०५३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र द्यावा यज्ञैः ’ इति तृचात्मकं विंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं द्यावापृथिव्यम् । अनुक्रम्यते च — प्र द्यावा द्यावापृथिव्यम्’ इति । चतुर्थेऽहनि वैश्वदेवशस्त्र इदं द्यावापृथिव्यनिविद्धानम् । सूत्रितं च – ’ आ देवो यातु प्र द्यावेति वासिष्ठम्’ (आश्व. श्रौ. ८. ८) इति । द्यावापृथिव्ये पशौ वपापुरोडाशयोः ‘प्र द्यावा ’ इति द्वे ऋचौ याज्ये। सूत्रितं च – प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे ’ (आश्व. श्रौ. ३.८) इति ॥

Jamison Brereton

53 (569)
Heaven and Earth
Vasiṣṭha Maitrāvaruṇi
3 verses: triṣṭubh
Heaven and Earth here figure just as objects of worship, not as physically conceived entities. Verses 1–2 emphasize their antiquity and the antiquity of the poetic cel ebration of them, while verse 3 asks, as usual, for their gifts.

Jamison Brereton Notes

Heaven and Earth

01 प्र द्यावा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे ।
ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्तः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥

02 प्र पूर्वजे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥

03 उतो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒तो हि वां॑ रत्न॒धेया॑नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ ।
अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥