०३९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

ऊर्ध्वो अग्निः ’ इति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवम् । “ऊर्ध्वः सप्त वैश्वदेवं तु ’ इत्यनुक्रमणिका । सूक्तविनियोगो लैङ्गिकः। द्वितीये छन्दोमे प्रउगशस्त्रे उर्ध्वो अग्निः’ इति वैश्वदेवस्तृचः । सूत्रितं च - ‘ ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेदुत स्या नः सरस्वती जुषाणेति प्रउगम्’ (आश्व. श्रौ. ८. १०) इति ॥

Jamison Brereton

39 (555)
All Gods
Vasiṣṭha Maitrāvaruṇi
7 verses: triṣṭubh
The organizing principle of this hymn is the ritual fire (Agni) and the dawn sacri fice over which he presides. In verse 1 the sacrifice is set in motion; the gods begin934 VII.39
to assemble at dawn at the sacrificial ground (vss. 2–3), and Agni is exhorted to perform the sacrifice (vs. 4) and to bring the various gods to it (vs. 5). The poet declares his own contribution to the sacrifice and asks Agni for the appropriate rewards (vs. 6). The final verse (7) summarizes what has gone before, in the name of the Vasiṣṭhas.
Verse 2b contains an impossible hapax, bī́riṭe, phonologically aberrant and mor phologically opaque. It is generally taken as “crowd, troop,” following Yāska, but, as there is no particular etymological or contextual support for this, we have simply declined to translate it.

Jamison Brereton Notes

All Gods

01 ऊर्ध्वो अग्निः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वो᳓ अग्निः᳓ सुमतिं᳓ व᳓स्वो अश्रेत्
प्रतीची᳓ जूर्णि᳓र् देव᳓तातिम् एति
भेजा᳓ते अ᳓द्री रथि᳓येव प᳓न्थाम्
ऋतं᳓ हो᳓ता न इषितो᳓ यजाति

02 प्र वावृजे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वावृजे सुप्रया᳓ बर्हि᳓र् एषाम्
आ᳓ विश्प᳓तीव बी᳓रिट इयाते
विशा᳓म् अक्तो᳓र् उष᳓सः पूर्व᳓हूतौ
वायुः᳓ पूषा᳓ सुअस्त᳓ये नियु᳓त्वान्

03 ज्मया अत्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ज्मया᳓ अ᳓त्र व᳓सवो रन्त देवा᳓
उरा᳓व् अन्त᳓रिक्षे मर्जयन्त शुभ्राः᳓
अर्वा᳓क् पथ᳓ उरुज्रयः कृणुध्वं
श्रो᳓ता दूत᳓स्य जग्मु᳓षो नो अस्य᳓

04 ते हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ हि᳓ यज्ञे᳓षु यज्ञि᳓यास ऊ᳓माः
सध᳓स्थं वि᳓श्वे अभि᳓ स᳓न्ति देवाः᳓
ताँ᳓ अध्वर᳓ उशतो᳓ यक्षि अग्ने
श्रुष्टी᳓ भ᳓गं ना᳓सतिया पु᳓रंधिम्

05 आग्ने गिरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ अग्ने गि᳓रो दिव᳓ आ᳓ पृथिव्या᳓
मित्रं᳓ वह व᳓रुणम् इ᳓न्द्रम् अग्नि᳓म्
आ᳓र्यम᳓णम् अ᳓दितिं वि᳓ष्णुम् एषां
स᳓रस्वती मरु᳓तो मादयन्ताम्

06 ररे हव्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ररे᳓ हव्य᳓म् मति᳓भिर् यज्ञि᳓यानां
न᳓क्षत् का᳓मम् म᳓र्तियानाम् अ᳓सिन्वन्
धा᳓ता रयि᳓म् अविदस्यं᳓ सदासां᳓
सक्षीम᳓हि यु᳓जियेभिर् नु᳓ देवइः᳓

07 नू रोदसी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ रो᳓दसी अभि᳓ष्टुते व᳓सिष्ठैर्
ऋता᳓वानो व᳓रुणो मित्रो᳓ अग्निः᳓
य᳓छन्तु चन्द्रा᳓ उपमं᳓ नो अर्कं᳓
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः