०३२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘मो षु त्वा’ इति सप्तविंशत्यृचं पञ्चदशं सूक्तम् । अत्रेयमनुक्रमणिका - मो षु सप्ताधिका प्रागाथं तृतीया द्विपदा सौदासैरग्नौ प्रक्षिप्यमाणः शक्तिरन्त्यं प्रगाथमालेभे सोऽर्धर्चं उक्तेऽदह्यत । तं पुत्रोक्तं वसिष्ठः समापयतेति शाट्यायनकं वसिष्ठस्यैव हतपुत्रस्यार्षमिति ताण्डकम्’ इति । मण्डलद्रष्टा वसिष्ठ ऋषिः । इन्द्र क्रतुं नः’ इति प्रगाथस्यार्धर्चस्य च वसिष्ठपुत्रः शक्तिर्वसिष्ठो वा । इन्द्रो देवता । अयुजो बृहत्यो युजः सतोबृहत्यः । तृतीया तु द्विपदा विराट्। महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तत्र द्विपदाम् ’ अभि त्वा शूर’ इत्येतं रथन्तरं प्रगाथं ‘नकिः सुदासः’ इति प्रगाथं च वर्जयेत् । तथैव पञ्चमारण्यके सूत्रितं- मो षु त्वा वाघतश्चनेत्येतस्य द्विपदां चोद्धरति राथन्तरं च प्रगाथमथ हास्य नकिः सुदासो रथमित्येतं प्रगाथमुद्धृत्य त्वामिदा ह्यो नर इत्येतं प्रगाथं प्रत्यवदधाति’ (ऐ. आ. ५, २. ४ ) इति । चातुर्विशिकेऽहनि पञ्चमेऽहनि च निष्केवल्ये ‘मो षु त्वा वाघतः’ इति प्रगाथः सद्विपदः । सूत्रितं च – मो षु त्वा वाघतश्चनेति सद्विपद उपसमस्येद्द्विपदाम्’ (आश्व. श्रौ. ७. ३) इति । चातुर्विंशिकेऽहनि मरुत्वतीये प्राकृतात् मरुत्वतीयात् प्रगाथादनन्तरं ‘ नकिः सुदासः’ इति प्रगाथं शंसेत् । पृष्ठ्याभिप्लवषडहयोः तृतीये षष्ठेऽहनि चायं प्रगाथः । तथैव सूत्रितं – नकिः सुदासो रथमिति मरुस्वतीया ऊर्ध्वं नित्यात्’ इति । एवं स्थितान् प्रगाथान् पृष्ठ्याभिप्लवयोरन्वहं पुनःपुनरावर्तयेयुः’ (आश्व. श्रौ. ७. ३) इति । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘उदिन्न्वस्य रिच्यते ’ इति प्रगाथः। तथा च सूत्रितम्- उदिन्न्वस्य रिच्यते भूय इत्’ (आश्व. श्रौ. ५. १६) इति । अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणशस्त्रे ‘ कस्तमिन्द्र’ इति प्रगाथः । सूत्रितं च— कस्तमिन्द्र त्वावसुं सद्यो ह जातः’ (आश्व. श्रौ. ५. १६ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने मैत्रावरुणशस्त्रस्यायं प्रगाथः । अहर्गणेष्वपि द्वितीयादिष्वहःसु । सूत्रितं च— कस्तमिन्द्र त्वावसुं कन्नव्यो अतसीनाम् ( आश्व. श्रौ. ७. ४ ) इति । ‘ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रकाः’ (आश्व. श्रौ. ७. १) इति । पृष्ठयषडहस्य तृतीयेऽहनि निष्केवल्ये वैरूपसामपक्षे ‘ यदिन्द्र यावतः’ इत्यनुरूपस्तृचः । सूत्रितं च -’ यदिन्द्र यावतस्त्वमिति प्रगाथौ स्तोत्रियानुरूपौ’ (आश्व. श्रौ. ७. १०) इति । अग्निष्टोमे चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘तरणिरित्सिषासति’ इति वैकल्पिकस्तृचः । सूत्रितं च तरोभिर्वो विदद्वसुं तरणिरित्सिषासति’ (आश्व. श्रौ. ७. ४) इति । अग्निष्टोमे निष्केवल्यशस्त्रे रथन्तरसामपक्षे ’ अभि त्वा शूर’ इति प्रगाथः स्तोत्रियः । सूत्रितं च— अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ’ (आश्व, श्रौ. ५. १५) इति । आश्विनशस्त्रेऽप्ययं प्रगाथः । तथैव सूत्रितं च – अभि त्वा शूर नोनुमो बहवः सूरचक्षस इति प्रगाथाः (आश्व. श्रौ. ६.५) इति। महाव्रते निष्केवल्ये दक्षिणपक्षेऽयं प्रगाथः । तथैव पञ्चमारण्यके सूत्रितम्-’ अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथन्तरस्य स्तोत्रियानुरूपौ प्रगाथौ’ (ऐ. आ. ५. २. २) इति । आश्विनशस्त्रे ‘इन्द्र क्रतुं नः । इति प्रगाथः । सूत्रितं च— इन्द्र क्रतुं न आ भराभि त्वा शूर नोनुमः’ (आश्व. श्रौ. ६. ५) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रेऽयं वैकल्पिकः स्तोत्रियः प्रगाथः । सूत्रितं च - इन्द्र क्रतुं न आ भरेन्द्र ज्येष्ठं न आ भर’ (आश्व. श्रौ. ७. ४) इति ॥

Jamison Brereton

32 (548)
Indra
Vasiṣṭha Maitrāvaruṇi (1–25), Śakti Vāsiṣṭha (26ab), Vasiṣṭha or Śakti Vāsiṣtha (26cd–27)
27 verses: br̥hatī alternating with satobr̥hatī, except dvipadā virāj 3, arranged in pragāthas
This final hymn in the VIIth Maṇḍala Indra cycle is a loose collection of pragāthas, the first of which has a two-pāda extension (vs. 3). Even within the verse pairs there is little cohesion. But there is a unifying theme that runs throughout: Indra’s gener ous giving and our grateful receiving, to an extent unusual even in an Indra hymn. Moreover, it is not only Indra’s giving that we seek: it is repeatedly emphasized that Indra helps and gives to mortals who themselves give, that is, the patrons of the sacrifice (see, e.g., vss. 7, 8, 10, 15).
The hymn opens (vs. 1) with the preoccupation that has been visible in many Indra hymns in VII, the fear that rival sacrificers may attract Indra to their own rituals, and Indra’s epithet “invoked by many” appears several times (vss. 17, 20, 26). Much of the hymn is concerned with defining the type of ritual behavior that will cause Indra to choose one sacrifice over another.
Indra is supreme in this hymn. In its twenty-seven verses there is only one men tion of another divinity, the Maruts in verse 10.

Jamison Brereton Notes

Indra

01 मो षु - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मो᳓ षु᳓ त्वा वाघ᳓तश् चन᳓
आरे᳓ अस्म᳓न् नि᳓ रीरमन्
आरा᳓त्ताच् चित् सधमा᳓दं न आ᳓ गहि
इह᳓ वा स᳓न्न् उ᳓प श्रुधि

02 इमे हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ हि᳓ ते ब्रह्मकृ᳓तः सुते᳓ स᳓चा
म᳓धौ न᳓ म᳓क्ष आ᳓सते
इ᳓न्द्रे का᳓मं जरिता᳓रो वसूय᳓वो
र᳓थे न᳓ पा᳓दम् आ᳓ दधुः

03 रायस्कामो वज्रहस्तम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

राय᳓स्कामो व᳓ज्रहस्तं सुद᳓क्षिणम्
पुत्रो᳓ न᳓ पित᳓रं हुवे

04 इम इन्द्राय - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इम᳓ इ᳓न्द्राय सुन्विरे
सो᳓मासो द᳓धिआशिरः
ताँ᳓ आ᳓ म᳓दाय वज्रहस्त पीत᳓ये
ह᳓रिभ्यां याहि ओ᳓क आ᳓

05 श्रवच्छ्रुत्कर्ण ईयते - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

श्र᳓वच् छ्रु᳓त्कर्ण ईयते व᳓सूनां᳐
नू᳓ चिन् नो मर्धिषद् गि᳓रः
सद्य᳓श् चिद् यः᳓ सह᳓स्राणि शता᳓ द᳓दन्
न᳓किर् दि᳓त्सन्तम् आ᳓ मिनत्

06 स वीरो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वीरो᳓ अ᳓प्रतिष्कुत
इ᳓न्द्रेण शूशुवे नृ᳓भिः
य᳓स् ते गभीरा᳓ स᳓वनानि वृत्रहन्
सुनो᳓ति आ᳓ च धा᳓वति

07 भवा वरूथम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

भ᳓वा व᳓रूथम् मघवन् मघो᳓नां᳐
य᳓त् सम᳓जासि श᳓र्धतः
वि᳓ त्वा᳓हतस्य वे᳓दनम् भजेमहि
आ᳓ दूणा᳓शो भरा ग᳓यम्

08 सुनोता सोमपाव्ने - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सुनो᳓ता सोमपा᳓वने
सो᳓मम् इ᳓न्द्राय वज्रि᳓णे
प᳓चता पक्ती᳓र् अ᳓वसे कृणुध्व᳓म् इ᳓त्
पृण᳓न्न् इ᳓त् पृणते᳓ म᳓यः

09 मा स्रेधत - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ स्रेधत सोमिनो द᳓क्षता महे᳓
कृणुध्वं᳓ राय᳓ आतु᳓जे
तर᳓णिर् इ᳓ज् जयति क्षे᳓ति पु᳓ष्यति
न᳓ देवा᳓सः कवत्न᳓वे

10 नकिः सुदासो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓किः सुदा᳐᳓सो र᳓थम्
प᳓रि आस न᳓ रीरमत्
इ᳓न्द्रो य᳓स्य अविता᳓ य᳓स्य मरु᳓तो
ग᳓मत् स᳓ गो᳓मति व्रजे᳓

11 गमद्वाजं वाजयन्निन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ग᳓मद् वा᳓जं वाज᳓यन्न् इन्द्र म᳓र्तियो
य᳓स्य त्व᳓म् अविता᳓ भु᳓वः
अस्मा᳓कम् बोधि अविता᳓ र᳓थाना᳐म्
अस्मा᳓कं शूर नॄणा᳐᳓म्+

12 उदिन्न्वस्य रिच्यतेंऽशो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् इ᳓न् नु᳓ अस्य रिच्यते
अं᳓शो ध᳓नं न᳓ जिग्यु᳓षः
य᳓ इ᳓न्द्रो ह᳓रिवान् न᳓ दभन्ति तं᳓ रि᳓पो
द᳓क्षं दधाति सोमि᳓नि

13 मन्त्रमखर्वं सुधितम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓न्त्रम् अ᳓खर्वं सु᳓धितं सुपे᳓शसं
द᳓धात यज्ञि᳓येषु आ᳓
पूर्वी᳓श् चन᳓ प्र᳓सितयस् तरन्ति तं᳓
य᳓ इ᳓न्द्रे क᳓र्मणा भु᳓वत्

14 कस्तमिन्द्र त्वावसुमा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓स् त᳓म् इन्द्र तुवा᳓वसुम्
आ᳓ म᳓र्तियो दधर्षति
श्रद्धा᳓ इ᳓त् ते मघवन् पा᳓रिये दिवि᳓
वाजी᳓ वा᳓जं सिषासति

15 मघोनः स्म - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मघो᳓नः स्म वृत्रह᳓त्येषु चोदय
ये᳓ द᳓दति प्रिया᳓ व᳓सु
त᳓व प्र᳓णीती हरिअश्व सूरि᳓भिर्
वि᳓श्वा तरेम दुरिता᳓

16 तवेदिन्द्रावमं वसु - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓वे᳓द् इन्द्रावमं᳓ व᳓सु
तुव᳓म् पुष्यसि मध्यम᳓म्
सत्रा᳓ वि᳓श्वस्य परम᳓स्य राजसि
न᳓किष् ट्वा गो᳓षु वृण्वते

17 त्वं विश्वस्य - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ वि᳓श्वस्य धनदा᳓ असि श्रुतो᳓
य᳓ ईम् भ᳓वन्ति आज᳓यः
त᳓वायं᳓ वि᳓श्वः पुरुहूत पा᳓र्थिवो
अवस्यु᳓र् ना᳓म भिक्षते

18 यदिन्द्र यावतस्त्वमेतावदहमीशीय - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् इन्द्र या᳓वतस् तुव᳓म्
एता᳓वद् अह᳓म् ई᳓शीय
स्तोता᳓रम् इ᳓द् दिधिषेय रदावसो
न᳓ पापत्वा᳓य रासीय

19 शिक्षेयमिन्महयते दिवेदिवे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शि᳓क्षेयम् इ᳓न् महयते᳓ दिवे᳓-दिवे
राय᳓ आ᳓ कुहचिद्वि᳓दे
नहि᳓ त्व᳓द् अन्य᳓न् मघवन् न आ᳓पियं
व᳓स्यो अ᳓स्ति पिता᳓ चन᳓

20 तरणिरित्सिषासति वाजम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तर᳓णिर् इ᳓त् सिषासति
वा᳓जम् पु᳓रंधिया युजा᳓
आ᳓ व इ᳓न्द्रम् पुरुहूतं᳓ नमे गिरा᳓
नेमिं᳓ त᳓ष्टेव सुद्रु᳓वम्

21 न दुष्थुती - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ दुष्टुती᳓ म᳓र्तियो विन्दते व᳓सु
न᳓ स्रे᳓धन्तं रयि᳓र् नशत्
सुश᳓क्तिर् इ᳓न् मघवन् तु᳓भ्यम् मा᳓वते
देष्णं᳓ य᳓त् पा᳓रिये दिवि᳓

22 अभि त्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ त्वा शूर नोनुमो᳓+++(=स्तुमः)+++ ऽदुग्धा इव धेन᳓वः +++(सोमपूर्णचमसा वयम्)+++ ।
ई᳓शानम् अस्य᳓ ज᳓गतः+++(=जङ्गमस्य)+++ स्वर्-दृ᳓शम् ई᳓शानमिन्द्र तस्थु᳓षः +++(=स्थावरस्य)+++ २२

23 न त्वावाँ - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ त्वा᳓वाँ +++(=त्वादृशः)+++ अन्यो᳓ दिव्यो᳓ न᳓ पा᳓र्थिवो न᳓ जातो᳓ न᳓ जनिष्यते ।
अश्वाय᳓न्तो +++(=अश्वकामाः)+++ मघवन्निन्द्र वाजि᳓नो +++(=वाजकामाः)+++ गव्य᳓न्तस् +++(=गोकामाः)+++ त्वा हवामहे २३

24 अभी षतस्तदा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अभी᳓ षत᳓स् त᳓द् आ᳓ भर
इ᳓न्द्र ज्या᳓यः क᳓नीयसः
पुरूव᳓सुर् हि᳓ मघवन् सना᳓द् अ᳓सि
भ᳓रे-भरे च ह᳓वियः

25 परा णुदस्व - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रा णुदस्व मघवन्न् अमि᳓त्रान्
सुवे᳓दा नो व᳓सू कृधि
अस्मा᳓कम् बोधि अविता᳓ महाधने᳓
भ᳓वा वृधः᳓ स᳓खीना᳐म्

26 इन्द्र क्रतुम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र क्र᳓तुं न आ᳓ भर
पिता᳓ पुत्रे᳓भियो य᳓था
शि᳓क्षा णो अस्मि᳓न् पुरुहूत या᳓मनि
जीवा᳓ ज्यो᳓तिर् अशीमहि

27 मा नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो अ᳓ज्ञाता वृज᳓ना दुराधि᳓यो
मा᳓शिवासो अ᳓व क्रमुः
त्व᳓या वय᳓म् प्रव᳓तः श᳓श्वतीर् अपो᳓
अ᳓ति शूर तरामसि