०२५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ ते मह इन्द्र’ इति षडृचमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ ते’ इत्यनुक्रान्तम् । महाव्रते निष्केवल्य इदमादीनि पञ्च सूक्तानि । सूत्रितं च-’ आ ते मह इन्द्रोत्युग्रेति पञ्च सूक्तानि (ऐ. आ. ५. २. २) इति ॥

Jamison Brereton

25 (541)
Indra
Vasiṣṭha Maitrāvaruṇi
6 verses: triṣṭubh
King Sudās, the leader in the Battle of the Ten Kings (VII.18), appears here in verse 3, and the context is once again that of war and hostility. In sometimes vivid lan guage we beg Indra to support our side in the conflict and to destroy our enemies.

Jamison Brereton Notes

Indra

01 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते मह᳓ इन्द्रो ऽत्य्-उ᳙ग्र
स᳓मन्यवो य᳓त् सम᳓रन्त+++(=संगच्छन्ते)+++ से᳓नाः
प᳓ताति दिद्यु᳓न्+++(=विद्युत्)+++ न᳓र्यस्य बाह्वो᳓र्
मा᳓ ते म᳓नो विष्वद्र्य᳓१᳓ग्+++(=विष्वग्गन्तृ [→अस्मत्पक्षेऽपि])+++ वि᳓ चारीत्

02 नि दुर्ग - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ दुर्ग᳓ इन्द्र श्नथिहि अमि᳓त्रान्
अभि᳓ ये᳓ नो म᳓र्तिआसो° अम᳓न्ति
आरे᳓ तं᳓ शं᳓सं कृणुहि निनित्सो᳓र्
आ᳓ नो भर सम्भ᳓रणं व᳓सूनाम्

03 शतं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं᳓ ते शिप्रिन् ऊत᳓यः सुदा᳓से
सह᳓स्रं शं᳓सा उत᳓ राति᳓र् अस्तु
जहि᳓ व᳓धर् वनु᳓षो म᳓र्तियस्य
अस्मे᳓ द्युम्न᳓म् अ᳓धि र᳓त्नं च धेहि

04 त्वावतो हीन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवा᳓वतो हि᳓ इन्द्र क्र᳓त्वे अ᳓स्मि
तुवा᳓वतो अवितुः᳓ शूर रातउ᳓
वि᳓श्वे᳓द् अ᳓हानि तविषीव उग्रँ
ओ᳓कः कृणुष्व हरिवो न᳓ मर्धीः

05 कुत्सा एते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कु᳓त्सा एते᳓ ह᳓रिअश्वाय शूष᳓म्
इ᳓न्द्रे स᳓हो देव᳓जूतम् इयानाः᳓
सत्रा᳓ कृधि सुह᳓ना शूर वृत्रा᳓
वयं᳓ त᳓रुत्राः सनुयाम वा᳓जम्

06 एवा न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ न इन्द्र वा᳓रियस्य पूर्धि
प्र᳓ ते महीं᳓ सुमतिं᳓ वेविदाम
इ᳓षम् पिन्व मघ᳓वद्भ्यः सुवी᳓रां
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः