०७४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इमा उ वाम्’ इति षडृचं चतुर्थं सूक्तमाश्विनं वसिष्ठस्यार्षम् । आद्यातृतीयापञ्चम्यो बृहत्यः शिष्टाः सतोबृहत्यः । तथा चानुक्रान्तम्-’इमा उ वां षट् प्रागाथम् ’ इति । प्रातरनुवाक आश्विने क्रतौ बार्हते छन्दस्याश्विनशस्त्रे च सूक्तम् । सूत्रितं च— इमा उ वामयं वाम् ’ (आश्व. श्रौ. ४. १५) इति । दशरात्रे पञ्चमेऽहनि प्रउगशस्त्रे ‘इमा उ वाम्’ इत्ययमाश्विनस्तृचः। सूत्रितं च—’इमा उ वां दिविष्टयः पिबा सुतस्य रसिनः’ (आश्व. श्रौ. ७. १२) इति ॥

Jamison Brereton

74 (590)
Aśvins
Vasiṣṭha Maitrāvaruṇi
6 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
The metrical alternation of br̥hatī and satobr̥hatī structures this hymn into three pragāthas. All three mention food, most often the soma (vss. 2d, 3b) or other nour ishment (vs. 5b) that the Aśvins receive. But the poet also describes the nourishment that the Aśvins give (vs. 2a). The last two verses connect these two kinds of nourish ment in the climax of the hymn. In verse 5 the poet pairs the nourishment that his patrons follow as they approach the Aśvins as a complement to the “glory,” their prominence in the social order, that they receive from the Aśvins in exchange. As a result these patrons become godlike—able to keep away “the wolf,” which represents danger (cf. I.174.10 of Indra), and swelling “with swelling strength” (śávasā śūśuvuḥ; cf. VII.93.2 of Indra and Agni, VI.19.2 of Indra, and I.167.9 of the Maruts). The

ability of the Aśvins to go to every clan (vs. 1d) likewise parallels the “man-protec tors” (nr̥pātā́raḥ), or kings of the peoples, of the tribes consisting of clans.

01 इमा उ - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ उ वां दि᳓विष्टय
उस्रा᳓ हवन्ते अश्विना
अयं᳓ वाम् अह्वे अ᳓वसे शचीवसू
वि᳓शं-विशं हि᳓ ग᳓छथः

02 युवं चित्रम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

युवं᳓ चित्रं᳓ ददथुर् भो᳓जनं नरा
चो᳓देथां सूनृ᳓तावते
अर्वा᳓ग् र᳓थं स᳓मनसा नि᳓ यछतम्
पि᳓बतं सोमिय᳓म् म᳓धु

03 आ यातमुप - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यातम् उ᳓प भूषतम्
म᳓ध्वः पिबतम् अश्विना
दुग्ध᳓म् प᳓यो वृषणा जेनियावसू
मा᳓ नो मर्धिष्टम् आ᳓ गतम्

04 अश्वासो ये - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वासो ये᳓ वाम् उ᳓प दाशु᳓षो गृहं᳓
युवां᳓ दी᳓यन्ति बि᳓भ्रतः
मक्षूयु᳓भिर् नरा ह᳓येभिर् अश्विना
आ᳓ देवा यातम् अस्मयू᳓

05 अधा ह - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा ह य᳓न्तो अश्वि᳓ना
पृ᳓क्षः सचन्त सूर᳓यः
ता᳓ यंसतो मघ᳓वद्भ्यो ध्रुवं᳓ य᳓शश्
छर्दि᳓र् अस्म᳓भ्यं ना᳓सत्या

06 प्र ये - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ये᳓ ययु᳓र् अवृका᳓सो र᳓था इव
नृपाता᳓रो ज᳓नाना᳐म्
उत᳓ स्वे᳓न श᳓वसा शूशुवुर् न᳓र
उत᳓ क्षियन्ति सुक्षिति᳓म्