०६०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

व्याख्याय निगमाभिज्ञः पञ्चमस्य चतुर्थकम् ।

अध्यायं सायणाचार्यः पञ्चमं व्याकरोत्यथ ।।

तत्र ‘ यदद्य सूर्य ’ इति द्वादशर्चं पञ्चमं सूक्तम् । अत्रानुक्रमणिका – यदद्य मैत्रावरुणं तु वै सौर्याद्या ’ इति । मण्डलद्रष्टा वसिष्ठ ऋषिः । अनुक्तत्वात्त्रिष्टुप् छन्दः । ‘तु वै ’ इत्युक्तत्वादेतदादीनि सप्त सूक्तानि मित्रावरुणदेवत्यानि आद्या सूर्यदेवत्या । विनियोगो लैङ्गिकः ॥

Jamison Brereton

60 (576)
Mitra and Varuṇa
Vasiṣṭha Maitrāvaruṇi
12 verses: triṣṭubh
The opening four verses describe the rising Sun, who watches over the good and evil that people do. As such, he is the agent of Mitra, Varuṇa, and Aryaman, since they are the gods whose central character is to govern the actions of mor tals. In verses 3–4 the poet blends the offerings that rise to the gods at dawn with the antelopes of the Sun that carry him aloft. These antelopes are “rich in ghee” (vs. 3), as the offerings would be. In verse 4 the “strengthening, honeyed ones” are primarily the offerings given to Mitra and Varuṇa, but juxtaposed to the Sun’s ascent and to the description of his antelopes, they also become reflections of these antelopes, lifting the Sun to the heaven. In 4cd the Ādityas clear a path for the Sun, and this image leads to the principal theme of the succeeding verses and of the hymn itself—the ability of the Ādityas to lead even through difficult circumstances. The Ādityas keep away those who oppose the truths they embody (vs. 5), and they guide even those who may not understand their truths (vss. 6–7). The “unwinking, perceptive ones” in 7a might be the gods themselves, although they could also be the spies of Mitra and Varuṇa, who are described in similar ways (cf. VII.61.3, 5) and who would be present both in heaven and on earth (cf. VI.61.3).
If there is benefit in following the Ādityas, there is also danger in not doing so. The poet warns of the anger of the Ādityas (vs. 8), the hostility of Aryaman (vs. 9), the secret attack they can bring, and the hidden strength they possess (vs. 10). All this leaves the poet and his people “trembling” (vs. 10) before them. The sense of danger, either from those who do not follow the ways of the Ādityas or from not following those ways, is strongly articulated in the second half of the hymn. It is also here that the hymn designates Sudās, the king, as the special recipient of the Ādityas’ protection and mercy (vss. 8, 9). This may point toward a time in which the king and his people were trying to find and to establish a settlement after the normal period of migration and battle, a time that might well be one of particular peril.

01 यदद्य सूर्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अद्य᳓ सूरिय ब्र᳓वो अ᳓नागा
उद्य᳓न् मित्रा᳓य व᳓रुणाय सत्य᳓म्
वयं᳓ देवत्रा᳓ अदिते सियाम
त᳓व प्रिया᳓सो अर्यमन् गृण᳓न्तः

02 एष स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ स्य᳓ मित्रावरुणा नृच᳓क्षा
उभे᳓ उ᳓द् एति सू᳓रियो अभि᳓ ज्म᳓न्
वि᳓श्वस्य स्थातु᳓र् ज᳓गतश् च गोपा᳓
ऋजु᳓ म᳓र्तेषु वृजिना᳓ च प᳓श्यन्

03 अयुक्त सप्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓युक्त सप्त᳓ हरि᳓तः सध᳓स्थाद्
या᳓ ईं व᳓हन्ति सू᳓रियं घृता᳓चीः
धा᳓मानि मित्रावरुणा युवा᳓कुः
सं᳓ यो᳓ यूथे᳓व ज᳓निमानि च᳓ष्टे

04 उद्वां पृक्षासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् वाम् पृक्षा᳓सो म᳓धुमन्तो अस्थुर्
आ᳓ सू᳓रियो अरुहच् छुक्र᳓म् अ᳓र्णः
य᳓स्मा आदित्या᳓ अ᳓ध्वनो र᳓दन्ति
मित्रो᳓ अर्यमा᳓ व᳓रुणः सजो᳓षाः

05 इमे चेतारो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ चेता᳓रो अ᳓नृतस्य भू᳓रेर्
मित्रो᳓ अर्यमा᳓ व᳓रुणो हि᳓ स᳓न्ति
इम᳓ ऋत᳓स्य वावृधुर् दुरोणे᳓
शग्मा᳓सः पुत्रा᳓ अ᳓दितेर् अ᳓दब्धाः

06 इमे मित्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ मित्रो᳓ व᳓रुणो दूळ᳓भासो
अचेत᳓सं चिच् चितयन्ति द᳓क्षैः
अ᳓पि क्र᳓तुं सुचे᳓तसं व᳓तन्तस्
तिर᳓श् चिद् अं᳓हः सुप᳓था नयन्ति

07 इमे दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ दिवो᳓ अ᳓निमिषा पृथिव्या᳓श्
चिकित्वां᳓सो अचेत᳓सं नयन्ति
प्रव्राजे᳓ चिन् नदि᳓यो गाध᳓म् अस्ति
पारं᳓ नो अस्य᳓ विष्पित᳓स्य पर्षन्

08 यद्गोपावददितिः शर्म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् गोपा᳓वद् अ᳓दितिः श᳓र्म भद्र᳓म्
मित्रो᳓ य᳓छन्ति व᳓रुणः सुदा᳓से
त᳓स्मिन्न् आ᳓ तोकं᳓ त᳓नयं द᳓धाना
मा᳓ कर्म देवहे᳓ळनं तुरासः

09 अव वेदिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व वे᳓दिं हो᳓तराभिर् यजेत
रि᳓पः का᳓श् चिद् · वरुणध्रु᳓तः सः᳓
प᳓रि द्वे᳓षोभिर् अर्यमा᳓ वृणक्तु
उरुं᳓ सुदा᳓से वृषणा उलोक᳓म्†

10 सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सस्व᳓श् चिद् धि᳓ स᳓मृतिस् त्वेषी᳓ एषाम्
अपीचि᳓येन स᳓हसा स᳓हन्ते
युष्म᳓द् भिया᳓ वृषणो रे᳓जमाना
द᳓क्षस्य चिन् महिना᳓ मॄळ᳓ता+ नः

11 यो ब्रह्मणे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ ब्र᳓ह्मणे सुमति᳓म् आय᳓जाते
वा᳓जस्य सातउ᳓ परम᳓स्य रायः᳓
सी᳓क्षन्त मन्यु᳓म् मघ᳓वानो अर्य᳓
उरु᳓ क्ष᳓याय चक्रिरे सुधा᳓तु

12 इयं देव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इयं᳓ देव पुरो᳓हितिर् युव᳓भ्यां
यज्ञे᳓षु मित्रावरुणाव् अकारि
वि᳓श्वानि दुर्गा᳓ पिपृतं तिरो᳓ नो
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः