०२१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘असावि देवम्’ इति दशर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम् – ‘असावि ’ इति । माध्यंदिनसवने मैत्रावरुणस्योन्नीयमानमिदं सूक्तम् । ‘असावि देवमिहोप यातेत्यनुसवनम् ’ ( आश्व. श्रौ. ५.५) इति । इन्द्रस्य वृत्रघ्नः पशौ अभिक्रत्वा’ इति वपाया अनुवाक्या । सूत्रितं च - ‘अभि क्रत्वेन्द्र भूरध ज्मंस्त्वं महाँ इन्द्र तुभ्यं ह क्षाः’ (आश्व. श्रौ. ३.८) इति ।।

Jamison Brereton

21 (537)
Indra
Vasiṣṭha Maitrāvaruṇi
10 verses: triṣṭubh
The hymn begins with two verses establishing the sacrificial context, the second of which describes the pressing stones as enthusiastic participants in the ritual. The remaining verses celebrate Indra’s deeds and powers and beg him to display these powers for our benefit. Verses 3 and 4 treat previous deeds, verses 6–7 primarily his incomparable power.
The most striking verse is 5, the middle verse (vs. 10 being a refrain and thus extra-hymnic). Here various threats to the “truth” of our people are rendered help less by our resistance and Indra’s power: threats internal to the community, namely sorcerers and flatterers, and the “stranger” (an Ārya but an enemy), people who deviate from our ways, and phallus-worshipers (presumably non-Āryas) outside it.
The final two verses before the refrain (8–9) recognize Indra’s help in the past and request it for the future.

Jamison Brereton Notes

Indra

01 असावि देवम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓सावि देवं᳓ गो᳓ऋजीकम् अ᳓न्धो
नि᳓ अस्मिन्न् इ᳓न्द्रो जनु᳓षेम् उवोच
बो᳓धामसि त्वा हरिअश्व यज्ञइ᳓र्
बो᳓धा न स्तो᳓मम् अ᳓न्धसो म᳓देषु

02 प्र यन्ति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ यन्ति यज्ञं᳓ विप᳓यन्ति बर्हिः᳓
सोममा᳓दो विद᳓थे दुध्र᳓वाचः
नि᳓ उ भ्रियन्ते यश᳓सो गृभा᳓द् आ᳓
दूर᳓üपब्दो वृ᳓षणो नृषा᳓चः

03 त्वमिन्द्र स्रवितवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इन्द्र स्र᳓वितवा᳓ अप᳓स् कः
प᳓रिष्ठिता अ᳓हिना शूर पूर्वीः᳓
तुव᳓द् वावक्रे रथि᳓यो न᳓ धे᳓ना
रे᳓जन्ते वि᳓श्वा कृत्रि᳓माणि भीषा᳓

04 भीमो विवेषायुधेभिरेषामपांसि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भीमो᳓ विवेष आ᳓युधेभिर् एषाम्
अ᳓पांसि वि᳓श्वा न᳓रियाणि विद्वा᳓न्
इ᳓न्द्रः पु᳓रो ज᳓र्हृषाणो वि᳓ दूधोद्
वि᳓ व᳓ज्रहस्तो महिना᳓ जघान

05 न यातव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ यात᳓व इन्दर+ जूजुवुर् नो
न᳓ व᳓न्दना शविष्ठ वेदिया᳓भिः
स᳓ शर्धद् अर्यो᳓ वि᳓षुणस्य जन्तो᳓र्
मा᳓ शिश्न᳓देवा अ᳓पि गुर् ऋतं᳓ नः

06 अभि क्रत्वेन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ क्र᳓त्वा इन्दर+ भूर् अ᳓ध ज्म᳓न्
न᳓ ते विव्यङ् महिमा᳓नं र᳓जांसि
स्वे᳓ना हि᳓ वृत्रं᳓ श᳓वसा जघ᳓न्थ
न᳓ श᳓त्रुर् अ᳓न्तं विविदद् युधा᳓ ते

07 देवाश्चित्ते असुर्याय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓श् चित् ते असुरि᳓याय पू᳓र्वे
अ᳓नु क्षत्रा᳓य ममिरे स᳓हांसि
इ᳓न्द्रो मघा᳓नि दयते विष᳓ह्य
इ᳓न्द्रं वा᳓जस्य जोहुवन्त सातउ᳓

08 कीरिश्चिद्धि त्वामवसे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कीरि᳓श् चिद् धि᳓ त्वा᳓म् अ᳓वसे जुहा᳓व
ई᳓शानम् इन्द्र सउ᳓भगस्य भू᳓रेः
अ᳓वो बभूथ शतमूते अस्मे᳓
अभिक्षत्तु᳓स् तुवा᳓वतो वरूता᳓

09 सखायस्त इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓खायस् त इन्द्र विश्व᳓ह स्याम
नमोवृधा᳓सो महिना᳓ तरुत्र
वन्व᳓न्तु स्मा ते अ᳓वसा समीके᳓
अभी᳓तिम् अर्यो᳓ वनु᳓षां श᳓वांसि

10 स न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ न इन्द्र त्व᳓यताया इषे᳓ धास्
त्म᳓ना च ये᳓ मघ᳓वानो जुन᳓न्ति
व᳓स्वी षु᳓ ते जरित्रे᳓ अस्तु शक्ति᳓र्
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः