०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाके षोडश सूक्तानि । तत्र ‘त्वे ह यत्पितरः’ इति पञ्चविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमिन्द्रदेवताकम् । द्वाविंशादिभिश्चतसृभिः सुदासनाम्नो राज्ञो दानं स्तूयते । अतस्तास्तदेवताकाः । अनुक्रम्यते हि - त्वे ह यत्पञ्चाधिकैन्द्रं सुदासः पैजवनस्य चतस्रोऽन्त्याः दानस्तुतिः’ इति । महाव्रत आदितः पञ्चदशर्चः शंसनीयाः। तथैव पञ्चमारण्यके सूत्रितं -’ त्वे ह यत्पितरश्चिन्न इन्द्रेति पञ्चदश’ (ऐ. आ. ५. २. २) इति ॥

Jamison Brereton

16 (532)
Agni
Vasiṣṭha Maitrāvaruṇi
12 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
The hymn emphasizes the exchange mediated by Agni, who takes the oblations to the gods (or brings the gods to the oblations) and who offers sustenance to the sac rificers (see esp. vs. 2cd). Because he thus nourishes both gods and humans, he is the “child of nourishment” (vs. 1). The poet repeatedly mentions the patron or patrons of the rite alongside the priests. Agni himself is not only the Hotar, who recites, and the Potar, who purifies the soma, but also the householder, who is the patron of the rite (vs. 5). In verse 6 the poet calls on Agni to sharpen not only the priests but also the one who “praises well” and “is skillful,” a combination of the ability to recite and the ability to perform the rites. The latter may be a priest, but it might be again the householder, who is also a participant in the rite and who owns, in a sense, all of the priestly functions. In verses 7–10 the poet asks Agni to bless generous patrons, who give cattle (vs. 7) and horses along with other gifts (vs. 10). In the final two verses the poet addresses his fellow priests, urging them to prepare ample offerings for the gods, but at the end he especially mentions the rewards of wealth and good men for “the pious man,” who again is likely the householder.

01 एना वो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

एना᳓ वो अग्निं᳓ न᳓मसा
ऊर्जो᳓ न᳓पातम् आ᳓ हुवे
प्रियं᳓ चे᳓तिष्ठम् अरतिं᳓ सुअध्वरं᳓
वि᳓श्वस्य दूत᳓म् अमृ᳓तम्

02 स योजते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ योजते अरुषा᳓ विश्व᳓भोजसा
स᳓ दुद्रवत् सु᳓आहुतः
सुब्र᳓ह्मा यज्ञः᳓ सुश᳓मी व᳓सूनां᳐
देवं᳓ रा᳓धो ज᳓नाना᳐म्

03 उदस्य शोचिरस्थादाजुह्वानस्य - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अस्य शोचि᳓र् अस्था᳐द्
आजु᳓ह्वानस्य मीळ्हु᳓षः
उ᳓द् धूमा᳓सो अरुषा᳓सो दिविस्पृ᳓शः
स᳓म् अग्नि᳓म् इन्धते न᳓रः

04 तं त्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ तुवा दूतं᳓ कृण्महे यश᳓स्तमं
देवाँ᳓ आ᳓ वीत᳓ये वह
वि᳓श्वा सूनो सहसो मर्तभो᳓जना
रा᳓स्व त᳓द् य᳓त् तुवे᳓महे

05 त्वमग्ने गृहपतिस्त्वम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अग्ने गृह᳓पतिस्
तुवं᳓ हो᳓ता नो अध्वरे᳓
तुव᳓म् पो᳓ता विश्ववार प्र᳓चेता
य᳓क्षि वे᳓षि च वा᳓रियम्

06 कृधि रत्नम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

कृधि᳓ र᳓त्नं य᳓जमानाय सुक्रतो
तुवं᳓ हि᳓ रत्नधा᳓ अ᳓सि
आ᳓ न ऋते᳓ शिशीहि वि᳓श्वम् ऋत्वि᳓जं
सुशं᳓सो य᳓श् च द᳓क्षते

07 त्वे अग्ने - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवे᳓ अग्ने सुआहुत
प्रिया᳓सः सन्तु सूर᳓यः
यन्ता᳓रो ये᳓ मघ᳓वानो ज᳓नाना᳐म्
ऊर्वा᳓न् द᳓यन्त गो᳓ना᳐म्

08 येषामिळा घृतहस्ता - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓षाम् इ᳓ळा घृत᳓हस्ता दुरोण᳓ आँ᳓
अ᳓पि प्राता᳓ निषी᳓दति
तां᳓स् त्रायस्व सहसिय द्रुहो᳓ निदो᳓
य᳓छा नः श᳓र्म दीर्घश्रु᳓त्

09 स मन्द्रया - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मन्द्र᳓या च जिह्व᳓या
व᳓ह्निर् आसा᳓ विदु᳓ष्टरः
अ᳓ग्ने रयि᳓म् मघ᳓वद्भ्यो न आ᳓ वह
हव्य᳓दातिं च सूदय

10 ये राधांसि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ रा᳓धांसि द᳓दति अ᳓श्विया मघा᳓
का᳓मेन श्र᳓वसो महः᳓
ताँ᳓ अं᳓हसः पिपृहि पर्तृ᳓भिष् टुवं᳓
शत᳓म् पूर्भि᳓र् यविष्ठिय

11 देवो वो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

देवो᳓ वो द्रविणोदाः᳐᳓
पूर्णां᳓ विवष्टि आसि᳓चम्
उ᳓द् वा सिञ्च᳓ध्वम् उ᳓प वा पृणध्वम्
आ᳓द् इ᳓द् वो देव᳓ ओहते

12 तं होतारमध्वरस्य - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ हो᳓तारम् अध्वर᳓स्य प्र᳓चेतसं
व᳓ह्निं देवा᳓ अकृण्वत
द᳓धाति र᳓त्नं विधते᳓ सुवी᳓रियम्
अग्नि᳓र् ज᳓नाय दाशु᳓षे