०५८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ शुक्रं ते ’ इति चतुर्ऋचं नवमं सूक्तं भरद्वाजस्यार्षं पौष्णम् । द्वितीया जगती शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं – ‘ शुक्रं चतुष्कं द्वितीया जगती ’ इति । वैश्वदेवे पर्वणि पौष्णस्य हविषः ‘ शुक्रं ते ’ इति याज्या। सूत्रितं च – शुक्रं ते अन्यद्यजतं ते अन्यदिहेह वः स्वतवसः ’ (आश्व. श्रौ. २:१६.११ ) इति । एकादशिनस्य पौष्णस्य पशोर्वपाया एषैव याज्या । सूत्रितं च - शुक्रं ते अन्यद्यजतं ते अन्यत्प्रपथे पथामजनिष्ट पूषा ’ (आश्व. श्रौ. ३. ७) इति । प्रवर्ग्याभिष्टवेऽप्येषा । सूत्रितं च - ‘ शुक्र ते अन्यद्यजतं ते अन्यदपश्यं गोपामनिपद्यमानम् ’ ( आश्व. श्रौ. ४. ६ ) इति ॥

Jamison Brereton

58 (499)
Pūsaṇ
Bharadvāja Bārhaspatya
4 verses: triṣṭubh, except jagatī 2
This last hymn in the Pūṣan cycle in Maṇḍala VI is the only one in trimeter meter, rather than the less formal dimeter. It pictures Pūṣan in a more cosmic context than the previous hymns and ascribes rather more powers to him. The final verse (4), probably with verse 3, refers to the apparent marriage of Pūṣan to Sūryā, daughter of the Sun, a tale alluded to in passing earlier in this cycle.854 VI.59

Jamison Brereton Notes

Pūṣan As noted in the published introduction, the style and in part the register of this, the only trimeter hymn in the Pūṣan cycle, is more elevated than the rest. Still, characteristic lexical items – ajā́śva- ‘having goats for horses’, áṣṭra- ‘goad – are found.

01 शुक्रं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥

02 अजाश्वः पशुपा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः ।
अष्ट्रां॑ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥

03 यास्ते पूषन्नावो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥

04 पूषा सुबन्धुर्दिव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वञ्च॑म् ॥