०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अयं सोम इन्द्र’ इति पञ्चर्चं द्वादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । अयं सोमः’ इत्यनुक्रान्तम् । व्यूळ्हे दशरात्रे नवमेऽहनि ‘अयं सोम इन्द्र’ इति प्रउगशस्त्र ऐन्द्रस्तृचः । सूत्रितं च- अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र ब्रह्माणः’ (आश्व. श्रौ. ८. ११ ) इति । षोडशिशस्त्रे ‘ ब्रह्मन्वीर’ इत्येषा त्रिष्टुप् । सूत्रितं च- ’ ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति त्रिष्टुप् ’ ( आश्व. श्रौ. ६. २) इति ॥

Jamison Brereton

29 (545)
Indra
Vasiṣṭha Maitrāvaruṇi
5 verses: triṣṭubh
Although in many ways this is a straightforward invitation to soma, the hymn is also shot through with the anxiety about whether Indra will choose our sacrifice that is characteristic of other hymns in this Indra cycle. The first two verses are simple collections of the clichés of the journey/invitation hymn genre, but in verse 3

the poet worries about the best means of ritual service and in verse 4 reminds Indra that earlier poets were no different from us.

Jamison Brereton Notes

Indra 33

01 अयं सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः ।
पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥

02 ब्रह्मन्वीर ब्रह्मकृतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म् ।
अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा नः॑ ॥

03 का ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम ।
विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इन्द्र शृणवो॒ हवे॒मा ॥

04 उतो घा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒रृषी॑णाम् ।
अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥

05 वोचेमेदिन्द्रं मघवानमेनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥