०३०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आ नो देव’ इति पञ्चर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ नो देव’ इत्यनुक्रान्तम् । प्रथमे छन्दोमे प्रउगशस्त्रे ‘आ नः’ इत्ययमैन्द्रस्तृचः । सूत्र्यते हि-’ आ नो देव शवसा याहि शुष्मिन् प्र वो यज्ञेषु देवयन्तो अर्चन्’ (आश्व. श्रौ. ८. ९) इति ॥

Jamison Brereton

30 (546)
Indra
Vasiṣṭha Maitrāvaruṇi
5 verses: triṣṭubh
Again this hymn expresses a martial and competitive spirit, especially in verse 2. Also, as in VII.28, another god is introduced into an Indra hymn, this time Agni (vs. 3), rather than Varuṇa (VII.28.4). The combination of Agni and the dawns sug gests a dawn sacrifice, and the praise of patrons in verse 4 must refer to the distribu tion of the dakṣiṇā or priestly gift by patrons to priests and poets at that ceremony.

Jamison Brereton Notes

Indra

01 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो देव श᳓वसा याहि शुष्मिन्
भ᳓वा वृध᳓ इन्दर+ रायो᳓ अस्य᳓
महे᳓ नृम्णा᳓य नृपते सुवज्र
म᳓हि क्षत्रा᳓य पउं᳓सियाय शूर

02 हवन्त उ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓वन्त उ त्वा ह᳓वियं वि᳓वाचि
तनू᳓षु शू᳓राः सू᳓रियस्य सातउ᳓
तुवं᳓ वि᳓श्वेषु से᳓नियो ज᳓नेषु
तुवं᳓ वृत्रा᳓णि रन्धया सुह᳓न्तु

03 अहा यदिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हा य᳓द् इन्द्र सुदि᳓ना विउछा᳓न्
द᳓धो य᳓त् केतु᳓म् उपमं᳓ सम᳓त्सु
नि᳓ अग्निः᳓ सीदद् अ᳓सुरो न᳓ हो᳓ता
हुवानो᳓ अ᳓त्र सुभ᳓गाय देवा᳓न्

04 वयं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ ते᳓ त इन्दर+ ये᳓ च देव
स्त᳓वन्त शूर द᳓दतो मघा᳓नि
य᳓छा सूरि᳓भ्य उपमं᳓ व᳓रूथं
सुआभु᳓वो जरणा᳓म् अश्नवन्त

05 वोचेमेदिन्द्रं मघवानमेनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वोचे᳓मे᳓द् इ᳓न्द्रम् मघ᳓वानम् एनम्
महो᳓ रायो᳓ रा᳓धसो य᳓द् द᳓दन् नः
यो᳓ अ᳓र्चतो ब्र᳓ह्मकृतिम् अ᳓विष्ठो
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः