००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र वः शुक्राय’ इति दशर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । ‘प्र वः’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तमध्ये द्वितीयत्वेनोक्तः सूक्तविनियोगः । एकादशिन आग्नेये पशौ ‘ प्र वः शुक्राय’ इत्येषा वपाया याज्या । सूत्रितं च—-’ प्र वः शुक्राय भानवे भरध्वं यथा विप्रस्य मनुषो हविर्भिः’ ( आश्व. श्रौ. ३.७) इति ।।

Jamison Brereton

4 (520)
Agni
Vasiṣṭha Maitrāvaruṇi
10 verses: triṣṭubh
According to Geldner, this hymn expresses the wish for a son or for a replace ment for a lost son. This is a wish found already in VII.1, but it is even more strongly articulated here. The best evidence for this interpretation is verses 7–8, which describe the importance of a son of one’s own. Nonetheless, in our view, the subject of this hymn is more likely Agni than a son, and its concern is with a fire that has not come or is just coming to birth. The poet wants a fire of his own, which will bring wealth to him and preserve his life. To be sure, the hymn does contain an implicit analogy between Agni and a son, who likewise brings wealth and preserves the family.
One of the features of this hymn is the repetition of a word or of related words in successive lines or verses: jagr̥bhré (3b) and gŕ̥bham (3c); uvóca (3c) and durókam (3d); agnír amŕ̥taḥ (4b), agnír amŕ̥tān (5b), and agnír amŕ̥tasya (6a); pári ṣadāma (6d) and pariṣádyam (7a); and áraṇasya (7a) and áraṇaḥ (8a). Other repetitions occur at a greater distance. Thus verse 8, the third from the last verse, has grábhāya (8a) and ókaḥ (8c), echoing the repetitions within verse 3. This technique does not occur in the first, introductory verse, nor in the last two verses, which are also VI.15.12 and VII.3.10 respectively and which may have been borrowed from these hymns. These verbal repetitions are a challenge to translate, particularly because in some cases the poet uses the words in different senses. So, for example, amŕ̥ta refers to the “immor
tal” gods in verse 5 but to “living” human beings in verse 6. In verse 6 pári √sad describes the sacrificers “sitting around” the fire, but in verse 7 it probably refers to sequestering something or keeping it separate by drawing a notional circle around it.

01 प्र वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वः शुक्रा᳓य भान᳓वे भरध्वं
हव्य᳓म् मतिं᳓ च अग्न᳓ये सु᳓पूतम्
यो᳓ दइ᳓वियानि मा᳓नुषा जनूं᳓षि
अन्त᳓र् वि᳓श्वानि विद्म᳓ना जि᳓गाति

02 स गृत्सो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ गृ᳓त्सो अग्नि᳓स् त᳓रुणश् चिद् अस्तु
य᳓तो य᳓विष्ठो अ᳓जनिष्ट मातुः᳓
सं᳓ यो᳓ व᳓ना युव᳓ते शु᳓चिदन्
भू᳓रि चिद् अ᳓न्ना स᳓म् इ᳓द् अत्ति सद्यः᳓

03 अस्य देवस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ देव᳓स्य संस᳓दि अ᳓नीके
य᳓म् म᳓र्तिआसः शियेतं᳓ जगृभ्रे᳓
नि᳓ यो᳓ गृ᳓भम् पउ᳓रुषेयीम् उवो᳓च
दुरो᳓कम् अग्नि᳓र् आय᳓वे शुशोच

04 अयं कविरकविषु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ कवि᳓र् अ᳓कविषु प्र᳓चेता
म᳓र्तेषु अग्नि᳓र् अमृ᳓तो नि᳓ धायि
स᳓ मा᳓ नो अ᳓त्र जुहुरः सहस्वः
स᳓दा तुवे᳓ सुम᳓नसः सियाम

05 आ यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यो᳓ यो᳓निं देव᳓कृतं ससा᳓द
क्र᳓त्वा हि᳓ अग्नि᳓र् अमृ᳓ताँ अ᳓तारीत्
त᳓म् ओ᳓षधीश् च वनि᳓नश् च ग᳓र्भम्
भू᳓मिश् च विश्व᳓धायसम् बिभर्ति

06 ईशे ह्यट्ग्निरमृतस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓शे हि᳓ अग्नि᳓र् अमृ᳓तस्य भू᳓रेर्
ई᳓शे रायः᳓ सुवी᳓रियस्य दा᳓तोः
मा᳓ त्वा वयं᳓ सहसावन्न् अवी᳓रा
मा᳓ अ᳓प्सवः प᳓रि षदाम मा᳓दुवः

07 परिषद्यं ह्यरणस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

परिष᳓द्यं हि᳓ अ᳓रणस्य रे᳓क्णो
नि᳓त्यस्य रायः᳓ प᳓तयः सियाम
न᳓ शे᳓षो अग्ने अन्य᳓जातम् अस्ति
अ᳓चेतानस्य मा᳓ पथो᳓ वि᳓ दुक्षः

08 नहि ग्रभायारणः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ ग्र᳓भाय अ᳓रणः सुशे᳓वो
अन्यो᳓दर्यो म᳓नसा म᳓न्तवा᳓ उ
अ᳓धा चिद् ओ᳓कः पु᳓नर् इ᳓त् स᳓ एति
आ᳓ नो वाजी᳓ अभीषा᳓ळ् एतु न᳓व्यः

09 त्वमग्ने वनुष्यतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अग्ने वनुष्यतो᳓ नि᳓ पाहि
तुव᳓म् उ नः सहसावन्न् अवद्या᳓त्
सं᳓ त्वा ध्वस्मन्व᳓द् अभि᳓ एतु पा᳓थः
सं᳓ रयि᳓ स्पृहया᳓यियः सहस्री᳓

10 एता नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓ नो अग्ने सउ᳓भगा दिदीहि
अ᳓पि क्र᳓तुं सुचे᳓तसं वतेम
वि᳓श्वा स्तोतृ᳓भ्यो गृणते᳓ च सन्तु
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः