००१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीः ॥

॥ अथ सप्तमं मण्डलम् ॥

अथ सप्तमं मण्डलमारभ्यते । तस्मिन् मण्डले षडनुवाकाः । प्रथमेऽनुवाके सप्तदश सूक्तानि । तत्र ‘अग्नि नरः’ इति पञ्चविंशत्यृचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका—’ अग्निं पञ्चाधिका विराजोऽष्टादशाद्याः’ इति । ‘ सप्तमं मण्डलं वसिष्ठोऽपश्यत् । इत्युक्तत्वात् मण्डलद्रष्टा वसिष्ठ ऋषिः । आदितोऽष्टादश विराजस्त्र्येकादशकाः शिष्टा अनादेशपरिभाषया त्रिष्टुभः । मण्डलादिपरिभाषया अग्निर्देवता । विश्वजितीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च-’ विश्वजितोऽग्निं नर इत्याज्यम् ’ ( आश्व. श्रौ. ८. ७) इति । अत्रेश्चतुर्वीराख्ये चतूरात्रे’ चतुर्थेऽहनीदमेव सूक्तमाज्यशस्त्रम्। सूत्र्यते हि- अग्निं नर इति चतुर्थे ’ ( आश्व. श्रौ. १०. २ ) इति । व्यूळ्हे दशरात्रे चतुर्थेऽहनीदं सूक्तं जातवेदस्यनिविद्धानम्। सूत्रितं च-’ अग्निं नर इत्याग्निमारुतम् ’ ( आश्व. श्रौ. ८. ८) इति । महाव्रतेऽपीदमाज्यशस्त्रम् । तथैव पञ्चमारण्यके सूत्र्यते–’ आज्यप्रउगे विश्वजितः ’ (ऐ. आ. ५.१.१ ) इति । अविवाक्येऽहनि प्रातरनुवाके ‘त्वमग्ने वसून्’ इत्यादीनामनुष्टुभां स्थान आद्यस्तृचः प्रक्षेपणीयः । सूत्र्यते हि-’ दशमेऽहन्यनुष्टुभां स्थानेऽग्निं नरो दीधितिभिररण्योरिति तृचमाग्नेये क्रतौ ’ (आश्व. श्रौ. ८.१२ ) इति । आद्याः पडृचः तस्मिन्नेवाहनि आग्निमारुते शस्त्रे स्तोत्रियानुरूपार्थाः । सूत्रितं च – अग्निं नरो दीधितिभिररण्योरिति स्तोत्रियानुरूपौ’ ( आश्व. श्रौ. ८.१२ ) इति । मण्डलादिहोमेऽप्येषा । आधाने तृतीयायामिष्टौ ‘प्रेद्धः’ इति स्विष्टकृतोऽनुवाक्या । सूत्रितं च -’ प्रेद्धो अग्न इमो अग्न इति संयाज्ये’ (आश्व. श्रौ. २.१) इति । एवमन्यत्रापि दीक्षणीयादिषु स्विष्टकृतोऽनुवाक्या । प्रायणीयेष्टौ ‘सेदग्निरग्नीन्’ इत्यादिके द्वे स्विष्टकृतो याज्यानुवाक्ये । सूत्रितं च – ’ सेदग्निरग्नीँरत्यस्त्वन्यानिति द्वे संयाज्ये’ ( आश्व. श्रौ. ४.३ ) इति । आधाने तृतीयायामिष्टौ ‘इमो अग्ने’ इति स्विष्टकृतो याज्या । सूत्रितं च- ‘इमो अग्न इति संयाज्ये’ ( आश्व. श्रौ. २.१ ) इति । एवमन्यत्रापि दीक्षणीयादिष्वेषा सौविष्टकृती याज्या । प्रातरनुवाक आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे च ‘त्वमग्ने सुहवः’ इत्याद्याः पञ्चर्चः । सूत्रितं च-’ त्वमग्ने सुहवो रण्वसंदृक् ’ ( आश्व. श्रौ. ४.१३ ) इति ।।

Jamison Brereton

1 (517)
Agni
Vasiṣṭha Maitrāvaruṇi
25 verses: virāj 1–18, triṣṭubh 19–25
This hymn contains a double ending. The first is at verse 20, which concludes with the signature pāda of the Vasiṣṭhas in 20d and which is marked by a shift to triṣṭubh meter in verses 19–20. The hymn continues in triṣṭubh to verse 25, which repeats verse 20. Oldenberg suggests that there is a deliberate attempt to make this hymn parallel to VII.34, the first of the hymns to All Gods, which also has twenty-five verses. The two parts of the hymn, verses 1–20 and 21–25, are thematically similar since both are concerned with the life and lineage of the householder, although the second part places particular emphasis on Agni as the sacrificial fire and the bless ings that he can bring.
The hymn describes the kindling of Agni in the house so that the household fire will guard its prosperity and help it flourish. Agni will be the leader of the household (vs. 3) and the fire of the sacrifice (vs. 16). In particular, the householder desires sons and other males in his extended family, who will bring prosperity to the home and guarantee the householder’s continued lineage. These are the vīrā́ḥ
“men, heroes” (vss. 5, 11, 15, 19, 24), an abundance of whom the poet desires and the lack of whom he fears (19). The poet also mentions the náraḥ “men” or “fine men” (vss. 1, 4, 9, 10, 11), who in the first three of these verses are described as ritually serving Agni. That function is typical of náraḥ, who elsewhere in the R̥gveda are often priests. Here the vīrā́ḥ and náraḥ do not appear to be different people, however, since they are described in similar terms. So the náraḥ in 4c and the vīrā́ḥ in 15c are both “well born,” and the poet asks that the householder never suffer from the lack of either (11a and 19a).
The poet repeats the word nítya in reference to Agni as “our own” or “their own” (vss. 2, 12) and to “his own” offerings (vs. 17) and “our own” lineage (vs. 21). He also repeats svá, which has a similar sense, with reference to “our own” devotion (vs. 6) and the householder’s “own” kin (vs. 12). Through their repetition and meaning, the two words form a nexus between Agni and the householder, which connects the kindling and tending of the fire to the longevity of the householder’s family. Likewise in verse 17, as Geldner notes, the circumambulation of the Hotar with the fire around the fire-place is described as the procession of a bride and groom around the fire at a wedding. The imagery of the wedding affirms that Agni is now a member of the family of the householder.
More generally, the poet creates a close connection between Agni and humans by allowing either one to be the subject of verse 23cd and either one to be the object. That is, either the god Agni allows the priest to obtain goods from the gods and the patronage of a sacrificer, or the priest makes it possible for Agni to obtain goods for mortals and to become accessible to the patrons of the sacrifice.

01 अग्निं नरो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ न᳓रो दी᳓धितिभिर् अर᳓ण्योर्
ह᳓स्तच्युती जनयन्त प्रशस्त᳓म्
दूरेदृ᳓शं गृह᳓पतिम् अथर्यु᳓म्

02 तमग्निमस्ते वसवो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् अग्नि᳓म् अ᳓स्ते व᳓सवो नि᳓ ऋण्वन्
सुप्रतिच᳓क्षम् अ᳓वसे कु᳓तश् चित्
दक्षा᳓यियो यो᳓ द᳓म आ᳓स नि᳓त्यः

03 प्रेद्धो अग्ने - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रे᳓द्धो अग्ने दीदिहि पुरो᳓ नो᳓
ऽजस्रया सूर्म्या᳙+++(=ज्वलल्-लोह-स्थूणया)+++ यविष्ठ ।
त्वाँ᳓ श᳓श्वन्त उ᳓प यन्ति वा᳓जाः ।

04 प्र ते - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ते᳓ अग्न᳓यो अग्नि᳓भ्यो व᳓रं निः᳓
सुवी᳓रासः शोशुचन्त द्युम᳓न्तः
य᳓त्रा न᳓रः समा᳓सते सुजाताः᳓

05 दा नो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

दा᳓ नो अग्ने धिया᳓ रयिं᳓ सुवी᳓रं
सुअपत्यं᳓ सहसिय प्रशस्त᳓म्
न᳓ यं᳓ या᳓वा त᳓रति यातुमा᳓वान्

06 उप यमेति - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प य᳓म् ए᳓ति युवतिः᳓ सुद᳓क्षं
दोषा᳓ व᳓स्तोर् हवि᳓ष्मती घृता᳓ची
उ᳓प स्वइ᳓नम् अर᳓मतिर् वसूयुः᳓

07 विश्वा अग्नेऽप - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वा अग्ने अ᳓प दह अ᳓रातीर्
ये᳓भिस् त᳓पोभिर् अ᳓दहो ज᳓रूथम्
प्र᳓ निस्वरं᳓ चातयस्व अ᳓मीवाम्

08 आ यस्ते - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓स् ते अग्न इधते᳓ अ᳓नीकं
व᳓सिष्ठ शु᳓क्र दी᳓दिवः प᳓वाक
उतो᳓ न एभि᳓ स्तव᳓थैर् इह᳓ स्याः

09 वि ये - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ ये᳓ ते अग्ने भेजिरे᳓ अ᳓नीकम्
म᳓र्ता न᳓रः पि᳓त्रियासः पुरुत्रा᳓
उतो᳓ न एभिः᳓ सुम᳓ना इह᳓ स्याः

10 इमे नरो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ न᳓रो वृत्रह᳓त्येषु शू᳓रा
वि᳓श्वा अ᳓देवीर् अभि᳓ सन्तु मायाः᳓
ये᳓ मे धि᳓यम् पन᳓यन्त प्रशस्ता᳓म्

11 मा शूने - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ शू᳓ने अग्ने नि᳓ षदाम नॄणा᳓म्+
मा᳓शे᳓षसो अवी᳓रता प᳓रि त्वा
प्रजा᳓वतीषु दु᳓रियासु दुर्य

12 यमश्वी नित्यमुपयाति - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् अश्वी᳓ नि᳓त्यम् उपया᳓ति यज्ञ᳓म्
प्रजा᳓वन्तं सुअपत्यं᳓ क्ष᳓यं नः
स्व᳓जन्मना शे᳓षसा वावृधान᳓म्

13 पाहि नो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

पाहि᳓ नो अग्ने रक्ष᳓सो अ᳓जुष्टात्
पाहि᳓ धूर्ते᳓र् अ᳓ररुषो अघायोः᳓
तुवा᳓ युजा᳓ पृतनायूँ᳓र् अभि᳓ ष्याम्

14 सेदग्निरग्नीँरत्यस्त्वन्यान्यत्र वाजी - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

से᳓द् अग्नि᳓र् अग्नीँ᳓र् अ᳓ति अस्तु अन्या᳓न्
य᳓त्र वाजी᳓ त᳓नयो वीळु᳓पाणिः
सह᳓स्रपाथा अक्ष᳓रा समे᳓ति

15 सेदग्निर्यो वनुष्यतो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

से᳓द् अग्नि᳓र् यो᳓ वनुष्यतो᳓ निपा᳓ति
समेद्धा᳓रम् · अं᳓हस उरुष्या᳓त्
सुजाता᳓सः प᳓रि चरन्ति वीराः᳓

16 अयं सो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ सो᳓ अग्नि᳓र् आ᳓हुतः पुरुत्रा᳓
य᳓म् ई᳓शानः स᳓म् इ᳓द् इन्धे᳓ हवि᳓ष्मान्
प᳓रि य᳓म् ए᳓ति अध्वरे᳓षु हो᳓ता

17 त्वे अग्न - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवे᳓ अग्न आह᳓वनानि भू᳓रि
ईशाना᳓स आ᳓ जुहुयाम नि᳓त्या
उभा᳓ कृण्व᳓न्तो वहतू᳓ मिये᳓धे

18 इमो अग्ने - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

इमो᳓ अग्ने वीत᳓तमानि हव्या᳓
अ᳓जस्रो वक्षि देव᳓तातिम् अ᳓छ
प्र᳓ति न ईं सुरभी᳓णि वियन्तु

19 मा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो अग्ने अवी᳓रते प᳓रा दा
दुर्वा᳓ससे᳓ ऽमतये मा᳓ नो अस्यइ᳓
मा᳓ नः क्षुधे᳓ मा᳓ रक्ष᳓स ऋतावो
मा᳓ नो द᳓मे मा᳓ व᳓न आ᳓ जुहूर्थाः

20 नू मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ मे ब्र᳓ह्माणि अग्न उ᳓च् छशाधि
तुवं᳓ देव मघ᳓वद्भ्यः सुषूदः
रातउ᳓ सियाम उभ᳓यास आ᳓ ते
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः

21 त्वमग्ने सुहवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अग्ने सुह᳓वो रण्व᳓संदृक्
सुदीती᳓ सूनो सहसो दिदीहि
मा᳓ त्वे᳓ स᳓चा त᳓नये नि᳓त्य आ᳓ धङ्
मा᳓ वीरो᳓ अस्म᳓न् न᳓रियो वि᳓ दासीत्

22 मा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो अग्ने दुर्भृत᳓ये स᳓चैषु᳓
देव᳓इद्धेषु अग्नि᳓षु प्र᳓ वोचः
मा᳓ ते अस्मा᳓न् दुर्मत᳓यो भृमा᳓च् चिद्
देव᳓स्य सूनो सहसो नशन्त

23 स मर्तो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ म᳓र्तो अग्ने सुअनीक रेवा᳓न्
अ᳓मर्तिये य᳓ आजुहो᳓ति हव्य᳓म्
स᳓ देव᳓ता वसुव᳓निं दधाति
यं᳓ सूरि᳓र् अर्थी᳓ पृछ᳓मान ए᳓ति

24 महो नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

महो᳓ नो अग्ने सुवित᳓स्य विद्वा᳓न्
रयिं᳓ सूरि᳓भ्य आ᳓ वहा बृह᳓न्तम्
ये᳓न वयं᳓ सहसावन् म᳓देम
अ᳓विक्षितास आ᳓युषा सुवी᳓राः

25 नू मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ मे ब्र᳓ह्माणि अग्न उ᳓च् छशाधि
तुवं᳓ देव मघ᳓वद्भ्यः सुषूदः
रातउ᳓ सियाम उभ᳓यास आ᳓ ते
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः