०८५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ पुनीषे वाम्’ इति पञ्चर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रावरुणम् । पुनीषे’ इत्यनुक्रान्तम् । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ प्रशास्तुरिदमावापार्थम् । सूत्रितं च — ‘ युवां नरा पुनीषे वाम्’ (आश्व. श्रौ. ७. ९) इति ॥

Jamison Brereton

85 (601)
Indra and Varuṇa
Vasiṣṭha Maitrāvaruṇi
5 verses: triṣṭubh
The poet announces his hymn in the first verse, implicitly comparing it to Agni, the sacrificial fire. Agni has a “face of ghee,” that is, he is both bright like ghee and receives oblations of ghee (cf. I.143.7, III.1.18, V.11.1, X.21.7). This prepares for verse 4, in which the poet asks that Agni be the Hotar of this rite, who will bring the oblations to Indra and Varuṇa. The last verse is also found as VII.84.5 but is less thematically connected to this hymn than it is to the previous hymn.

01 पुनीषे वामरक्षसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पुनीषे᳓ वाम् अरक्ष᳓सम् मनीषां᳓
सो᳓मम् इ᳓न्द्राय व᳓रुणाय जु᳓ह्वत्
घृत᳓प्रतीकाम् उष᳓सं न᳓ देवीं᳓
ता᳓ नो या᳓मन्न् उरुष्यताम् अभी᳓के

02 स्पर्धन्ते वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्प᳓र्धन्ते वा᳓ उ देवहू᳓ये अ᳓त्र
ये᳓षु ध्वजे᳓षु दिद्य᳓वः प᳓तन्ति
युवं᳓ ताँ᳓ इन्द्रावरुणाव् अमि᳓त्रान्
हत᳓म् प᳓राचः श᳓रुवा वि᳓षूचः

03 आपश्चिद्धि स्वयशसः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓पश् चिद् धि᳓ स्व᳓यशसः स᳓दस्सु
देवी᳓र् इ᳓न्द्रं व᳓रुणं देव᳓ता धुः᳓
कृष्टी᳓र् अन्यो᳓ धार᳓यति प्र᳓विक्ता
वृत्रा᳓णि अन्यो᳓ अप्रती᳓नि हन्ति

04 स सुक्रतुऋड़्तचिदस्तु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ सुक्र᳓तुर् ऋतचि᳓द् अस्तु हो᳓ता
य᳓ आदित्य श᳓वसा वां न᳓मस्वान्
आवव᳓र्तद् अ᳓वसे वां हवि᳓ष्मान्
अ᳓सद् इ᳓त् स᳓ सुविता᳓य प्र᳓यस्वान्

05 इयमिन्द्रं वरुणमष्थ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इय᳓म् इ᳓न्द्रं व᳓रुणम् अष्ट मे गीः᳓
प्रा᳓वत् तोके᳓ त᳓नये तू᳓तुजाना
सुर᳓त्नासो देव᳓वीतिं गमेम
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः