०७५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘जीमूतस्य’ इत्येकोनविंशत्यृचं चतुर्दशं सूक्तं भारद्वाजस्य पायोरार्षम् । अनुक्रम्यते च - ‘ जीमूतस्येवैकोना पायुर्भारद्वाजः संग्रामाङ्गान्यृक्शोऽभितुष्टाव वर्म धनुर्ज्यामार्त्नी इषुधिं जगत्यर्धे सारथिमर्धे रश्मीनश्वान् रथं रथगोपान् जगत्यां लिङ्गोकदेवता द्वाभ्यामिषूः प्रतोदं हस्तघ्नं द्वाभ्यामिषुः पराः पङ्क्त्यादयो लिङ्गोक्तदेवताः संग्रामाशिषोऽन्त्यानुष्टुबृजीत आलाक्तेति च द्वे द्वे ’ इति । ’ रथे तिष्ठन् ’ ’ ब्राह्मणासः’ इति षष्ठीदशम्यौ जगत्यौ अन्त्या: यो नः स्वः इत्येषानुष्टुप् ‘ ऋजीते ’ ’ आ जङ्घन्ति ’ ’ आलाक्ता ’ ’ अवसृष्टा ’ ’ यो नः स्वः’ इति पञ्चानुष्टुभः ‘यत्र बाणाः’ इति पङ्क्तिः शिष्टास्त्रिष्टुभः । आद्यया वर्म स्तूयते, द्वितीयया धनुः, तृतीयया ज्या, चतुर्थ्या आर्त्नी, पञ्चम्या इषुधिः । अतः पञ्चानां वर्माद्या देवताः । षष्ठ्याः पूर्वार्धन सारथिः स्तूयते । अतः सोऽर्धस्तद्देवताक:। उत्तरार्धेन रश्मयः स्तूयन्ते । सप्तम्या अश्वाः, अष्टम्या रथः, नवम्या रथगोपाः । अतस्तास्तद्देवताकाः । ‘ ब्राह्मणासः’ इत्यस्यां ब्राझणपितृसोम्यद्यावापृथिवीपूषणो लिङ्गोक्तदेवताः । एकादशीद्वादश्यौ इषुस्तुतिरूपत्वात् इषुदेवताके । त्रयोदश्या प्रतोदः । चतुर्दश्या हस्तघ्नः । पञ्चदशीषोडश्यौ इषुदेवताके । सप्तदश्याः युद्धभूमिब्रह्मणस्पत्यदितिरूपा लिङ्गोक्तदेवताः । अष्टादश्याः कवचसोमवरुणा देवताः । अन्त्याया देवा ब्रह्म च देवताः । युद्धे अनेन सूक्तेन राजानं संनाहयेत् । तथा चाश्वलायनः- संग्रामे समुपोळ्हे राजानं संनाहयेदा त्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय जीमूतस्येव भवति प्रतीकमिति कवचं प्रयच्छेत् उत्तरया धनुरुत्तरां वाचयेत्स्वयं चतुर्थीं जपेत्पञ्चम्येषुधिं प्रयच्छेदभिप्रवर्तमाने षष्ठीं सप्तम्याश्वानष्टमीमिषूनवेक्षमाणं वाचयत्यहिरिव भोगैः पर्येति बाहुमिति तलं नह्यमानम् ’ ( आश्व. गृ. ३: १२ ) इति । तथा च ’ अवसृष्टा परा पतेतीषून्विसर्जयेद्यत्र बाणा: संपतन्तीति युध्यमानेषु जपेत् संशिष्याद्वा ’ ( आश्व. गृ. ३:१२ ) इति । अध्यायोपाकरणोत्सर्जनयोर्मण्डलान्तहोमे यो नः स्वः’ इत्येषा ( आश्व. गृ. ३. ५. ७ ) ॥

Jamison Brereton

75 (516)
Weapons
Pāyu Bhāradvāja
19 verses: triṣṭubh, except jagatī 6, 10; anuṣṭubh 12–13, 15–16, 19
This supplemental hymn attached to the end of the maṇḍala is one of the most memorable and delightful in the R̥gveda. It praises the weapons of battle and their parts, and it is structured as a list of riddles. Each weapon receives one verse; some times the weapon is named at the beginning of the verse (as in vs. 2), but more often it is found only toward the end, preceded by a riddling definition. Particularly strik ing are the verses in which the subject is described as a seductive woman or tender mother (vss. 3–4), a characterization that contrasts sharply with the violence of battle. (Weapons so described are feminine in grammatical gender.) In the following translation the weapon that is the answer to the riddle is italicized.
The hymn is more or less metrically unified for the first ten verses, and verse 10 reads like a hymn-final verse, breaking the riddle pattern to beg a collection of gods and ancestors for protection. The rest of the hymn alternates trimeter and dimeter meter, and although the riddling verses continue (vss. 11, 13–15), there is also direct address to the weapons themselves and prayers to various gods for protection. The more various character of this second part of the hymn has led some scholars to consider it an even later addition, although this does not seem a necessary conclu
sion. The final verse (19) calls down destruction on every type of enemy and affirms the primacy of the protective sacred formulation—as “inner armor,” thus paired with the outer armor (the same word várman) found in the first verse of the hymn. Thus, whether secondarily or not, the hymn has a faint ring structure.

Jamison Brereton Notes

Weapons Renou EVP XVI (1976): 109-11 provides notes; it is tr. in the earlier Hymnes spéculatifs (1956) but without philological notes.

It is possible that this hymn was tacked onto the maṇḍala because of tigmā́yudhau tigmáhetī “possessing sharp weapons and sharp missiles” at the end of the preceding hymn (VI.74.3), though this is not a necessary hypothesis. The first 14 vss. are repeated in a number of places in the early Vedic ritual texts as part of the Aśvamedha (e.g., VS XXIX.38-51, TS IV.6.6).

01 जीमूतस्येव भवति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जीमू᳓तस्येव भवति प्र᳓तीकं
य᳓द् वर्मी᳓ या᳓ति सम᳓दाम् उप᳓स्थे
अ᳓नाविद्धया तनु᳓वा जय त्वं᳓
स᳓ त्वा व᳓र्मणो महिमा᳓ पिपर्तु

02 धन्वना गा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ध᳓न्वना गा᳓ ध᳓न्वनाजिं᳓ जयेम
ध᳓न्वना तीव्राः᳓ सम᳓दो जयेम
ध᳓नुः श᳓त्रोर् अपकामं᳓ कृणोति
ध᳓न्वना स᳓र्वाः प्रदि᳓शो जयेम

03 वक्ष्यन्तीवेदा गनीगन्ति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वक्ष्य᳓न्तीवे᳓द् आ᳓ गनीगन्ति क᳓र्णम्
प्रियं᳓ स᳓खायम् परिषस्वजाना᳓
यो᳓षेव शिङ्क्ते वि᳓तता᳓धि ध᳓न्वञ्
जिया᳓ इयं᳓ स᳓मने पार᳓यन्ती

04 ते आचरन्ती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ आच᳓रन्ती स᳓मनेव यो᳓षा
माते᳓व पुत्र᳓म् बिभृताम् उप᳓स्थे
अ᳓प श᳓त्रून् विध्यतां संविदाने᳓
आ᳓र्त्नी इमे᳓ विष्फुर᳓न्ती अमि᳓त्रान्

05 बह्वीनां पिता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बह्वीना᳓म् पिता᳓ बहु᳓र् अस्य पुत्र᳓श्
चिश्चा᳓ कृणोति स᳓मनावग᳓त्य
इषुधिः᳓ स᳓ङ्काः पृ᳓तनाश् च स᳓र्वाः
पृष्ठे᳓ नि᳓नद्धो जयति प्र᳓सूतः

06 रथे तिष्टन्नयति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓थे ति᳓ष्ठन् नयति वाजि᳓नः पुरो᳓
य᳓त्र-यत्र काम᳓यते सुषारथिः᳓
अभी᳓शूनाम् महिमा᳓नम् पनायत
म᳓नः पश्चा᳓द् अ᳓नु यछन्ति रश्म᳓यः

07 तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तीव्रा᳓न् घो᳓षान् कृण्वते वृ᳓षपाणयो
अ᳓श्वा र᳓थेभिः सह᳓ वाज᳓यन्तः
अवक्रा᳓मन्तः प्र᳓पदैर् अमि᳓त्रान्
क्षिण᳓न्ति श᳓त्रूँर् अ᳓नपव्ययन्तः

08 रथवाहनं हविरस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रथवा᳓हनं हवि᳓र् अस्य ना᳓म
य᳓त्रा᳓युधं नि᳓हितम् अस्य व᳓र्म
त᳓त्रा र᳓थम् उ᳓प शग्मं᳓ सदेम
विश्वा᳓हा वयं᳓ सुमनस्य᳓मानाः

09 स्वादुषंसदः पितरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादुषंस᳓दः पित᳓रो वयोधाः᳓
कृछ्रेश्रि᳓तः श᳓क्तीवन्तो गभीराः᳓
चित्र᳓सेना इ᳓षुबला अ᳓मृध्राः
सतो᳓वीरा उर᳓वो व्रातसाहाः᳓

10 ब्राह्मणासः पितरः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रा᳓ह्मणासः पि᳓तरः सो᳓मियासः
शिवे᳓ नो द्या᳓वापृथिवी᳓ अनेह᳓सा
पूषा᳓ नः पातु दुरिता᳓द् ऋतावृधो
र᳓क्षा मा᳓किर् नो अघ᳓शंस ईशत

11 सुपर्णं वस्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णं᳓ वस्ते मृगो᳓ अस्या द᳓न्तो
गो᳓भिः सं᳓नद्धा पतति प्र᳓सूता
य᳓त्रा न᳓रः सं᳓ च वि᳓ च द्र᳓वन्ति
त᳓त्रास्म᳓भ्यम् इ᳓षवः श᳓र्म यंसन्

12 ऋजीते परि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ᳓जीते प᳓रि वृङ्धि नो
अ᳓श्मा भवतु नस् तनूः᳓
सो᳓मो अ᳓धि ब्रवीतु नो
अ᳓दितिः श᳓र्म यछतु

13 आ जङ्घन्ति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ जङ्घन्ति सा᳓नु एषां
जघ᳓नाँ उ᳓प जिघ्नते
अ᳓श्वाजनि प्र᳓चेतसो
अ᳓श्वान् सम᳓त्सु चोदय

14 अहिरिव भोगैः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हिर् ऽव° भोगइः᳓ प᳓रि एति बाहुं᳓
जिया᳓या हेति᳓म् परिबा᳓धमानः
हस्तघ्नो᳓ वि᳓श्वा वयु᳓नानि विद्वा᳓न्
पु᳓मान् पु᳓मांसम् प᳓रि पातु विश्व᳓तः

15 आलाक्ता या - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓लाक्ता या᳓ रु᳓रुशीर्ष्णि
अ᳓थो य᳓स्या अ᳓यो मु᳓खम्
इद᳓म् पर्ज᳓न्यरेतस
इ᳓ष्वै देव्यइ᳓ बृह᳓न् न᳓मः

16 अवसृष्था परा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वसृष्टा प᳓रा पत
श᳓रव्ये ब्र᳓ह्म-सँशिता ।
ग᳓च्छामि᳓त्रान् प्र᳓ पद्यस्व
मा᳓मी᳓षां कं᳓चनो᳓च्छिषः

17 यत्र बाणाः - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त्र बाणाः᳓ सम्प᳓तन्ति
कुमारा᳓ विशिखा᳓ इव
त᳓त्रा नो ब्र᳓ह्मणस् प᳓तिर्
अ᳓दितिः श᳓र्म यछतु
विश्वा᳓हा श᳓र्म यछतु

18 मर्माणि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓र्माणि ते व᳓र्मणा छादयामि
सो᳓मस् त्वा रा᳓जामृ᳓तेना᳓नु वस्ताम्
उरो᳓र् व᳓रीयो व᳓रुणस् ते कृणोतु
ज᳓यन्तं त्वा अ᳓नु देवा᳓ मदन्तु

19 यो नः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ नः सुवो᳓ अ᳓रणो
य᳓श् च नि᳓ष्ट्यो जि᳓घांसति
देवा᳓स् तं᳓ स᳓र्वे धूर्वन्तु
ब्र᳓ह्म व᳓र्म म᳓मा᳓न्तरम्