०५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘वास्तोष्पते’ इति तृचात्मकमेकविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वास्तोष्पत्यम् । तथा चानुक्रम्यते- ‘ वास्तोष्पते वास्तोष्पत्यम् ’ इति । स्मार्ते गृहनिर्माणे ‘वास्तोष्पते ’ इति चतसृभिः प्रत्यृचं जुहुयात् । सूत्रितं च - वास्तोष्पते प्रति जानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वा ’ (आश्व. गृ. २. ९. ९ ) इति ॥

Jamison Brereton

54 (570)
Lord of the Dwelling Place (Vāstospati) ̣
Vasiṣṭha Maitrāvaruṇi
3 verses: triṣṭubh
This short hymn (but also see the first verse of the next one) is addressed to the personified guardian spirit of the house and household and in later ritual is recited for entry into a new house.

Jamison Brereton Notes

Lord of the Dwelling Place

01 वास्तोष्पते प्रति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓स्तोष्पते प्र᳓ति जानीह्य् अस्मा᳓न्त्
स्व्-आवेशो᳓+++(=सुगमो)+++ अनमीवो᳓+++(=आरोग्यकरः)+++ भवा नः ।
य᳓त् त्वे᳓महे प्र᳓ति त᳓न् नो जुषस्व
शं᳓ न एधि द्विप᳓दे शं᳓ च᳓तुष्पदे ।

02 वास्तोष्पते प्रतरणो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓स्तोष्पते प्रत᳓रणो न एधि
गो᳓भिर् अ᳓श्वेभिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अज᳓रासस् ते सख्ये᳓ स्याम
पिते᳓व पुत्रा᳓न् प्र᳓ति नो जुषस्व ।

03 वास्तोष्पते शग्मया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓स्तोष्पते शग्म᳓या+++(=सुखया)+++ सँस᳓दा ते
सक्षीम᳓हि+++(←सच समवाये)+++ रण्व᳓या+++(=रममाणया)+++ गातुम᳓त्या+++(=गामिन्या)+++) ।
आ᳓वः क्षे᳓म+++(य्=लब्धस्य रक्षणे)+++ उत᳓ यो᳓गे+++(=अलब्धस्य लाभे)+++ व᳓रं नो
+++(हे विश्वेदेवाः)+++ यूय᳓म् पात स्वस्ति᳓भिः स᳓दा नः ।