०४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ देवो यातु’ इति चतुर्ऋचं द्वादशं सूक्तं वसिष्ठस्यार्षं सवितृदेवताकं त्रैष्टुभम्। ‘आ देवश्चतुष्कं सावित्रम्’ इत्यनुक्रान्तम् । व्यूळ्हे दशरात्रे चतुर्थेऽहनि वैश्वदेशस्त्र इदं सावित्रनिविद्धानम्। सूत्र्यते हि - चतुर्थेऽहन्या देवो यातु –’ (आश्व. श्रौ. ८. ८)।… इत्येषा वपानुवाक्या। सूत्रितं च –’ आ देवो यातु सविता सुरत्नः स घा नो देवः सविता सहावा ’ (आश्व. श्रौ. ३. ७) इति। अश्वमेधेऽनुसवनं तिस्रः सावित्र्य इष्टयः । तत्र द्वितीयस्यामिष्टौ याज्येयम् । सूत्रितं च – य इमा विश्वा जातान्या देवो यातु ’ (आश्व. श्रौ. १०. ६) इति ॥

Jamison Brereton

45 (561)
Savitar
Vasiṣṭha Maitrāvaruṇi
4 verses: triṣṭubh
This simple hymn concentrates on Savitar as giver of goods and human necessities, though several of his other characteristic acts are mentioned, notably the raising of his golden arms (vs. 2) and the daily bringing to rest and impelling forth of the living world (vs. 1).

Jamison Brereton Notes

Savitar 75

01 आ देवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ देवो᳓ यातु सविता᳓ सुर᳓त्नो
अन्तरिक्षप्रा᳓ व᳓हमानो अ᳓श्वैः
ह᳓स्ते द᳓धानो न᳓रिया पुरू᳓णि
निवेश᳓यञ् च प्रसुव᳓ञ् च भू᳓म

02 उदस्य बाहू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अस्य बाहू᳓ शिथिरा᳓ बृह᳓न्ता
हिरण्य᳓या दिवो᳓ अ᳓न्ताँ अनष्टाम्
नूनं᳓ सो᳓ अस्य महिमा᳓ पनिष्ट
सू᳓रश् चिद् अस्मा अ᳓नु दाद् अपस्या᳓म्

03 स घा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ घा नो देवः᳓ सविता᳓ सहा᳓वा
आ᳓ साविषद् व᳓सुपतिर् व᳓सूनि
विश्र᳓यमाणो अम᳓तिम् उरूची᳓म्
मर्तभो᳓जनम् अ᳓ध रासते नः

04 इमा गिरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ गि᳓रः सविता᳓रं सुजिह्व᳓म्
पूर्ण᳓गभस्तिम् ईळते सुपाणि᳓म्
चित्रं᳓ व᳓यो बृह᳓द् अस्मे᳓ दधातु
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः