०६९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सं वां कर्मणा ’ इत्यष्टर्चमष्टमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावैष्णवम् । अनुक्रम्यते च – ‘ सं वामष्टावैन्द्रावैष्णवम् ’ इति । उक्थ्ये तृतीयसवनेऽच्छावाकशस्त्र एतत् सूक्तम् । सूत्र्यते हि - सं वां कर्मणेन्द्राविष्णू मदपती मदानामिति याज्या ’ ( आश्व. श्रौ. ६. १ ) इति । सोमातिरेके प्रातःसवने नैमित्तिके शस्त्रे परिहिते सति गाणगारिमते ‘सं वाम् ’ इति तस्य शस्त्रयाज्या । सूत्रितं च – ‘ ऐन्द्रावैष्णव्येति गाणगारिदैवतप्रधानत्वात् सं वां कर्मणा समिषा हिनोमि’ (आश्व. श्रौ. ६. ७ ) इति । सोमातिरेके माध्यंदिनसवने ‘ या विश्वासाम् ’ इत्येषा शस्त्रयाज्या । सूत्रितं च – ‘या विश्वासां जनितारा मतीनामिति याज्या ’ ( आश्व. श्रौ. ६. ७) इति । उक्थ्ये तृतीयसवनेऽच्छावाकस्य ‘इन्द्राविष्णू मदपती ’ इति शस्त्रयाज्या । सूत्रं तूदाहृतम् । तृतीयसवनेऽच्छावाकस्य ’ इन्द्राविष्णू पिबतम् ’ इति प्रस्थितयाज्या। सूत्रितं च - ‘ इन्द्राविष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदसे ’ (आश्व. श्रौ. ५. ५) इति ॥

Jamison Brereton

69 (510)
Indra and Viṣṇu
Bharadvāja Bārhaspatya
8 verses: triṣṭubh
The focus of most of this hymn is entirely ritual, with the two divine recipients of the hymn treated as a unit. The gods are repeatedly urged to come together to the sacrifice, to enjoy the various forms of praise, and to drink the soma—as well as to give us wealth in return. Only one verse (4) is devoted to the gods’ deeds, with the “wide striding” that is Viṣṇu’s best-known exploit attributed to both of them. Their unity is reinforced by the grammar. Every verse in this hymn contains a voca
tive address to the two gods, always in a dvandva compound, except for the final verse (8).
In that verse, the two gods are grammatically separated though still addressed in the vocative, and this grammatical change marks a sharp change in conception as well. Though it is emphasized in the first half of the verse that both have con quered and not been conquered, in the second half it is said that they contended with each other, but in the end divided the stake of a thousand (cows?) in thirds, with each taking a part. As Geldner points out, this dispute between Indra and Viṣṇu is referred to a number of times in early Vedic prose and later, and according to the Taittirīya Saṃhitā (VII.1.5.5) Indra received two thirds of the stake, Viṣṇu one third. The hymn thus springs a surprise at its end, by this glancing allusion to strife between the two gods who were depicted throughout the rest of the hymn as an indissoluble pair.
The language and style of most of the hymn are unremarkable and somewhat repetitive. Noteworthy are verses 2 and 3, with parallel structures in their second halves, deploying parallel puns on day (the sun’s rays) and night, homonymous with words referring to verbal productions at the sacrifice.

01 सं वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ वां क᳓र्मणा स᳓म् इषा᳓ हिनोमि
इ᳓न्द्राविष्णू अ᳓पसस् पारे᳓ अस्य᳓
जुषे᳓थां यज्ञं᳓ द्र᳓विणं च धत्तम्
अ᳓रिष्टैर् नः पथि᳓भिः पार᳓यन्ता

02 या विश्वासाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ वि᳓श्वासां जनिता᳓रा मतीना᳓म्
इ᳓न्द्रावि᳓ष्णू कल᳓शा सोमधा᳓ना
प्र᳓ वां गि᳓रः शस्य᳓माना अवन्तु
प्र᳓ स्तो᳓मासो गीय᳓मानासो अर्कइः᳓

03 इन्द्राविष्णू मदपती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राविष्णू मदपती मदानाम्
आ᳓ सो᳓मं यातं द्र᳓विणो द᳓धाना
सं᳓ वाम् अञ्जन्तु अक्तु᳓भिर् मतीनां᳓
सं᳓ स्तो᳓मासः शस्य᳓मानास उक्थइः᳓

04 आ वामश्वासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वाम् अ᳓श्वासो अभिमातिषा᳓ह
इ᳓न्द्राविष्णू सधमा᳓दो वहन्तु
जुषे᳓थां वि᳓श्वा ह᳓वना मतीना᳓म्
उ᳓प ब्र᳓ह्माणि शृणुतं गि᳓रो मे

05 इन्द्राविष्णू तत्पनयाय्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राविष्णू त᳓त् पनया᳓यियं वां
सो᳓मस्य म᳓द उरु᳓ चक्रमाथे
अ᳓कृणुतम् अन्त᳓रिक्षं व᳓रीयो
अ᳓प्रथतं जीव᳓से नो र᳓जांसि

06 इन्द्राविष्णू हविषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राविष्णू हवि᳓षा वावृधाना᳓
अ᳓ग्राद्वाना न᳓मसा रातहव्या
घृ᳓तासुती द्र᳓विणं धत्तम् अस्मे᳓
समुद्र᳓ स्थः कल᳓शः सोमधा᳓नः

07 इन्द्राविष्णू पिबतम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राविष्णू पि᳓बतम् म᳓ध्वो अस्य᳓
सो᳓मस्य दस्रा जठ᳓रम् पृणेथाम्
आ᳓ वाम् अ᳓न्धांसि मदिरा᳓णि अग्मन्न्
उ᳓प ब्र᳓ह्माणि शृणुतं ह᳓वम् मे

08 उभा जिग्यथुर्न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उभा᳓ जिग्यथुर् न᳓ प᳓रा जयेथे
न᳓ प᳓रा जिग्ये कतर᳓श् चनइ᳓नोः
इ᳓न्द्रश् च विष्णो य᳓द् अ᳓पस्पृधेथां
त्रेधा᳓ सह᳓स्रं वि᳓ त᳓द् ऐरयेथाम्