०२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘योनिष्ट इन्द्र सदने अकारि ’ इति षडृचं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रम्यते च-’ योनिः’ इति । महाव्रते निष्केवल्य एतत्सूक्तम् । सूत्रितं च - ’ योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वोत्तमामुपसंतत्योपोत्तमया परिदधाति’ (ऐ. आ. ५. ३. १) इति ॥

Jamison Brereton

24 (540)
Indra
Vasiṣṭha Maitrāvaruṇi
6 verses: triṣṭubh
Entirely an invitation to the sacrifice, this hymn conforms to the “journey” model, with repeated exhortations to Indra to “drive here,” declarations that the sacrifice has been prepared, and, especially in the final verse (6), hopes for reciprocal benefits given by a satisfied Indra.

Jamison Brereton Notes

Indra

01 योनिष्थ इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓निष् ट इन्द्र स᳓दने अकारि
त᳓म् आ᳓ नृ᳓भिः पुरुहूत प्र᳓ याहि
अ᳓सो य᳓था नो अविता᳓ वृधे᳓ च
द᳓दो व᳓सूनि मम᳓दश् च सो᳓मैः

02 गृभीतं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गृभीतं᳓ ते म᳓न इन्द्र द्विब᳓र्हाः
सुतः᳓ सो᳓मः प᳓रिषिक्ता म᳓धूनि
वि᳓सृष्टधेना भरते सुवृक्ति᳓र्
इय᳓म् इ᳓न्द्रं जो᳓हुवती मनीषा᳓

03 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो दिव᳓ आ᳓ पृथिव्या᳓ ऋजीषिन्न्
इद᳓म् बर्हिः᳓ सोमपे᳓याय याहि
व᳓हन्तु त्वा ह᳓रयो मद्रि᳓अञ्चम्
आङ्गूष᳓म् अ᳓छा तव᳓सम् म᳓दाय

04 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो वि᳓श्वाभिर् ऊति᳓भिः सजो᳓षा
ब्र᳓ह्म जुषाणो᳓ हरिअश्व याहि
व᳓रीवृजत् स्थ᳓विरेभिः सुशिप्र
अस्मे᳓ द᳓धद् वृ᳓षणं शु᳓ष्मम् इन्द्र

05 एष स्तोमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ स्तो᳓मो मह᳓ उग्रा᳓य वा᳓हे
धुरी᳓वा᳓त्यो न᳓ वाज᳓यन्न् अधायि
इ᳓न्द्र त्वाय᳓म् अर्क᳓ ईट्टे व᳓सूनां
दिवी᳓व द्या᳓म् अ᳓धि नः श्रो᳓मतं धाः

06 एवा न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ न इन्द्र वा᳓रियस्य पूर्धि
प्र᳓ ते महीं᳓ सुमतिं᳓ वेविदाम
इ᳓षम् पिन्व मघ᳓वद्भ्यः सुवी᳓रां
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः