०४०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ओ श्रुष्टिः’ इति सप्तर्चं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवम्। ‘ओ श्रुष्टिः’ इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥

Jamison Brereton

40 (556)
All Gods
Vasiṣṭha Maitrāvaruṇi
7 verses: triṣṭubh
The preoccupation of this hymn is the distribution of wealth, to be carried out in orderly and fair fashion by a series of gods, starting in verse 1 with Savitar and Bhaga (Fortune), whose involvement in the apportioning of treasures we met in the nearby hymn VII.38. But a wide variety of gods are implicated in this giving, as well as in providing other help (see vss. 3–4). There is little to attract particular attention in this hymn, save for the sly admonition to Pūṣan not to be jealous of our receiving gifts (vs. 6).

Jamison Brereton Notes

All Gods

01 ओ श्रुष्थिर्विदथ्याथ् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म् ।
यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥

02 मित्रस्तन्नो वरुणो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु ।
दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥

03 सेदुग्रो अस्तु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सेदु॒ग्रो अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ ।
उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥

04 अयं हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः ।
सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥

05 अस्य देवस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑ ।
वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥

06 मात्र पूषन्नाघृण - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् ।
म॒यो॒भुवो॑ नो॒ अर्व॑न्तो॒ नि पा॑न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥

07 नू रोदसी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥