०७३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यो अद्रिभित्’ इति तृचं द्वादशं सूक्तं बार्हस्पत्यं भरद्वाजस्यार्षं त्रैष्टुभम् । तथा चानुक्रम्यते – ‘यो अद्रिभित्तृचं बार्हस्पत्यम् ’ इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे स्तोमातिशंसनार्थमिदं सूक्तम् । सूत्र्यते हि— यो अद्रिभिद्यज्ञे दिव इति सूक्ते ’ (आश्व. श्रौ. ७. ९ ) इति । वाजपेये बार्हस्पत्ये चरौ ‘बृहस्पतिः समजयद्वसूनीति — त्वामीळते अजिरं दूत्याय’ ( आश्व. श्रौ. ९. ९) इति ।।

Jamison Brereton

73 (514)
Br̥haspati
Bharadvāja Bārhaspatya
3 verses: triṣṭubh
In this brief hymn Br̥haspati is credited with many of Indra’s exploits and is described with Indraic vocabulary. It is only in the very last word of the hymn “with his chants” (arkaíḥ) that the particular character of Br̥haspati and his particular role in the opening of the Vala cave, that of singer and formulator, are referred to.

Jamison Brereton Notes

Bṛhaspati Renou EVP XV.66-67.

01 यो अद्रिभित्प्रथमजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् ।
द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥

02 जनाय चिद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ ।
घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥

03 बृहस्पतिः समजयद्वसूनि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः ।
अ॒पः सिषा॑स॒न्त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥