०१२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अगन्म महा’ इति तृचात्मकं द्वादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । तथा चानुक्रान्तम् – ’ अगन्म तृचम्’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः । व्यूळ्हे दशरात्रे नवमेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च - तृतीयस्यागन्म महेत्याज्यम्’ (आश्व. श्रौ. ८. ११) इति ॥

Jamison Brereton

12 (528)
Agni
Vasiṣṭha Maitrāvaruṇi
3 verses: triṣṭubh
This brief hymn describes Agni’s appearance “in his own home” (vs. 1b) and “in the household” (vs. 2b), but although he is a domestic fire, Agni also extends to heaven and earth and the four directions (vs. 1cd). Agni’s principal function here is to pro tect the household against unnamed difficulties (vss. 2a, 2c) and accusations (vs. 2c). It is because he protects the family that he is Varuṇa and Mitra (vs. 3a), since these two gods guard the structure of the household and of the larger society.

01 अगन्म महा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓गन्म महा᳓ न᳓मसा य᳓विष्ठं
यो᳓ दीदा᳓य स᳓मिद्धः स्वे᳓ दुरोणे᳓
चित्र᳓भानुं रो᳓दसी अन्त᳓र् उर्वी᳓
सु᳓आहुतं विश्व᳓तः प्रतिअ᳓ञ्चम्

02 स मह्ना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मह्ना᳓ वि᳓श्वा दुरिता᳓नि साह्वा᳓न्
अग्नि᳓ ष्टवे द᳓म आ᳓ जात᳓वेदाः
स᳓ नो रक्षिषद् दुरिता᳓द् अवद्या᳓द्
अस्मा᳓न् गृणत᳓ उत᳓ नो मघो᳓नः

03 त्वं वरुण - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ व᳓रुण उत᳓ मित्रो᳓ अग्ने
तुवां᳓ वर्धन्ति मति᳓भिर् व᳓सिष्ठाः
तुवे᳓ व᳓सु सुषणना᳓नि सन्तु
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः