०१७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अग्ने भव सुषमिधा’ इति सप्तर्चं सप्तदशं सूक्तं वसिष्ठस्यार्षमग्निदेवताकम् । सप्तापि द्विपदास्त्रिष्टुभः । तथैवानुक्रम्यते–‘अग्ने भव सप्त द्वैपदं त्रैष्टुभम् ’ इति । अतिरात्रे षष्ठेऽहनि तृतीयसवने मैत्रावरुणशस्त्रे ‘अग्ने भव’ इति तृचोऽनुरूपः । सूत्र्यते हि - ‘अग्ने त्वं नोऽअन्तमोऽग्ने भव सुषमिधा समिद्ध इति स्तोत्रियानुरूपौ’ (आश्व. श्रौ. ८. २) इति ॥

Jamison Brereton

17 (533)
Agni
Vasiṣṭha Maitrāvaruṇi
7 verses: dvipadā triṣṭubh
Quite reasonably, Oldenberg holds that this hymn, the last of the Agni hymns of VII, is an addition to the original collection. It is a general description of the prepa rations for the sacrifice (vss. 1, 2), its performance (vss. 3, 4), and its rewards (vs. 5). The last two verses reaffirm the relationship of Agni to the gods (vs. 6) and to mortals (vs. 7).

01 अग्ने भव - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु॑र्वि॒या वि स्तृ॑णीताम् ॥

02 उत द्वार - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त द्वार॑ उश॒तीर्वि श्र॑यन्तामु॒त दे॒वाँ उ॑श॒त आ व॑हे॒ह ॥

03 अग्ने वीहि - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॑ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्त्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ॥

04 स्वध्वरा करति - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒ध्व॒रा क॑रति जा॒तवे॑दा॒ यक्ष॑द्दे॒वाँ अ॒मृता॑न्पि॒प्रय॑च्च ॥

05 वंस्व विश्वा - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वंस्व॒ विश्वा॒ वार्या॑णि प्रचेतः स॒त्या भ॑वन्त्वा॒शिषो॑ नो अ॒द्य ॥

06 त्वामु ते - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामु॒ ते द॑धिरे हव्य॒वाहं॑ दे॒वासो॑ अग्न ऊ॒र्ज आ नपा॑तम् ॥

07 ते ते - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते ते॑ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ॥