००८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इन्धे राजा’ इति सप्तर्चमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । इन्धे राजा’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः । आतिथ्यायां प्रप्रायमग्निः’ इति स्विष्टकृतो याज्या। सूत्रितं च –‘प्रप्रायमग्निर्भरतस्य शृण्व इति संयाज्ये’ (आश्व. श्रौ. ४.५) इति ॥

Jamison Brereton

8 (524)
Agni
Vasiṣṭha Maitrāvaruṇi
7 verses: triṣṭubh
Commenting on verse 4, Proferes (2007: 37) rightly says that this Agni, the fire of the Bharatas, is linked to the military power of the tribe, and it is he, not the king or the warriors, who is credited for the victory over the enemy tribe of the Pūrus. There are hints of the extent of Agni’s power to repel the Pūrus in the repetition of ví “afar” in verses 2, 3, and 4. Likewise, the poet describes how Agni, the son of strength (vs. 7), becomes mighty (vs. 2) and makes his body strong (vs. 5). In an interesting twist, Agni’s bodily strength, which is marked by his brightness, will drive human bodily illness into darkness (vs. 6).

01 इन्धे राजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्धे᳓ रा᳓जा स᳓म् अरियो᳓ न᳓मोभिर्
य᳓स्य प्र᳓तीकम् आ᳓हुतं घृते᳓न
न᳓रो हव्ये᳓भिर् ईळते सबा᳓ध
आ᳓ अग्नि᳓र् अ᳓ग्र उष᳓साम् अशोचि

02 अयमु ष्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् उ ष्य᳓ · सु᳓महाँ अवेदि
हो᳓ता मन्द्रो᳓ म᳓नुषो यह्वो᳓ अग्निः᳓
वि᳓ भा᳓ अकः ससृजानः᳓ पृथिव्यां᳓
कृष्ण᳓पविर् ओ᳓षधीभिर् ववक्षे

03 कया नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓या नो अग्ने वि᳓ वसः सुवृक्तिं᳓
का᳓म् उ स्वधा᳓म् ऋणवः शस्य᳓मानः
कदा᳓ भवेम प᳓तयः सुदत्र
रायो᳓ वन्ता᳓रो दुष्ट᳓रस्य साधोः᳓

04 प्रप्रायमग्निर्भरतस्य शृण्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓-प्राय᳓म् अग्नि᳓र् भरत᳓स्य शृण्वे
वि᳓ य᳓त् सू᳓र्यो न᳓ रो᳓चते बृह᳓द् भाः᳓
अभि᳓ यः᳓ पूरु᳓म् पृ᳓तनासु तस्थउ᳓
द्युतानो᳓ दइ᳓व्यो अ᳓तिथिः शुशोच

05 असन्नित्त्वे आहवनानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓सन्न् इ᳓त् त्वे᳓ आह᳓वनानि भू᳓रि
भु᳓वो वि᳓श्वेभिः सुम᳓ना अ᳓नीकैः
स्तुत᳓श् चिद् अग्ने शृण्विषे गृणानः᳓
स्वयं᳓ वर्धस्व तनु᳓वं सुजात

06 इदं वचः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं᳓ व᳓चः शतसाः᳓ सं᳓सहस्रम्
उ᳓द् अग्न᳓ये जनिषीष्ट द्विब᳓र्हाः
शं᳓ य᳓त् स्तोतृ᳓भ्य आप᳓ये भ᳓वाति
द्युम᳓द् अमीवचा᳓तनं रक्षोहा᳓

07 नू त्वामग्न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ तुवा᳓म् अग्न ईमहे व᳓सिष्ठा
ईशानं᳓ सूनो सहसो व᳓सूनाम्
इ᳓षं स्तोतृ᳓भ्यो मघ᳓वद्भ्य आनड्
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः