०१८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाके षोडश सूक्तानि । तत्र ‘त्वे ह यत्पितरः’ इति पञ्चविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमिन्द्रदेवताकम् । द्वाविंशादिभिश्चतसृभिः सुदासनाम्नो राज्ञो दानं स्तूयते । अतस्तास्तदेवताकाः । अनुक्रम्यते हि - त्वे ह यत्पञ्चाधिकैन्द्रं सुदासः पैजवनस्य चतस्रोऽन्त्या दानस्तुतिः इति । महाव्रत आदितः पञ्चदशर्चः शंसनीयाः। तथैव पञ्चमारण्यके सूत्रितं - ’ त्वे ह यात्पितरश्चिन्न इन्द्रेति पञ्चदश’ (ऐ. आ. ५. २. २) इति ॥ ।

Jamison Brereton

18 (534)
Battle of the Ten Kings: Indra (1–21), Sudās
Paijavana’s Dānastuti (22–25)
Vasiṣṭha Maitrāvaruṇi
25 verses: triṣṭubh
This very famous hymn, the first in Vasiṣṭha’s Indra cycle, relates, if we can use so positive a term, the so-called Battle of the Ten Kings, in which King Sudās and his Bharata followers, with Indra on their side, defeat an alliance of ten kings, which includes their former allies, the Pūrus. The hymn has long been used as a major source for the reconstruction of R̥gvedic history, perhaps somewhat too credu lously, as the description of the battle is anything but clear and is also clearly full of puns, derisive word plays, phonological deformations of the names of oppo nents, and other poetic tricks, all couched in slangy language. Since the “historical” dimension of the hymn has been fully treated elsewhere (see especially Schmidt 1980 and Witzel 1995a), we will not discuss it further here.
The hymn falls into three parts. Verses 1–4 recall the aid that Indra has given us in the past and ask for his help and gifts now. The poet names himself at the very end of verse 4, which forms a clever ring with verse 1: the description of Indra in 1d, … vásu… vániṣṭhaḥ “best gainer of goods,” is condensed into the poet’s own name in 4d, vás(u)(ván)iṣṭhaḥ → vásiṣṭhaḥ. The language and contents of these first four verses are well-crafted but unremarkable.
The battle proper and its immediate aftermath occupy verses 5–21; the battle itself takes place in and around the Paruṣṇī River (see esp. vss. 8–10), whose course seems to have been diverted during the battle and in which a number of the com batants seem to have drowned. The account, especially the earlier verses, seems to mirror the confusion and chaos of battle itself (reminiscent on a much smaller scale of Tolstoy’s great accounts of the unintelligible disorder of battle in War and Peace, or of Stephen Crane’s in The Red Badge of Courage). The confusion begins to sort itself out as Indra’s role becomes more prominently featured. It is emphasized sev eral times that the forces of Sudās were outnumbered but that Indra was able to marshal this overmastered force to defeat their foes (esp. vss. 14, 17). This section ends with several verses celebrating the victory and Indra’s benevolence (20–21).
The final four verses (22–25) are a dānastuti, praising the extravagant gifts of Sudās to the poet, ending (vs. 25) by commending Sudās to the protection of the Maruts.

Jamison Brereton Notes

Indra (Battle of the Ten Kings) I have little or nothing to contribute to the interpr. of this famous hymn, esp.

of its historical or quasi-historical aspects. The hymn has been extensively treated by a number of scholars both fairly recently, esp. H.-P. Schmidt (Indica 17 [1980], 41- 47) and M. Witzel (in The Indo-Aryans in Ancient South Asia [1995], esp. 333-37), and in the past, and I will therefore limit my comments. See the published introduction. for structural and contextual disc. I am certain that many puns, wordplays, and snide asides are completely unrecoverable today and respectfully suggest that we put our energies into interpreting parts of the RV where we have a chance of success.

01 त्वे ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवे᳓ ह य᳓त् पित᳓रश् चिन् न इन्द्र
वि᳓श्वा वामा᳓ जरिता᳓रो अ᳓सन्वन्
तुवे᳓ गा᳓वः सुदु᳓घास् त्वे᳓ हि᳓ अ᳓श्वास्
तुवं᳓ व᳓सु देवयते᳓ व᳓निष्ठः

02 राजेव हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रा᳓जेव हि᳓ ज᳓निभिः क्षे᳓षि एव᳓
अ᳓व द्यु᳓भिर् अभि᳓ विदु᳓ष् कविः᳓ स᳓न्
पिशा᳓ गि᳓रो मघवन् गो᳓भिर् अ᳓श्वैस्
तुवायतः᳓ शिशीहि राये᳓ अस्मा᳓न्

03 इमा उ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ उ त्वा पस्पृधाना᳓सो अ᳓त्र
मन्द्रा᳓ गि᳓रो देवय᳓न्तीर् उ᳓प स्थुः
अर्वा᳓ची ते पथि᳓या राय᳓ एतु
सिया᳓म ते सुमता᳓व् इन्द्र श᳓र्मन्

04 धेनुं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धेनुं᳓ न᳓ त्वा सूय᳓वसे दु᳓दुक्षन्न्
उ᳓प ब्र᳓ह्माणि ससृजे व᳓सिष्ठः
तुवा᳓म् इ᳓न् मे गो᳓पतिं वि᳓श्व आह
आ᳓ न इ᳓न्द्रः सुमतिं᳓ गन्तु अ᳓छ

05 अर्णांसि चित्पप्रथाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्णांसि चित् पप्रथाना᳓ सुदा᳓स
इ᳓न्द्रो गाधा᳓नि अकृणोत् सुपारा᳓
श᳓र्धन्तं शिम्यु᳓म् उच᳓थस्य न᳓व्यः
शा᳓पं सि᳓न्धूनाम् अकृणोद् अ᳓शस्तीः

06 पुरोळा इत्तुर्वशो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पुरोळा᳓ इ᳓त् तुर्व᳓शो य᳓क्षुर् आसीद्
राये᳓ म᳓त्स्यासो नि᳓शिता अ᳓पीव
श्रुष्टिं᳓ चक्रुर् भृ᳓गवो द्रुह्य᳓वश् च
स᳓खा स᳓खायम् अतरद् वि᳓षूचोः

07 आ पक्थासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ पक्था᳓सो भलान᳓सो भनन्त
आ᳓लिनासो विषाणि᳓नः शिवा᳓सः
आ᳓ यो᳓ ऽनयत् सधमा᳓ आ᳓रियस्य
गव्या᳓ तृ᳓त्सुभ्यो अजगन् युधा᳓ नॄ᳓न्

08 दुराध्योथ् अदितिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दुराधि᳓यो अ᳓दितिं स्रेव᳓यन्तो
अचेत᳓सो वि᳓ जगृभ्रे प᳓रुष्णीम्
मह्ना᳓विव्यक् पृथिवी᳓म् प᳓त्यमानः
पशु᳓ष् कवि᳓र् अशयच् चा᳓यमानः

09 ईयुरर्थं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ईयु᳓र् अ᳓र्थं न᳓ निअर्थ᳓म् प᳓रुष्णीम्
आशु᳓श् चने᳓द् अभिपित्वं᳓ जगाम
सुदा᳓स इ᳓न्द्रः सुतु᳓काँ अमि᳓त्रान्
अ᳓रन्धयन् मा᳓नुषे व᳓ध्रिवाचः

10 ईयुर्गावो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ईयु᳓र् गा᳓वो न᳓ य᳓वसाद् अ᳓गोपा
यथाकृत᳓म् अभि᳓ मित्रं᳓ चिता᳓सः
पृ᳓श्निगावः पृ᳓श्निनिप्रेषितासः
श्रुष्टिं᳓ चक्रुर् नियु᳓तो र᳓न्तयश् च

11 एकं च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓कं च यो᳓ विंशतिं᳓ च श्रवस्या᳓
वैकर्ण᳓योर् ज᳓नान् रा᳓जा नि᳓ अ᳓स्तः
दस्मो᳓ न᳓ स᳓द्मन् नि᳓ शिशाति बर्हिः᳓
शू᳓रः स᳓र्गम् अकृणोद् इ᳓न्द्र एषाम्

12 अध श्रुतम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध श्रुतं᳓ कव᳓षं वृद्ध᳓म् अप्सु᳓
अ᳓नु द्रुह्युं᳓ नि᳓ वृणग् व᳓ज्रबाहुः
वृणाना᳓ अ᳓त्र सखिया᳓य सख्यं᳓
तुवाय᳓न्तो ये᳓ अ᳓मदन्न् अ᳓नु त्वा

13 वि सद्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ सद्यो᳓ वि᳓श्वा दृंहिता᳓नि एषाम्
इ᳓न्द्रः पु᳓रः स᳓हसा सप्त᳓ दर्दः
वि᳓ आ᳓नवस्य तृ᳓त्सवे ग᳓यम् भाग्
जे᳓ष्म पूरुं᳓ विद᳓थे मृध्र᳓वाचम्

14 नि गव्यवोऽनवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ गव्य᳓वो अ᳓नवो द्रुह्य᳓वश् च
षष्टिः᳓ शता᳓ सुषुपुः ष᳓ट् सह᳓स्रा
षष्टि᳓र् वीरा᳓सो अ᳓धि ष᳓ड् दुवोयु᳓
वि᳓श्वे᳓द् इ᳓न्द्रस्य वीरि᳓या कृता᳓नि

15 इन्द्रेणैते तृत्सवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रेणैते᳓ तृ᳓त्सवो वे᳓विषाणा
आ᳓पो न᳓ सृष्टा᳓ अधवन्त नी᳓चीः
दुर्मित्रा᳓सः प्रकलवि᳓न् मि᳓माना
जहु᳓र् वि᳓श्वानि भो᳓जना सुदा᳓से

16 अर्धं वीरस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्धं᳓ वीर᳓स्य शृतपा᳓म् अनिन्द्र᳓म्
प᳓रा श᳓र्धन्तं नुनुदे अभि᳓ क्षा᳓म्
इ᳓न्द्रो मन्यु᳓म् मन्युमि᳓यो मिमाय
भेजे᳓ पथो᳓ वर्तनि᳓म् प᳓त्यमानः

17 आध्रेण चित्तद्वेकम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आध्रे᳓ण चित् त᳓द् उ ए᳓कं चकार
सिंहि᳓यं चित् पे᳓तुवेना जघान
अ᳓व स्रक्ती᳓र् वेशि᳓यावृश्चद् इ᳓न्द्रः
प्रा᳓यछद् वि᳓श्वा भो᳓जना सुदा᳓से

18 शश्वन्तो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓श्वन्तो हि᳓ श᳓त्रवो रारधु᳓ष् टे
भेद᳓स्य चिच् छ᳓र्धतो विन्द र᳓न्धिम्
म᳓र्ताँ ए᳓न स्तुवतो᳓ यः᳓ कृणो᳓ति
तिग्मं᳓ त᳓स्मिन् नि᳓ जहि व᳓ज्रम् इन्द्र

19 आवदिन्द्रं यमुना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓वद् इ᳓न्द्रं यमु᳓ना तृ᳓त्सवश् च
प्रा᳓त्र भेदं᳓ सर्व᳓ताता मुषायत्
अजा᳓सश् च शि᳓ग्रवो य᳓क्षवश् च
बलिं᳓ शीर्षा᳓णि जभ्रुर् अ᳓श्वियानि

20 न त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ त इन्द्र सुमत᳓यो न᳓ रा᳓यः
संच᳓क्षे पू᳓र्वा उष᳓सो न᳓ नू᳓त्नाः
दे᳓वकं चिन् मान्यमानं᳓ जघन्थ
अ᳓व त्म᳓ना बृहतः᳓ श᳓म्बरम् भेत्

21 प्र ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ये᳓ गृहा᳓द् अ᳓ममदुस् तुवाया᳓
पराशरः᳓ शत᳓यातुर् व᳓सिष्ठः
न᳓ ते भोज᳓स्य सखिय᳓म् मृषन्त
अ᳓धा सूरि᳓भ्यः सुदि᳓ना वि᳓ उछान्

22 द्वे नप्तुर्देववतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दुवे᳓ न᳓प्तुर् देव᳓वतः शते᳓ गो᳓र्
दुवा᳓ र᳓था वधू᳓मन्ता सुदा᳓सः
अ᳓र्हन्न् अग्ने पैजवन᳓स्य दा᳓नं
हो᳓तेव स᳓द्म प᳓रि एमि रे᳓भन्

23 चत्वारो मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चत्वा᳓रो मा पैजवन᳓स्य दा᳓नाः
स्म᳓द्दिष्टयः कृशनि᳓नो निरेके᳓
ऋज्रा᳓सो मा पृथिविष्ठाः᳓ सुदा᳓सस्
तोकं᳓ तोका᳓य श्र᳓वसे वहन्ति

24 यस्य श्रवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य श्र᳓वो रो᳓दसी अन्त᳓र् उर्वी᳓
शीर्ष्णे᳓-शीर्ष्णे विबभा᳓जा विभक्ता᳓
सप्ते᳓द् इ᳓न्द्रं न᳓ स्रव᳓तो गृणन्ति
नि᳓ युध्यामधि᳓म् अशिशाद् अभी᳓के

25 इमं नरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ नरो मरुतः सश्चता᳓नु
दि᳓वोदासं न᳓ पित᳓रं सुदा᳓सः
अविष्ट᳓ना पैजवन᳓स्य के᳓तं
दूणा᳓शं क्षत्र᳓म् अज᳓रं दुवोयु᳓