०५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आदित्यानाम्’ इति तृचमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमादित्यदेवताकम् । अनुक्रम्यते च - आदित्यानां तृचमादित्यं तु ’ इति । गतः सूक्तविनियोगः । आदित्यदेवताके पशौ आदित्यानामवसा ’ इति वपाया अनुवाक्या। सूत्रितं च - आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यः’ (आश्व. श्रौ. ३.८) इति ।

आदित्यग्रहस्यैषानुवाक्या। सूत्रितं च - आदित्यानामवसा नूतनेन होता यक्षदादित्यान् ’ (आश्व. श्रौ. ५. १७) इति ॥

Jamison Brereton

51 (567)
Ādityas
Vasiṣṭha Maitrāvaruṇi
3 verses: triṣṭubh
This hymn is a general exhortation to the Ādityas to protect the sacrifice, keeping its performance in “offenselessness” (adititvá), in accordance with their character as sons of Aditi, the goddess who represents offenselessness or innocence. In the later rite the offering of soma to Mitra and Varuṇa (as well as to the other dual divini
ties) takes place in the morning and that to the Ādityas (as well as to other divine collectives) in the evening. The gods in the last verse are worshiped at various times in the sacrificial day, but there appears to be an emphasis on gods associated with the evening rite: the Ādityas, All Gods, R̥bhus, and even the Aśvins, who are con
nected with both the morning and the evening rituals.

01 आदित्यानामवसा नूतनेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्या᳓नाम् अ᳓वसा नू᳓तनेन
सक्षीम᳓हि श᳓र्मणा शं᳓तमेन
अनागास्त्वे᳓ अदितित्वे᳓ तुरा᳓स
इमं᳓ यज्ञं᳓ दधतु श्रो᳓षमाणाः

02 आदित्यासो अदितिर्मादयन्ताम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्या᳓सो अ᳓दितिर् मादयन्ताम्
मित्रो᳓ अर्यमा᳓ व᳓रुणो र᳓जिष्ठाः
अस्मा᳓कं सन्तु भु᳓वनस्य गोपाः᳓
पि᳓बन्तु सो᳓मम् अ᳓वसे नो अद्य᳓

03 आदित्या विश्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्या᳓ वि᳓श्वे मरु᳓तश् च वि᳓श्वे
देवा᳓श् च वि᳓श्व ऋभ᳓वश् च वि᳓श्वे
इ᳓न्द्रो अग्नि᳓र् अश्वि᳓ना तुष्टुवाना᳓
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः