०८१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशायनमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ षष्ठो व्याख्यायते । सप्तमे मण्डले पञ्चमेऽनुवाके दश सूक्तानि व्याकृतानि। ‘ प्रत्यु अदर्शि’ इति षडृचमेकादशं सूक्तं वसिष्ठस्यार्षमुषस्यम् । प्रथमाद्या अयुजो बृहत्यो द्वितीयाद्या युजः सतोबृहत्यः । तथा चानुक्रान्तं—- ‘ प्रत्यु षट् प्रागाथम्’ इति । प्रातरनुवाक उषस्ये क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च— प्रत्यु अदर्शि सह वामेनेति बार्हतम्’ (आश्व. श्रौ. ४. १४) इति ॥

Jamison Brereton

81 (597)
Dawn
Vasiṣṭha Maitrāvaruṇi
6 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas This final hymn breaks the pattern of the other Dawn hymns in this series: it has too many verses for its position; it is composed of three pragāthas of br̥hatī alter nating with satobr̥hatī (as opposed to the triṣṭubh meter of the other hymns); and it lacks the Vasiṣṭha clan refrain. It is therefore likely to have been an addition to the collection, and the 1st-person plural subjunctive bhunájāmahai in verse 5 with the modernized -mahai ending supports this assumption. However, the themes and concerns of the hymn and the phraseology employed do not differ significantly from those that went before.

Jamison Brereton Notes

Dawn

01 प्रत्यु अदर्श्यायत्युट्च्छन्ती - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓त्य् उ अदर्शि आयती᳓
उछ᳓न्ती दुहिता᳓ दिवः᳓
अ᳓पो म᳓हि व्ययति च᳓क्षसे त᳓मो
ज्यो᳓तिष् कृणोति सून᳓री

02 उदुस्रियाः सृजते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उस्रि᳓याः सृजते सू᳓रियः स᳓चाँ
उद्य᳓न् न᳓क्षत्रम् अर्चिव᳓त्
त᳓वे᳓द् उषो विउ᳓षि सू᳓रियस्य च
स᳓म् भक्ते᳓न गमेमहि

03 प्रति त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति त्वा दुहितर् दिव
उ᳓षो जीरा᳓ अभुत्स्महि
या᳓ व᳓हसि पुरु᳓ स्पार्हं᳓ वनन्वति
र᳓त्नं न᳓ दाशु᳓षे म᳓यः

04 उच्छन्ती या - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उछ᳓न्ती या᳓ कृणो᳓षि मंह᳓ना महि
प्रख्यइ᳓ देवि सु᳓वर् दृशे᳓
त᳓स्यास् ते रत्नभा᳓ज ईमहे वयं᳓
स्या᳓म मातु᳓र् न᳓ सून᳓वः

05 तच्चित्रं राध - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓च् चित्रं᳓ रा᳓ध आ᳓ भर
उ᳓षो य᳓द् दीर्घश्रु᳓त्तमम्
य᳓त् ते दिवो दुहितर् मर्तभो᳓जनं
त᳓द् रास्व भुन᳓जामहै

06 श्रवः सूरिभ्यो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

श्र᳓वः सूरि᳓भ्यो अमृ᳓तं वसुत्वनं᳓
वा᳓जाँ अस्म᳓भ्यं गो᳓मतः
चोदयित्री᳓ मघो᳓नः सूनृ᳓तावती
उषा᳓ उछद् अ᳓प स्रि᳓धः