०७२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इन्द्रासोमा महि ’ इति पञ्चर्चमेकादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमिन्द्रासोमदेवताकम् । अनुक्रम्यते च - ’ इन्द्रासोमा पञ्चैन्द्रासोमम् ’ इति । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

72 (513)
Indra and Soma
Bharadvāja Bārhaspatya
5 verses: triṣṭubh
Each verse in this brief hymn begins with a vocative addressing the two recipients of the hymn, joined in a dual dvandva compound. Each of the verses recounts one or more of Indra’s cosmogonic deeds or his beneficial acts for mankind, here ascribed equally to both gods. Since Indra needs to drink soma in order to accomplish his feats, this sharing of credit is not surprising. Some of the acts are expressed in the past tense, some in the present, even those that belong to the mythical past like the smashing of the serpent (vs. 3). The language is straight
forward, even in the expression of the familiar paradox in verse 4 of the cooked milk found in the raw cows.

01 इन्द्रासोमा महि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रासोमा म᳓हि त᳓द् वाम् महित्वं᳓
युव᳓म् महा᳓नि प्रथमा᳓नि चक्रथुः
युवं᳓ सू᳓र्यं विविद᳓थुर् युवं᳓ सु᳓वर्
वि᳓श्वा त᳓मांसि अहतं निद᳓श् च

02 इन्द्रासोमा वासयथ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रासोमा वास᳓यथ उषा᳓सम्
उ᳓त् सू᳓रियं नयथो ज्यो᳓तिषा सह᳓
उ᳓प द्यां᳐᳓ स्कम्भ᳓थु स्क᳓म्भनेन
अ᳓प्रथतम् पृथिवी᳓म् मात᳓रं वि᳓

03 इन्द्रासोमावहिमपः परिष्टाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रासोमाव् अ᳓हिम् अपः᳓ परिष्ठां᳓
हथो᳓ वृत्र᳓म् अ᳓नु वां द्यउ᳓र् अमन्यत
प्र᳓ अ᳓र्णांसि ऐरयतं नदी᳓नाम्
आ᳓ समुद्रा᳓णि पप्रथुः पुरू᳓णि

04 इन्द्रासोमा पक्वमामास्वन्तर्नि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रासोमा पक्व᳓म् आमा᳓सु अन्त᳓र्
नि᳓ ग᳓वाम् इ᳓द् दधथुर् वक्ष᳓णासु
जगृभ᳓थुर् अ᳓नपिनद्धम् आसु
रु᳓शच् चित्रा᳓सु ज᳓गतीषु अन्तः᳓

05 इन्द्रासोमा युवमङ्ग - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रासोमा युव᳓म् अङ्ग᳓ त᳓रुत्रम्
अपत्यसा᳓चं श्रु᳓तियं रराथे
युवं᳓ शु᳓ष्मं न᳓रियं चर्षणि᳓भ्यः
सं᳓ विव्यथुः पृतनाषा᳓हम् उग्रा