०४६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इमा रुद्राय ’ इति चतुर्ऋचं त्रयोदशं सूक्तं वसिष्ठस्यार्षं रुद्रदेवताकम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रमणिका - इमा रौद्रं त्रिष्टुबन्तम् ’ इति । शूलगवादिषु रौद्रयज्ञेष्वनेन सूक्तेनोदीची दिगुपस्थेया। सूत्र्यते हि - ‘ इमा रुद्राय स्थिरधन्वन इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ’ (आश्व. गृ. ४. ९. २१ ) इति ॥

Jamison Brereton

46 (562)
Rudra
Vasiṣṭha Maitrāvaruṇi
4 verses: jagatī 1–3, triṣṭubh 4
This brief hymn primarily begs Rudra to restrain his characteristic power to do harm, though it also mentions in passing his healing and helpful gifts (vss. 3–4).

Jamison Brereton Notes

Rudra

01 इमा रुद्राय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ रुद्रा᳓य स्थिर᳓धन्वने गि᳓रः
क्षिप्र᳓इषवे देवा᳓य स्वधा᳓वने
अ᳓षाळ्हाय स᳓हमानाय वेध᳓से
तिग्मा᳓युधाय भरता शृणो᳓तु नः

02 स हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ क्ष᳓येण क्ष᳓मियस्य ज᳓न्मनः
सा᳓म्राजियेन दिविय᳓स्य चे᳓तति
अ᳓वन्न् अ᳓वन्तीर् उ᳓प नो दु᳓रश् चर
अनमीवो᳓ रुदर+ जा᳓सु नो भव

03 या ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ ते दिद्यु᳓द् अ᳓वसृष्टा दिव᳓स् प᳓रि
क्ष्मया᳓ च᳓रति प᳓रि सा᳓ वृणक्तु नः
सह᳓स्रं ते सुअपिवात भेषजा᳓
मा᳓ नस् तोके᳓षु त᳓नयेषु रीरिषः

04 मा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो वधी रुदर+ मा᳓ प᳓रा दा
मा᳓ ते भूम प्र᳓सितौ हीळित᳓स्य
आ᳓ नो भज बर्हि᳓षि जीवशंसे᳓
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः