०१९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यस्तिग्मशृङ्गः’ इत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं’ यस्तिग्मशृङ्ग एकादश’ इति । आभिप्लविके पञ्चमेऽहन्येतन्निविद्धानम् । सूत्रितं च—‘कया शुभा यस्तिग्मशृङ्ग इति मध्यंदिनः ’ ( आश्व. श्रौ. ७. ७ ) इति । विषुवति निष्केवल्यशस्त्रेऽप्येतत्सूक्तम् । सूत्रितं च–’ यस्तिग्मशृङ्गोऽभि त्यं मेषम् ’ (आश्व. श्रौ. ८. ६) इति । महाव्रते निष्केवल्येऽप्येतत् सूक्तम् । सूत्रितं च-’ यस्तिग्मशृङ्गो वृषभो न भीम उग्रो जज्ञे वीर्याय स्वधावान्’ (ऐ. आ. ५. २. २ ) इति । आयुष्कामेष्ट्यां ‘मा ते अस्याम्’ इतीन्द्रस्य त्रातुर्याज्या । सूत्रितं च – ’ मा ते अस्यां सहसावन्परिष्टौ पाहि नो अग्ने पायुभिः’ (आश्व. श्रौ. २. १०) इति ॥

Jamison Brereton

19 (535)
Indra
Vasiṣṭha Maitrāvaruṇi
11 verses: triṣṭubh
The first half of this hymn (vss. 1–5) celebrates various victories of Indra, giving aid both to men of the mythic past (e.g., Kutsa, vs. 2) and those of the present, especially King Sudās (vss. 3, also 6), the leader also in the Battle of the Ten Kings treated in the preceding, well-known hymn (VII.18). The allegiances and enmities of that hymn are strikingly different here: for example, Indra helps the Pūru king in this hymn (vs. 3), whereas in VII.18 the Pūrus are the enemy.
Beginning with verse 6 we attempt to mobilize the powers and protection that Indra has previously provided for us, and as usual we offer praise in return.

Jamison Brereton Notes

Indra

01 यस्तिग्मशृङ्गो वृषभो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑ ।
यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥

02 त्वं ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑मावः॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।
दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥

03 त्वं धृष्णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दास॑म् ।
प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥

04 त्वं नृभिनृड़्मणो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि ।
त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥

05 तव च्यौत्नानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः ।
नि॒वेश॑ने शतत॒मावि॑वेषी॒रह॑ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥

06 सना ता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ ।
वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा॑णि पुरुशाक॒ वाज॑म् ॥

07 मा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै ।
त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥

08 प्रियास इत्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः ।
नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥

09 सद्यश्चिन्नु ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था ।
ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥

10 एते स्तोमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य॑ञ्चो॒ दद॑तो म॒घानि॑ ।
तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥

11 नू इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू इ॑न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व ।
उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥