०७५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘व्युषा आवः’ इत्यष्टर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षम् । अत्रानुक्रमणिका – व्युषा अष्टावुषस्यं तु वै ’ इति । तु वै इत्युक्तत्वात्तुह्यादिपरिभाषया इदमादीनि सप्त सूक्तान्युषोदेवत्यानि । प्रातरनुवाक उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदमादीनि षट् सूक्तानि । तथा च सूत्र्यते - ’ व्युषा आवो दिविजा इति षडिति त्रैष्टुभम् ’ (आश्व. श्रौ. ४. १४) इति । ऋग्विधान आख्यातो विनियोगोऽत्र लिख्यते - ‘रात्र्या अपरकाले य उत्थाय प्रयतः शुचिः । व्युषा इत्युपतिष्ठेत षड्भिः सूक्तैः कृताञ्जलिः ॥ प्राप्नुयात् स हिरण्यानि नानारूपं धनं बहु । गा अश्वान् पुरुषान् धान्यं स्त्रियो वासांस्यजाविकम् ’ (ऋग्वि. २. ३१७-१८) इति ।

Jamison Brereton

75 (591)
Dawn
Vasiṣṭha Maitrāvaruṇi
8 verses: triṣṭubh
This Dawn hymn contains most of the usual Dawn themes: her immediate arrival, which awakens the world, her beauty and brightness, her daily journey, and, espe cially, her bestowal of riches on her praisers. The second half of verse 7 alludes to the Vala myth and the release of the dawn cows (see also the Aṅgiras reference in 1d); otherwise there are no mythological elements and no mention of other gods. Although there are no particularly vivid images or striking phrases, the hymn is pleasingly composed and contains some well-crafted phonological figures that are unfortunately untranslatable.

Jamison Brereton Notes

Dawn

01 व्युट्षा आवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् ।
अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या॑ अजीगः ॥

02 महे नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हे नो॑ अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो॑ म॒हे सौभ॑गाय॒ प्र य॑न्धि ।
चि॒त्रं र॒यिं य॒शसं॑ धेह्य॒स्मे देवि॒ मर्ते॑षु मानुषि श्रव॒स्युम् ॥

03 एते त्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ते त्ये भा॒नवो॑ दर्श॒ताया॑श्चि॒त्रा उ॒षसो॑ अ॒मृता॑स॒ आगुः॑ ।
ज॒नय॑न्तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णन्तो॑ अ॒न्तरि॑क्षा॒ व्य॑स्थुः ॥

04 एषा स्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति ।
अ॒भि॒पश्य॑न्ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥

05 वाजिनीवती सूर्यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒जिनी॑वती॒ सूर्य॑स्य॒ योषा॑ चि॒त्राम॑घा रा॒य ई॑शे॒ वसू॑नाम् ।
ऋषि॑ष्टुता ज॒रय॑न्ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ॥

06 प्रति द्युतानामरुषासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति॑ द्युता॒नाम॑रु॒षासो॒ अश्वा॑श्चि॒त्रा अ॑दृश्रन्नु॒षसं॒ वह॑न्तः ।
याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे॑न॒ दधा॑ति॒ रत्नं॑ विध॒ते जना॑य ॥

07 सत्या सत्येभिर्महती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑र्यज॒ता यज॑त्रैः ।
रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया॑णां॒ प्रति॒ गाव॑ उ॒षसं॑ वावशन्त ॥

08 नू नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा॑वत्पुरु॒भोजो॑ अ॒स्मे ।
मा नो॑ ब॒र्हिः पु॑रु॒षता॑ नि॒दे क॑र्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥