वपाया अनुवाक्या ( आश्व. श्रौ. ३. ८)। प्रथमे छन्दोमे प्रउगशस्त्रे वायव्यतृचस्यैषैवाद्या । सूत्रितं च – समुद्रादूर्मिरित्याज्यमा वायो भूष शुचिपाः’ (आश्व. श्रौ. ८.९) इति ॥

Jamison Brereton

92 (608)
Vāyu (1, 3–5), Indra and Vāyu (2)
Vasiṣṭha Maitrāvaruṇi
5 verses: triṣṭubh
The “teams” of Vāyu are the primary topic of this hymn. They are identified as thousandfold in the first and last verses of the hymn, forming a conceptual ring, and in the middle verse (3) the productive ambiguity of the word is exposed: the teams are not merely the wind-horses that bring Vāyu here, but also the many forms of wealth he brings to us in return for the sacrifice. The even verses (2 and 4) first make the invitation to the sacrifice clear and then express wishes for success both for the priests and poets and for the patrons.

Jamison Brereton Notes

Vāyu / Indra and Vāyu

01 आ वायो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वायो भूष शुचि-पा उ᳓प नः +++(सोमं)+++
+++(यत्तस्)+++ सह᳓स्रं ते नियु᳓तो+++(=अश्वाः)+++ विश्व-वार ।
+++(तत)+++ उ᳓पो ते अ᳓न्धो+++(=अन्नम् ←)+++ म᳓द्यम् अयामि,
य᳓स्य देव दधिषे᳓+++(←धा)+++ पूर्व-पे᳓यम् ॥

02 प्र सोता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सो᳓ता जीरो᳓ अध्वरे᳓षु अस्थात्
सो᳓मम् इ᳓न्द्राय वाय᳓वे पि᳓बध्यै
प्र᳓ य᳓द् वाम् म᳓ध्वो अग्रिय᳓म् भ᳓रन्ति
अध्वर्य᳓वो देवय᳓न्तः श᳓चीभिः

03 प्र याभिर्यासि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ या᳓भिर् या᳓सि दाशुवां᳓सम् अ᳓छा
नियु᳓द्भिर् वायव् इष्ट᳓ये दुरोणे᳓
नि᳓ नो रयिं᳓ सुभो᳓जसं युवस्व
नि᳓ वीरं᳓ ग᳓व्यम् अ᳓श्वियं च रा᳓धः

04 ये वायव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ वाय᳓व इन्दरमा᳓दनास+
आ᳓देवासो नितो᳓शनासो अर्यः᳓
घ्न᳓न्तो वृत्रा᳓णि सूरि᳓भिः षियाम
सासह्वां᳓सो युधा᳓ नृ᳓भिर् अमि᳓त्रान्

05 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो नियु᳓द्भिः शति᳓नीभिर् अध्वरं᳓
सहस्रि᳓णीभिर् उ᳓प याहि यज्ञ᳓म्
वा᳓यो अस्मि᳓न् स᳓वने मादयस्व
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः