०३१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र व इन्द्राय’ इति द्वादशर्चं चतुर्दशं सूक्तं वसिष्ठस्यार्षं गायत्रमैन्द्रम् । दशम्याद्यास्तिस्रो विराजः शिष्टा गायत्र्यः । तथा चानुक्रान्तं - ’ प्र वो द्वादश गायत्रं त्रिविराळन्तम्’ इति । सूक्तविनियोगो लैङ्गिकः । प्रथमे रात्रिपर्याये मैत्रावरुणशस्त्रे ‘प्र व इन्द्राय’ इत्याद्यस्तृचः स्तोत्रियः । सूत्रितं च - ‘प्र व इन्द्राय मादनं प्र कृतान्यृजीषिणः’ (आश्व. श्रौ. ६. ४) इति । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिशस्त्रे वयमिन्द्र वायवोऽभि’ इत्यनुरूपस्तृचः । तथा च सूत्रितं - ’ वयमिन्द्र त्वायवोऽभि वार्त्रहत्यायेत्युत्तमामुद्धरेत्’ (आश्व. श्रौ. ६. ४) इति । चतुर्थेऽहनि माध्यदिनसवने होत्रकशस्त्र आरम्भणीयाभ्य ऊर्ध्वं वैराज एकस्तृच आहवनीयः। तदर्थाः ‘प्र वो महे महिवृधे भरध्वम्’ इत्याद्यास्तिस्रः । सूत्रितं च - ’ प्र वो महे महिवृधे भरध्वमिति चतस्रस्तिस्रश्च विराजः । (आश्व. श्रौ. ७. ११) इति ॥

Jamison Brereton

31 (547)
Indra
Vasiṣṭha Maitrāvaruṇi
12 verses: gāyatrī 1–9, virāj 10–12, arranged in trcas. ̥
This twelve-verse hymn is organized into tr̥cas, the first three (1–9) in dimeter meter, the last in trimeter, but the hymn seems conceived as a unity. It begins with the poet’s address to his priestly comrades (vs. 1), followed by his self-address (vs. 2a), and the joint production of his comrades and himself is referred to in the 1st plural in 2bc. The last tr̥ca likewise begins with an address to the priests by the poet (vs. 10). At regular intervals throughout the hymn the poet and his fellow celebrants are compared to the Maruts, who likewise hymned Indra (vss. 2, 8, 12).
The praise of Indra and the benefits we request of him are generic, but nicely balanced.

Jamison Brereton Notes

Indra

01 प्र व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत ।
सखा॑यः सोम॒पाव्ने॑ ॥

02 शंसेदुक्थं सुदानव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ ।
च॒कृ॒मा स॒त्यरा॑धसे ॥

03 त्वं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो ।
त्वं हि॑रण्य॒युर्व॑सो ॥

04 वयमिन्द्र त्वायवोऽभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् ।
वि॒द्धी त्व१॒॑स्य नो॑ वसो ॥

05 मा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे ।
त्वे अपि॒ क्रतु॒र्मम॑ ॥

06 त्वं वर्मासि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् ।
त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥

07 महाँ उतासि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ ।
म॒म्नाते॑ इन्द्र॒ रोद॑सी ॥

08 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री ।
नक्ष॑माणा स॒ह द्युभिः॑ ॥

09 ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑ ।
सं ते॑ नमन्त कृ॒ष्टयः॑ ॥

10 प्र वो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् ।
विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥

11 उरुव्यचसे महिने - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्राः॑ ।
तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीराः॑ ॥

12 इन्द्रं वाणीरनुत्तमन्युमेव - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै ।
हर्य॑श्वाय बर्हया॒ समा॒पीन् ॥