०४७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आपो यं वः’ इति चतुर्ऋचं चतुर्दशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकम् । ‘आपो यमापम् ’ इत्यनुक्रान्तं च । गतो विनियोगः ॥

Jamison Brereton

47 (563)
Waters
Vasiṣṭha Maitrāvaruṇi
4 verses: triṣṭubh
The waters are celebrated here primarily in their ritual employment, in the prepara tion of soma—though soma itself is not explicitly mentioned. These waters come to be replaced by the rivers in the last two verses (3–4), but their physical characteris tics are not mentioned either. However, the final pāda before the refrain (4c) alludes to the rivers’ making “wide space” for us, quite possibly an allusion to the enlarging of the Ārya territory by crossing and conquering rivers.

01 आपो यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॒ यं वः॑ प्रथ॒मं दे॑व॒यन्त॑ इन्द्र॒पान॑मू॒र्मिमकृ॑ण्वते॒ळः ।
तं वो॑ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मन्तं वनेम ॥

02 तमूर्मिमापो मधुमत्तमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑ ।
यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥

03 शतपवित्राः स्वधया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ।
ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥

04 याः सूर्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याः सूर्यो॑ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो॒ अर॑दद्गा॒तुमू॒र्मिम् ।
ते सि॑न्धवो॒ वरि॑वो धातना नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥