०८०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रति स्तोमेभिः’ इति तृचात्मकं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमुषस्यम् । ‘प्रति तृचम् इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

80 (596)
Dawn
Vasiṣṭha Maitrāvaruṇi
3 verses: triṣṭubh
This very brief hymn, a mere three verses, sketches the main outlines of Dawn’s activities, though it has no space to elaborate: her connection with poets and the morning ritual, her task of revealing the visible world and banishing darkness, and her connection with the distribution of goods.

Jamison Brereton Notes

Dawn

01 प्रति स्तोमेभिरुषसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति स्तो᳓मेभिर् उष᳓सं व᳓सिष्ठा
गीर्भि᳓र् वि᳓प्रासः प्रथमा᳓ अबुध्रन्
विवर्त᳓यन्तीं र᳓जसी स᳓मन्ते
आविष्कृण्वती᳓म् भु᳓वनानि वि᳓श्वा

02 एषा स्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एषा᳓ सिया᳓ न᳓व्यम् आ᳓युर् द᳓धाना
गूढ्वी᳓ त᳓मो ज्यो᳓तिषोषा᳓ अबोधि
अ᳓ग्र एति युवति᳓र् अ᳓ह्रयाणा
प्रा᳓चिकितत् सू᳓रियं यज्ञ᳓म् अग्नि᳓म्

03 अश्वावतीर्गोमतीर्न उषासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वावतीर् गो᳓मतीर् न उषा᳓सो
वीर᳓वतीः स᳓दम् उछन्तु भद्राः᳓
घृतं᳓ दु᳓हाना विश्व᳓तः प्र᳓पीता
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः