०२२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ पिबा सोममिन्द्र मन्दतु त्वा’ इति नवर्चं पञ्चमं सूक्तम् । अनुक्रम्यते च – पिब नव वैराजमृतेऽन्त्याम्’ इति । वसिष्ठ ऋषिः । आदितोऽष्टौ विराजो नवमी त्रिष्ट्रप् । इन्द्रो देवता । दशरात्रे चतुर्थेऽहनि निष्केवल्यशस्त्रे ‘ पिबा सोममिन्द्र’ इति षट् स्तोत्रियानुरूपौ । सूत्रितं च– ’ वैराजं चेत्पृष्ठं पिबा सोममिन्द्र मन्दतु त्वेति षट् स्तोत्रियानुरूपौ’ (आश्व. श्रौ. ७. ११) इति । महाव्रतेऽपि निष्केवल्य आद्याः षडृचः । सूत्रितं च–’ पिबा सोममिन्द्र मन्दतु त्वेति षट्’ (ऐ. आ. ५. ३. १ ) इति । आद्या निष्केवल्यशस्त्रयाज्या । सूत्रितं च – पिबा सोममिन्द्र मन्दतु त्वेति याज्या’ (आश्व. श्रौ. ५. १५) इति । चतुर्थेऽहनि माध्यंदिनसवने होत्रकशस्त्रेषु सप्त विराजस्त्रींस्तृचान् कृत्वैकैकस्तृचः शंसनीयः । तत्र ‘न ते गिरः’ इत्याद्याश्चतस्र ऋचः । सूत्रितं च -’ न ते गिरो अपि मृष्ये तुरस्य प्र वो महे महिवृधे भरध्वम्’ (आश्व. श्रौ. ७. ११) इति ॥

Jamison Brereton

22 (538)
Indra
Vasiṣṭha Maitrāvaruṇi
9 verses: virāj 1–8, triṣṭubh 9
The focus of this hymn is entirely ritual: Indra is invited to drink the soma and to listen to the hymns of the poet, Vasiṣṭha, who in the 1st person names himself in verse 3 and calls attention to his devotion in verses 5 and 7. He acknowledges that there are competing rituals designed for Indra (vss. 6–7) and also acknowledges that no ritual activities and no hymns of men can quite measure up to the worth of Indra (vss. 8–9). Indeed, in this case Vasiṣṭha’s modesty seems justified: though the hymn is pleasingly phrased, it hardly counts as one of the pinnacles of R̥gvedic praise poetry.

Jamison Brereton Notes

Indra 25

01 पिबा सोममिन्द्र - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बा सो᳓ममिन्द्र म᳓न्दतु᳓ +++(=मादयतु)+++ त्वा᳓
यं᳓ ते सुषा᳓व हर्यश्व᳓+अ᳓द्रिः।
सोतु᳓र् +++(=सवकस्य)+++ बाहु᳓भ्यां सु᳓-यतो +++(अद्रिः)+++ न᳓+अ᳓र्वा +++(=अश्वः)+++ ।।

02 यस्ते मदो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते म᳓दो यु᳓जियश् चा᳓रुर् अ᳓स्ति
ये᳓न वृत्रा᳓णि हरिअश्व हं᳓सि
स᳓ त्वा᳓म् इन्द्र प्रभूवसो ममत्तु

03 बोधा सु - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

बो᳓धा सु᳓ मे मघवन् वा᳓चम् ए᳓मां᳓
यां᳓ ते व᳓सिष्ठो अ᳓र्चति प्र᳓शस्तिम्
इमा᳓ ब्र᳓ह्म सधमा᳓दे जुषस्व

04 श्रुधी हवम् - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुधी᳓ ह᳓वं विपिपान᳓स्य अ᳓द्रेर्
बो᳓धा वि᳓प्रस्य अ᳓र्चतो मनीषा᳓म्
कृष्वा᳓ दु᳓वांसि अ᳓न्तमा स᳓चेमा᳓

05 न ते - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ ते गि᳓रो अ᳓पि मृष्ये तुर᳓स्य
न᳓ सुष्टुति᳓म् असुरि᳓यस्य विद्वा᳓न्
स᳓दा ते ना᳓म स्वयशो विवक्मि

06 भूरि हि - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

भू᳓रि हि᳓ ते स᳓वना मा᳓नुषेषु
भू᳓रि मनीषी᳓ हवते तुवा᳓म् इ᳓त्
मा᳓ अरे᳓ अस्म᳓न् मघवञ् जियो᳓क् कः

07 तुभ्येदिमा सवना - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓भ्ये᳓द् इमा᳓ स᳓वना शूर वि᳓श्वा
तु᳓भ्यम् ब्र᳓ह्माणि व᳓र्धना कृणोमि
तुवं᳓ नृ᳓भिर् ह᳓वियो विश्व᳓धासि

08 नू चिन्नु - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ चिन् नु᳓ ते म᳓न्यमानस्य दस्म
उ᳓द् अश्नुवन्ति महिमा᳓नम् उग्र
न᳓ वीरि᳓यम् इन्दर+ ते न᳓ रा᳓धः

09 ये च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ च पू᳓र्व ऋ᳓षयो ये᳓ च नू᳓त्ना
इ᳓न्द्र ब्र᳓ह्माणि जन᳓यन्त वि᳓प्राः
अस्मे᳓ ते सन्तु सखिया᳓ शिवा᳓नि
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः