०७१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ उदु ष्य देवः’ इति षड़ृचं दशमं सूक्तं भरद्वाजस्यार्षं सवितृदेवताकम् । अद्यास्तिस्रो जगत्यश्चतुर्थ्याद्यास्तिस्रस्त्रिष्टुभः । तथा चानुक्रान्तम् - उदु ष्य सावित्रं त्रित्रिष्टुबन्तम् ’ इति । सूक्तविनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि वैश्वदेवशस्त्रे आद्यस्तृचः सावित्रसूक्तस्थान आवपनीयः । सूत्रितं च – ‘उदु ष्य देवः सविता हिरण्ययेति तिस्रस्ते हि द्यावापृथिवी ’ ( आश्व. श्रौ. ७ . ४ ) इति । बृहस्पतिसवेऽपि वैश्वदेवशस्त्रे सावित्रसूक्तस्थान एष तृचः । सूत्रितं च - उदु ष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत् ’ (आश्व. श्रौ. ९ . ५) इति । व्यूळ्हे पञ्चमेऽहनि वैश्वदेवशस्रेष् ‘उदु ष्य देवः सविता दमूनाः ’ इति तृचः सावित्रनिविद्धानार्थः । सूत्रितं च - ‘उदु ष्य देवः सविता दमूना इति तिस्रः ’ ( आश्व. श्रौ. ८ . ८ ) इति । वैश्वदेवपर्वणि सावित्रद्वादशकपालस्य ’ वाममद्य ’ इति याज्या । सूत्रितं च – वाममद्य सवितर्वाममु श्वः पूषन्तव व्रते वयम् ’ ( आश्व. श्रौ. २. १६ ) इति ॥

Jamison Brereton

71 (512)
Savitar
Bharadvāja Bārhaspatya
6 verses: jagatī 1–3, triṣṭubh 4–6
The two halves of this hymn (vss. 1–3, 4–6) are distinguished by meter, and in fact they appear to have been originally two hymns, which pattern together in vocabu lary and themes. Geldner suggests that the first is a morning hymn, the second an evening hymn.
The parallelism is especially clear at the beginning: the first verses of each (1, 4) begin identically: “Up this god Savitar…” (úd u ṣyá deváḥ savitā́…) and fol low with a mention of his golden arms/hands. The second verses (2, 5) are each appropriate for the time of day they represent: in the morning hymn (vs. 2) Savitar impels the creatures forth to their daily activities, while in the evening hymn (vs. 5) he brings them to rest. The third verses (3, 6) make the expected pleas for help and benefit from the god.

Jamison Brereton Notes

Savitar Renou EVP XV.26ff. On the division into two hymns, see published introduction, as well as Oldenberg and Geldner (both minimally).

01 उदु ष्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ ष्य᳓ देवः᳓ सविता᳓ हिरण्य᳓या
बाहू᳓ अयंस्त स᳓वनाय सुक्र᳓तुः
घृते᳓न पाणि᳓ अभि᳓ प्रुष्णुते मखो᳓
यु᳓वा सुद᳓क्षो र᳓जसो वि᳓धर्मणि

02 देवस्य वयम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

देव᳓स्य वयं᳓ सवितुः᳓ स᳓वीमनि
श्रे᳓ष्ठे सियाम व᳓सुनश् च दाव᳓ने
यो᳓ वि᳓श्वस्य द्विप᳓दो य᳓श् च᳓तुष्पदो
निवे᳓शने प्रसवे᳓ चा᳓सि भू᳓मनः

03 अदब्धेभिः सवितः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दब्धेभिः सवितः पायु᳓भिष् ट्वं᳓
शिवे᳓भिर् अद्य᳓ प᳓रि पाहि नो ग᳓यम्+++(=गृहम्)+++ ।
हि᳓रण्य-जिह्वः सुविता᳓य++(=सु᳓+इ᳓ता᳓य᳓)+++ न᳓व्यसे
र᳓क्षा, मा᳓किर् नो अघ᳓शंस ईशत ॥

04 उदु ष्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ ष्य᳓ देवः᳓ सविता᳓ द᳓मूना
हि᳓रण्यपाणिः प्रतिदोष᳓म् अस्थात्
अ᳓योहनुर् यजतो᳓ मन्द्र᳓जिह्व
आ᳓ दाशु᳓षे सुवति भू᳓रि वाम᳓म्

05 उदू अयाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् ऊ अयाँ उपवक्ते᳓व बाहू᳓
हिरण्य᳓या सविता᳓ सुप्र᳓तीका
दिवो᳓ रो᳓हांसि अरुहत् पृथिव्या᳓
अ᳓रीरमत् पत᳓यत् क᳓च् चिद् अ᳓भ्वम्

06 वाममद्य सवितर्वाममु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वाम᳓म् अद्य᳓ सवितर्, वाम᳓म् उ श्वो᳓,
दिवे᳓दिवे, वाम᳓म् अस्म᳓भ्यं सावीः
वाम᳓स्य हि᳓ क्ष᳓यस्य+++(=निवासस्य)+++ देव भू᳓रेर्
अया᳓+++(=अनया)+++ धिया᳓ वाम-भा᳓जः स्याम