०५६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अथ चतुर्थेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘ क ईं व्यक्ताः ’ इति पञ्चविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं मरुद्देवताकम् । आद्या एकादश द्विपदा विंशत्यक्षरा विराजः शिष्टाश्चतुर्दश त्रिष्टुभः । तथा चानुकान्तं– क ईं पञ्चाधिका मारुतं हाद्या एकादश द्विपदा ’ इति । दशरात्रे चतुर्थेऽहन्याग्निमारुते शस्त्र इदं मारुतनिविद्धानम् । सूत्र्यते हि – वैश्वानरस्य सुमतौ क ईं व्यक्ता नरः ’ ( आश्व. श्रौ. ८. ८) इति ।।

Jamison Brereton

56 (572)
Maruts
Vasiṣṭha Maitrāvaruṇi
25 verses: dvipadā virāj 1–11, triṣṭubh 12–25
This hymn is structured like VII.34, an All God hymn, in that the first part is in the short dvipadā meter and the second part in triṣṭubh, although the proportions of verses in each meter are different. It also shares a final verse with VII.34, a generic plea for the gods’ protection. But in content there is little in common between the two hymns.
This hymn begins with four verses about the birth and identity of the Maruts, alluding both to their mysterious generation from Pr̥śni (see esp. vs. 4) and the para dox that they are both identical (“belonging to the same nest,” vs. 1) and separate and rivalrous. This theme then disappears from the hymn, save for several refer ences to their plural “names” (vss. 10, 14; we of course know them only under one name, “Maruts”). The rest of the dvipadā section (vss. 5–11) is essentially descrip tive, of their power, beauty, and accoutrements.
Although this celebration of the Maruts’ qualities continues in the triṣṭubh por tion, there is also a significant ritual component, initiated in the first half of verse 12. Subsequent verses make clear what ritual is involved: in verse 14 it is said that they are worshiped at the beginning of the sacrifice, and they are invited to enjoy the House-offering; in verse 16 they are called “playful.” In middle Vedic ritual the third and last of the “Four-monthly” (Cāturmāsyāni) rituals is the Sākamedha, celebrated in the autumn. On the day before the Sākamedha day proper, the Maruts receive two oblations—thus, they are worshiped at the beginning of the sacrifice. Moreover, the second of these two oblations is the “House-offering” (Gr̥hamedhīya). And on the next day there is an offering to the “playful Maruts,” using the same word that describes their behavior in verse 16d. (For further refer
ence to the Maruts at the Sākamedha in this Marut cycle, see VII.59.9–10. On the ritual itself see, e.g., Hillebrandt 1897: 117–19; Keith 1925: 322–23.) As usual, offerings to the gods prompt us to ask for reciprocal benefits from the gods, and these requests occupy much of the remaining verses (17–24), with the final refrain verse (25) extending the requests to other gods as well. The last few request verses specific to the Maruts (vss. 22–24) ask for their help in battles over land and waters, alluding presumably to the Ārya expansion.

Jamison Brereton Notes

Maruts 79

01 कईं व्यक्ता - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓+++(य्)+++ ईं व्य᳙क्ता
न᳓रः+++(=नेतारः)+++ स᳓नीळा+++(→डा)+++
रुद्र᳓स्य म᳓र्या+++(=मर्त्येभ्यो [हिताः])+++ अ᳓ध स्व᳓श्वाः ॥

02 नकिर्ह्येषां जनूंषि - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓किर् हि᳓ एषां जनूं᳓षि वे᳓द
ते᳓ अङ्ग᳓ विद्रे मिथो᳓ जनि᳓त्रम्

03 अभि स्वपूभिर्मिथो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ स्वपू᳓भिर् मिथो᳓ वपन्त
वा᳓तस्वनसः श्येना᳓ अस्पृध्रन्

04 एतानि धीरो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓नि धी᳓रो निण्या᳓ चिकेत
पृ᳓श्निर् य᳓द् ऊ᳓धो मही᳓ जभा᳓र

05 सा विथ् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

सा᳓ वि᳓ट् सुवी᳓रा मरु᳓द्भिर् अस्तु
सना᳓त् स᳓हन्ती पु᳓ष्यन्ती नृम्ण᳓म्

06 यामं येष्टाः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓मं य᳓यिष्ठाः+ शुभा᳓ शो᳓भिष्ठाः
श्रिया᳓ स᳓म्मिश्ला ओ᳓जोभिर् उग्राः᳓

07 उग्रं वओज - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

उग्रं᳓ व ओ᳓ज स्थिरा᳓ श᳓वांसि
अ᳓धा मरु᳓द्भिर् गण᳓स् तु᳓विष्मान्

08 शुभ्रो वः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

शुभ्रो᳓ वः शु᳓ष्मः क्रु᳓ध्मी म᳓नांसि
धु᳓निर् मु᳓निर् ऽव° श᳓र्धस्य धृष्णोः᳓

09 सनेम्यस्मद्युयोत दिद्युम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓नेमि अस्म᳓द् युयो᳓त दिद्यु᳓म्
मा᳓ वो दुर्मति᳓र् इह᳓ प्र᳓णङ् नः

10 प्रिया वो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रिया᳓ वो ना᳓म हुवे तुरा᳓णाम्
आ᳓ य᳓त् तृप᳓न् मरुतो वावशानाः᳓

11 स्वायुधास इष्मिणः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वायुधा᳓स इष्मि᳓णः सुनिष्का᳓
उत᳓ स्वयं᳓ तन्वः᳡ शु᳓म्भमानाः

12 शुची वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु᳓ची वो हव्या᳓, मरुतः, शु᳓चीनां +++(वः)+++
शु᳓चिं हिनोम्य् अध्वरं᳓ शु᳓चिभ्यः ।
ऋते᳓न सत्य᳓म् ऋत-सा᳓प+++(←सप् पूजायां)+++ आयञ्
छु᳓चि-जन्मानः शु᳓चयः पावकाः᳓ ॥

13 अंसेष्वा मरुतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अं᳓सेषु आ᳓ मरुतः खाद᳓यो वो
व᳓क्षस्सु रुक्मा᳓ उपशिश्रियाणाः᳓
वि᳓ विद्यु᳓तो न᳓ वृष्टि᳓भी रुचाना᳓
अ᳓नु स्वधा᳓म् आ᳓युधैर् य᳓छमानाः

14 प्र बुध्न्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ बुध्नि᳓या व ईरते म᳓हांसि
प्र᳓ ना᳓मानि प्रयज्यवस् तिरध्वम्
सहस्रि᳓यं द᳓मियम् भाग᳓म् एतं᳓
गृहमेधी᳓यम् मरुतो जुषध्वम्

15 यदि स्तुतस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓दि स्तुत᳓स्य मरुतो अधीथ᳓
इत्था᳓ वि᳓प्रस्य वाजि᳓नो ह᳓वीमन्
मक्षू᳓ रायः᳓ सुवी᳓रियस्य दात
नू᳓ चिद् य᳓म् अन्य᳓ आद᳓भद् अ᳓रावा

16 अत्यासो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓त्यासो न᳓ ये᳓ मरु᳓तः सुअ᳓ञ्चो
यक्षदृ᳓शो न᳓ शुभ᳓यन्त म᳓र्याः
ते᳓ हर्मियेष्ठाः᳓ शि᳓शवो न᳓ शुभ्रा᳓
वत्सा᳓सो न᳓ प्रक्रीळि᳓नः पयोधाः᳓

17 दशस्यन्तो नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दशस्य᳓न्तो नो मरु᳓तो मृळन्तु
वरिवस्य᳓न्तो रो᳓दसी सुमे᳓के
आरे᳓ गोहा᳓ नृहा᳓ वधो᳓ वो अस्तु
सुम्ने᳓भिर् अस्मे᳓ वसवो नमध्वम्

18 आ वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वो हो᳓ता · जोहवीति सत्तः᳓
सत्रा᳓चीं राति᳓म् मरुतो गृणानः᳓
य᳓ ई᳓वतो वृषणो अ᳓स्ति गोपाः᳓
सो᳓ अ᳓द्वयावी हवते व उक्थइः᳓

19 इमे तुरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ तुर᳓म् मरु᳓तो रामयन्ति
इमे᳓ स᳓हः स᳓हस आ᳓ नमन्ति
इमे᳓ शं᳓सं वनुष्यतो᳓ नि᳓ पान्ति
गुरु᳓ द्वे᳓षो अ᳓ररुषे दधन्ति

20 इमे रध्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ रध्रं᳓ चिन् मरु᳓तो जुनन्ति
भृ᳓मिं चिद् य᳓था व᳓सवो जुष᳓न्त
अ᳓प बाधध्वं वृषणस् त᳓मांसि
धत्त᳓ वि᳓श्वं त᳓नयं तोक᳓म् अस्मे᳓

21 मा वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ वो दात्रा᳓न् मरुतो नि᳓र् अराम
मा᳓ पश्चा᳓द् दघ्म रथियो विभागे᳓
आ᳓ न स्पार्हे᳓ भजतना वसव्ये᳡
य᳓द् ईं सुजातं᳓ वृषणो वो अ᳓स्ति

22 सं यद्धनन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ य᳓द् ध᳓नन्त मन्यु᳓भिर् ज᳓नासः
शू᳓रा यह्वी᳓षु ओ᳓षधीषु विक्षु᳓
अ᳓ध स्मा नो मरुतो रुद्रियासस्
त्राता᳓रो भूत पृ᳓तनासु अर्यः᳓

23 भूरि चक्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भू᳓रि चक्र मरुतः पि᳓त्रियाणि
उक्था᳓नि या᳓ वः शस्य᳓न्ते पुरा᳓ चित्
मरु᳓द्भिर् उग्रः᳓ पृ᳓तनासु सा᳓ळ्हा
मरु᳓द्भिर् इ᳓त् स᳓निता वा᳓जम् अ᳓र्वा

24 अस्मे वीरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ वीरो᳓ मरुतः शुष्मी᳓ अस्तु
ज᳓नानां᳐ यो᳓ अ᳓सुरो विधर्ता᳓
अपो᳓ ये᳓न सुक्षित᳓ये त᳓रेम
अ᳓ध स्व᳓म् ओ᳓को अभि᳓ वः सियाम

25 तन्न इन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓न् न इ᳓न्द्रो व᳓रुणो मित्रो᳓ अग्नि᳓र्
आ᳓प ओ᳓षधीर् वनि᳓नो जुषन्त
श᳓र्मन् सियाम मरु᳓ताम् उप᳓स्थे
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः