०५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सं पूषन् ’ इति दशर्चं पञ्चमं सूक्तं भरद्वाजस्यार्षं पौष्णं गायत्रम् । ‘ सं पूषन् ’ इत्यनुक्रान्तम् । नष्टधनमन्विच्छता पुरुषेणैतज्जप्यम् । सूत्रितं च – सं पूषन्विदुषेति नष्टमधिजिगमिषन्मूळ्हो वा ’ ( आश्व. गृ. ३. ७. ९) इति ॥

Jamison Brereton

54 (495)
Pūsaṇ
Bharadvāja Bārhaspatya
10 verses: gāyatrī
Pūṣan is here in his role as protector of livestock and finder of lost things, especially cows.

Jamison Brereton Notes

Pūṣan A remarkably unproblematic hymn on the whole.

01 सं पूषन्विदुषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् पूषन् विदु᳓षा नय
यो᳓ अ᳓ञ्जसानुशा᳓सति
य᳓ एवे᳓द᳓म् इ᳓ति ब्र᳓वत्

02 समु पूष्णा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् उ पूष्णा᳓ गमेमहि
यो᳓ गृहाँ᳓ अभिशा᳓सति
इम᳓ एवे᳓ति च ब्र᳓वत्

03 पूष्णश्चक्रं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पूष्ण᳓श् चक्रं᳓ न᳓ रिष्यति
न᳓ को᳓शो अ᳓व पद्यते
नो᳓ अस्य व्यथते पविः᳓

04 यो अस्मै - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अस्मै हवि᳓षा᳓विधन्
न᳓ त᳓म् पूषा᳓पि मृष्यते
प्रथमो᳓ विन्दते व᳓सु

05 पूषा गा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पूषा᳓ गा᳓ अ᳓नु एतु नः
पूषा᳓ रक्षतु अ᳓र्वतः
पूषा᳓ वा᳓जं सनोतु नः

06 पूषन्ननु प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पू᳓षन्न् अ᳓नु प्र᳓ गा᳓ इहि
य᳓जमानस्य सुन्वतः᳓
अस्मा᳓कं स्तुवता᳓म् उत᳓

07 माकिर्नेशन्माकीं रिषन्माकीम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓किर् नेशन् मा᳓कीं रिषन्
मा᳓कीं सं᳓ शारि के᳓वटे
अ᳓था᳓रिष्टाभिर् आ᳓ गहि

08 शृण्वन्तं पूषणम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शृण्व᳓न्तम् पूष᳓णं वय᳓म्
इ᳓र्यम् अ᳓नष्टवेदसम्
ई᳓शानं राय᳓ ईमहे

09 पूषन्तव व्रते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पू᳓षन् त᳓व व्रते᳓ वयं᳓
न᳓ रिष्येम क᳓दा चन᳓
स्तोता᳓रस् त इह᳓ स्मसि

10 परि पूषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि पूषा᳓ पर᳓स्ता᳐द्
ध᳓स्तं दधातु द᳓क्षिणम्
पु᳓नर् नो नष्ट᳓म् आ᳓जतु