०६३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘क्व त्या ’ इत्येकादशर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षम् । अत्रेयमनुक्रमणिका - ‘क्व त्यैकपदान्तं त्रैष्टुभम् ’ इति । ‘ आ वां सुम्ने ’ इत्येकादशी एकपदा त्रिष्टुप् शिष्टास्त्रिष्टुभः । ‘आश्विनं तु ’ इत्युक्तत्वादस्यापि सूक्तस्याश्विनौ देवता । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दस्युक्तो विनियोगः ॥

Jamison Brereton

63 (504)
Aśvins
Bharadvāja Bārhaspatya
11 verses: triṣṭubh, except ekapadā 11
The first four verses of this hymn are divided more or less equally between the invitation to and journey of the Aśvins to our sacrifice (vss. 1–2) and the sacrifice itself (vss. 3–4). The next two verses (5–6) enter mythological territory: the journey of Sūryā, daughter of the Sun, on the Aśvins’ chariot along with them. This mytho
logical journey returns us to the actual journey of today (vs. 7) and the hopes we have of these gods when they attend our sacrifice (vs. 8). The final two verses (9–10) are a dānastuti, naming a number of the patrons of the poet, Bharadvāja, with the single pāda of verse 11 expressing his hope for the Aśvins’ favor to both himself and his patrons at the place of sacrifice.

Jamison Brereton Notes

Aśvins The hymn contains many metrical irregularities and a marked tendency towards 10-syl. lines. See Oldenberg for details and disc.

01 क्वट् त्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् ।
आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥

02 अरं मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अरं॑ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अन्धः॑ ।
परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ॥

03 अकारि वामन्धसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अका॑रि वा॒मन्ध॑सो॒ वरी॑म॒न्नस्ता॑रि ब॒र्हिः सु॑प्राय॒णत॑मम् ।
उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष॑न्तो॒ अद्र॑य आञ्जन् ॥

04 ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे॑ति जू॒र्णिनी॑ घृ॒ताची॑ ।
प्र होता॑ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥

05 अधि श्रिये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं॑ तस्थौ पुरुभुजा श॒तोति॑म् ।
प्र मा॒याभि॑र्मायिना भूत॒मत्र॒ नरा॑ नृतू॒ जनि॑मन्य॒ज्ञिया॑नाम् ॥

06 युवं श्रीभिर्दर्शताभिराभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्यायाः॑ ।
प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ॥

07 आ वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वां॒ वयोऽश्वा॑सो॒ वहि॑ष्ठा अ॒भि प्रयो॑ नासत्या वहन्तु ।
प्र वां॒ रथो॒ मनो॑जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ॥

08 पुरु हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्राम् ।
स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥

09 उत म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा ।
शा॒ण्डो दा॑द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥

10 सं वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं वां॑ श॒ता ना॑सत्या स॒हस्राश्वा॑नां पुरु॒पन्था॑ गि॒रे दा॑त् ।
भ॒रद्वा॑जाय वीर॒ नू गि॒रे दा॑द्ध॒ता रक्षां॑सि पुरुदंससा स्युः ॥

11 आ वाम् - एकपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वां॑ सु॒म्ने वरि॑मन्त्सू॒रिभिः॑ ष्याम् ॥