०७०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

घृतवती भुवनानाम् ’ इति षड़ृचं नवमं सूक्तं भरद्वाजस्यार्षं जागतं द्यावापृथिवीदेवताकम् । तथा चानुक्रम्यते - ‘ घृतवती षट् द्यावापृथिवीयं जागतम् ’ इति । आभिप्लविके पञ्चमेऽहनि वैश्वदेवशस्त्र आद्यस्तृचो द्यावापृथिव्यनिविद्धानार्थः । सूत्रितं च – ‘घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिरिति तृचौ ’ ( आश्व. श्रौ. ७. ७) इति । बृहस्पतिसवेऽपि वैश्वदेवशस्त्र एष तृचः । सूत्रितं च ( आश्व. श्रौ. ९ . ५ )। आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे ‘ घृतेन द्यावापृथिवी ’ इति तिस्रो द्यावापृथिव्यनिविद्धानार्थाः । सूत्रितं च- ’ घृतेन द्यावापृथिवी इति तिस्रोऽनश्वो जातः’ (आश्व. श्रौ. ७. ७) इति ।

Jamison Brereton

70 (511)
Heaven and Earth
Bharadvāja Bārhaspatya
6 verses: jagatī
This celebration of Heaven and Earth associates them with all sorts of beneficial liquids. The first word in the hymn is “ghee,” and in the rest of that verse we find milk, honey, and semen, all of which recur in the hymn: note especially the parallel verses 4 and 5 devoted to ghee and honey respectively. Besides these liquid endow
ments, the physical qualities of the two divinities are barely mentioned; it is instead their status as objects of worship and praise at the sacrifice and their ability to grant rewards to us that preoccupy the poet.

Jamison Brereton Notes

Heaven and Earth Renou XVP.121ff.

01 घृतवती भुवनानामभिश्रियोर्वि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥

02 असश्चन्ती भूरिधारे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते ।
राज॑न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु॑र्हितम् ॥

03 यो वामृजवे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो॑ द॒दाश॑ धिषणे॒ स सा॑धति ।
प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ॥

04 घृतेन द्यावापृथिवी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ ।
उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥

05 मधु नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते ।
दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य॑म् ॥

06 ऊर्जं नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा ।
सं॒र॒रा॒णे रोद॑सी वि॒श्वश॑म्भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वताम् ॥