०६८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ श्रुष्टी वाम्’ इत्येकादशर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावरुणम् । तथा चानुक्रम्यते - ‘ श्रुष्टी वामैन्द्रावरुणमुपान्त्ये जगत्यौ ’ इति । ‘ प्र सम्राजे, इन्द्रावरुणा सुतपौ ’ इत्येते जगत्यौ शिष्टास्त्रिष्टुभः । इन्द्रावरुणौ देवता । आभिप्लविकेषूक्थ्येषु तृतीयसवने होत्रकशस्त्रेषु स्तोमवृद्धौ मैत्रावरुणस्येदमावापार्थं सूक्तम् । सूत्रितं च - श्रुष्टी वां यज्ञो युवां नरा ’ ( आश्व. श्रौ. ७. ९) इति । तृतीयसवने ‘ इन्द्रावरुणा सुतपाविमं सुतम् ’ इति प्रशास्तुः प्रस्थितयाज्या । सूत्रितं च - इन्द्रावरुणा सुतपाविमं सुतमिन्द्रश्च सोमं पिबतं बृहस्पते ’ ( आश्व. श्रौ. ५. ५) इति । उक्थ्ये तृतीयसवने ‘ इन्द्रावरुणा मधुमत्तमस्य ’ इति मैत्रावरुणस्य शस्त्रयाज्या । सूत्रितं च - ‘ इन्द्रावरुणा मधुमत्तमस्येति याज्या ’ (आश्व. श्रौ. ६. १) इति ।।

Jamison Brereton

68 (509)
Indra and Varuṇa
Bharadvāja Bārhaspatya
11 verses: triṣṭubh, except jagatī 9–10
The theme of ritual reciprocity dominates here, with praise of the two dedi cands fairly spare, whether individual or joint. The message is simple: the piously performed sacrifice that we offer to the two gods should be generously rewarded with wealth.
The sacrifice is announced in the first verse, as an enticement to bring the two gods here. The praise, such as it is, comes in the next three verses, a series of super latives characterizing them both in verse 2, a contrastive glance at their respective functions in the second half of verse 3, and an assertion that the two are preeminent even among the other gods in verse 4. (Verse 4 is also noteworthy for the gendered description of the gods; female deities are not usually given recognition when the gods in general are mentioned.)
Wealth is the target of the middle verses (5–8), wealth for priests and patrons alike. The word rayí “wealth” is prominent in all four verses.
The final verses (9–11) depict the here-and-now of the sacrifice, happening in real time, as it were, signaled by an occurrence of a form of the annunciatory near-deictic pronoun (“here is/this here”) in each verse (ayám 9c, imám 10a, idám 11c). The gods are present at our sacrifice and urged to drink the soma formally announced to them.

Jamison Brereton Notes

Indra and Varuṇa Pace Oldenberg, I do not think this consists of two (much less three) hymns, with 1-8 forming one, 9-11, or 9, 10-11, one or two more. As indicated in the published introduction, the last three vss. focus on the ritual here-and-now, but this topic-switch from praise and request to ritual exhortation is easily accommodated within the same hymn. That 9- 10 are in Jagatī in contrast to the Triṣṭubh in the rest of the hymn is not sufficient to signal a hymn break, esp. since 9-10 doesn’t match either of Oldenberg’s suggested groupings.

01 श्रुष्थी वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुष्टी᳓ वां यज्ञ᳓ उ᳓द्यतः सजो᳓षा
मनुष्व᳓द् वृक्त᳓बर्हिषो य᳓जध्यै
आ᳓ य᳓ इ᳓न्द्राव᳓रुणाव् इषे᳓ अद्य᳓
महे᳓ सुम्ना᳓य मह᳓ आवव᳓र्तत्

02 ता हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ हि᳓ श्र᳓यिष्ठा+ देव᳓ताता तुजा᳓
शू᳓राणां᳐ श᳓विष्ठा ता᳓ हि᳓ भूत᳓म्
मघो᳓ना᳐म् मं᳓हिष्ठा तुविशु᳓ष्म
ऋते᳓न वृत्रतु᳓रा स᳓र्वसेना

03 ता गृणीहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ गृणीहि नमसि᳓येभिः शूषइः᳓
सुम्ने᳓भिर् इ᳓न्द्राव᳓रुणा चकाना᳓
व᳓ज्रेणान्यः᳓ श᳓वसा ह᳓न्ति वृत्रं᳓
सि᳓षक्ति अन्यो᳓ वृज᳓नेषु वि᳓प्रः

04 ग्नाश्च यन्नरश्च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ग्ना᳐᳓श् च य᳓न् न᳓रश् च वावृध᳓न्त
वि᳓श्वे देवा᳓सो नरां᳐᳓ स्व᳓गूर्ताः
प्र᳓ एभ्य इन्द्रावरुणा महित्वा᳓
दियउ᳓श् च · पृथिवि भूतम् उर्वी᳓

05 स इत्सुदानुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ इ᳓त् सुदा᳓नुः सुअ᳓वाँ ऋता᳓वा
इ᳓न्द्रा यो᳓ वां वरुण दा᳓शति त्म᳓न्
इषा᳓ स᳓ द्विष᳓स् तरेद् दा᳐᳓स्वान्
वं᳓सद् रयिं᳓ रयिव᳓तश् च ज᳓नान्

06 यं युवम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं᳓ युवं᳓ दाशु᳓अध्वराय देवा
रयिं᳓ धत्थो᳓ व᳓सुमन्तम् पुरुक्षु᳓म्
अस्मे᳓ स᳓ इन्द्रावरुणाव् अ᳓पि ष्यात्
प्र᳓ यो᳓ भन᳓क्ति वनु᳓षाम् अ᳓शस्तीः

07 उत नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नः सुत्रातरो᳓ देव᳓गोपाः
सूरि᳓भ्य इन्द्रावरुणा रयिः᳓ ष्यात्
ये᳓षां᳐ शु᳓ष्मः पृ᳓तनासु साह्वा᳓न्
प्र᳓ सद्यो᳓ द्युम्ना᳓ तिर᳓ते त᳓तुरिः

08 नू न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳐᳓ न इन्द्रावरुणा गृणाना᳓
पृङ्क्तं᳓ रयिं᳓ सौश्रवसा᳓य देवा
इत्था᳓ गृण᳓न्तो महि᳓नस्य श᳓र्धो
अपो᳓ न᳓ नावा᳓ दुरिता᳓ तरेम

09 प्र सम्राजे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सम्रा᳓जे बृहते᳓ म᳓न्म नु᳓ प्रिय᳓म्
अ᳓र्च देवा᳓य व᳓रुणाय सप्र᳓थः
अयं᳓ य᳓ उर्वी᳓ महिना᳓ म᳓हिव्रतः
क्र᳓त्वा विभा᳓ति अज᳓रो न᳓ शोचि᳓षा

10 इन्द्रावरुणा सुतपाविमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रावरुणा सुतपाव् इमं᳓ सुतं᳓
सो᳓मम् पिबतम् म᳓दियं धृतव्रता
युवो᳓ र᳓थो अध्वरं᳓ देव᳓वीतये
प्र᳓ति स्व᳓सरम् उ᳓प याति पीत᳓ये

11 इन्द्रावरुणा मधुमत्तमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रावरुणा म᳓धुमत्तमस्य
वृ᳓ष्णः सो᳓मस्य वृषणा᳓ वृषेथाम्
इदं᳓ वाम् अ᳓न्धः प᳓रिषिक्तम् अस्मे᳓
आस᳓द्यास्मि᳓न् बर्हि᳓षि मादयेथाम्