०४८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथाष्टमोऽध्याय आरभ्यते । षष्ठमण्डलस्य चतुर्थेऽनुवाके चत्वारि सूक्तानि व्याख्यातानि । ‘ यज्ञायज्ञा’ इति द्वाविंशत्यृचं पञ्चमं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षम् । अत्रानुक्रम्यते – ‘यज्ञायज्ञा द्वयधिका शंयुस्तृणपाणिकं पृश्निसूक्तं प्रगाथौ बृहती महासतोबृहती महाबार्हतबार्हतौ प्रगाथावित्याग्नेय्यः काकुभः प्रगाथः पुरउष्णिग्बृहत्यतिजगतीति मारुत्योऽन्त्यास्तिस्रो वासां लिङ्गोक्तदेवताः काकुभः प्रगाथः पुरउष्णिग्बृहतीति पौष्ण्यो बृहती महाबृहती यवमध्यान्त्यानुष्टुप् द्यावाभूम्योर्वा पृश्नेर्वा’ इति । ‘ यज्ञायज्ञा वः’ इत्येषा बृहती ।“ तृतीयो द्वादशकः’ इति तल्लक्षणसद्भावात् । द्वितीया सतोबृहती । ‘ अयुजौ जागतौ सतोबृहती’ इत्युक्तलक्षणोपेतत्वात् । तृतीयाचतुथ्यौं बृहतीसतोबृहत्यौ पञ्चमी बृहती षष्ठी महासतोबृहती । अष्टाक्षरास्त्रयः पादा द्वादशाक्षरौ द्वौ पादौ सा महासतोबृहती । सप्तमी महाबृहती । अष्टाक्षराश्चत्वारः पादा एको द्वादशाक्षरः सा महाबृहती । अष्टमी महासतोबृहती । अष्टिनस्त्रयो द्वौ जागतौ सा महासतोबृहती । नवमी बृहती दशमी सतोबृहती । एता दश अग्निदेवत्याः । एकादशी ककुप् । मध्यमो यदि द्वादशाक्षर उभयतोऽष्टकौ द्वौ पादौ सा ककुप् । द्वादशी सतोबृहती त्रयोदशी पुरउष्णिक् । आद्यो जागतो द्वितीयतृतीयौ गायत्रौ सा पुरउष्णिक् । चतुर्दशी बृहती पञ्चदशी अतिजगती द्वापञ्चाशदक्षरा । एकादश्याद्याः पञ्च मरुद्देवताकाः । त्रयोदश्यादीनां तिसृणां लिङ्गोक्ता इन्द्रादयो वा देवताः । षोड्शी ककुप् सप्तदशी सतोबृहती अष्टादशी पुरउष्णिक् एकोनविंशी बृहती । षोडश्यादीनां चतसृणां पूषा देवता । विंशी बृहती एकविंशी यवमध्या महाबृहती । आद्यौ द्वावष्टकौ तृतीयो द्वादशकश्चतुर्थपञ्चमावष्टकौ सा यवमध्या महाबृहती । विंश्येकविंश्योः ‘ पृश्निसूक्तम् इत्युक्तत्वात् मरुतां माता पृश्निर्देवता । द्वाविंशी अनुष्टुप् । सा चापि पृश्निदेवत्या द्यावाभूमिदेवत्या वा । सूक्तविनियोगो लैङ्गिकः । आग्निमारुते यज्ञायज्ञा वः’ इत्ययं स्तोत्रियप्रगाथः । सूत्रितं च – यज्ञायज्ञो वो अग्नये देवो वो द्रविणोदा इति प्रगाथौ स्तोत्रियानुरूपौ’ (आश्व. श्रौ. ५. २०) इति ॥

Jamison Brereton

48 (489)
Agni (1–10), Maruts (11–12, 20–21), Maruts or
Liṅgoktadevatās (13–15), Pūsan (16–19), Maruts or Heaven and ̣ Earth or Pr̥sni (22) ́
Śaṃyu Bārhaspatya
22 verses: various lyric meters, arranged for the most part in pragāthas
Another curious hymn, made up of apparently disparate sections and composed in a variety of different lyric meters. The headnote above reproduces the dedicands suggested by the Anukramaṇī, but they do not exactly fit the contents of the hymn. The first ten verses, dedicated to Agni, seem a conventional Agni hymn, the curios
ity being that it is not placed among the other Agni hymns. It is also metrically the most stable portion of the hymn, with paired pragātha verses alternating br̥hatī and satobrḥatī, save for verses 6–8, where each verse has an extra eight-syllable pāda at the end.
The next three verses (11–13) offer an odd interlude: the priestly associates of the poet are ordered to drive a cow nearby, who will give milk for the Maruts. Although the Anukramaṇī identifies the Maruts as the dedicands of these verses, they seem incidental. The focus is on the cow—whether as a metaphor for Bharadvāja’s poetic inspiration, as a real cow meant to provide the milk to mix with soma in the ongoing sacrifice, or as both. This cow is reminiscent of the apparent cow in the extremely enigmatic verses of the Viśvāmitra family hymn (III.53.15–16), a hymn that occu
pies a similar place in its maṇḍala.
Pūṣan is the subject of verses 14–19, the heart of the hymn. As Geldner points out, the Bharadvājas have a special relationship with Pūṣan: Maṇḍala VI contains the only series of hymns devoted to that god (VI.53–58). The first two verses of this section (14–15) present a solemn, formal praise of Pūṣan, who is compared to the great Vedic gods in his various qualities, despite his usual rustic and relatively lowly status. The two verses clearly form a pragātha, though the second of them (vs. 15) has five pādas (12 12 12 8 8) rather than the expected satobr̥hatī (12 8 12 8). After these two straightforward verses, notable only for the hyperbolic encomium of this minor divinity, there follow three verses (16–18) containing a remarkable, intimate address to Pūṣan, whispered into his ear (see 16ab), some of which, espe cially verse 17, is close to unintelligible. The translation of that verse given here is extremely provisional; what is clear is that the style and syntax are informal, and the poet probably uses idioms and popular sayings current in colloquial speech. Moreover, since it is whispered to Pūṣan, it should be unintelligible to us. The final verse devoted to Pūṣan (19), though it remains a 2nd-person address, returns to the high, formal style of the first two (14–15) and is in br̥hatī. It should be noted that the three intimate verses have the same metrical structure as the three verses about the cow (11–13) and share with those verses a certain idiomatic register. Each con sists of a sequence of kakubh (8 12 8: vss. 11, 16), satobr̥hatī (12 8 12 8: vss. 12, 17), and puraüṣṇih (12 8 8: vss. 13, 18).
The final three verses (20–22) are dedicated to the Maruts. The first two form another pragātha (20 in the expected br̥hatī, 22 with an extra eight-syllable pāda at the end, like the extended satobr̥hatīs of vss. 6 and 8), while the final verse (22) is in anuṣṭubh. The reason for their position here is unclear. The final verse is enigmatic, as verses referring the Maruts’ mother Pr̥śni and their birth often are (cf. II.34.2 and especially nearby VI.66.1), and the hymn, having presented us with a number of puzzles along the way, ends with a final one.

Jamison Brereton Notes

Agni and Maruts Renou treats this hymn in EVP XV (142-46).

01 यज्ञायज्ञा वो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञा᳓-यज्ञा वो अग्न᳓ये
गिरा᳓-गिरा च द᳓क्षसे
प्र᳓-प्र वय᳓म् अमृ᳓तं जात᳓वेदसम्
प्रिय᳓म् मित्रं᳓ न᳓ शंसिषम्

02 ऊर्जो नपातम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जो᳓ न᳓पातं स᳓ हिना᳓य᳓म् अस्मयु᳓र्
दा᳓शेम हव्य᳓दातये
भु᳓वद् वा᳓जेषु
भु᳓वद् वृध᳓ उत᳓ त्राता᳓ तनू᳓ना᳐म्

03 वृषा ह्यग्ने - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा हि᳓ अग्ने अज᳓रो
महा᳓न् विभा᳓सि अर्चि᳓षा
अ᳓जस्रेण शोचि᳓षा शो᳓शुचच् छुचे
सुदीति᳓भिः सु᳓ दीदिहि

04 महो देवान्यजसि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

महो᳓ देवा᳓न् य᳓जसि य᳓क्षि आनुष᳓क्
त᳓व क्र᳓त्वोत᳓ दंस᳓ना
अर्वा᳓चः सीं कृणुहि अग्ने अ᳓वसे
रा᳓स्व वा᳓जोत᳓ वंसुव

05 यमापो अद्रयो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् आ᳓पो अ᳓द्रयो व᳓ना
ग᳓र्भम् ऋत᳓स्य पि᳓प्रति
स᳓हसा यो᳓ मथितो᳓ जा᳓यते नृ᳓भिः
पृथिव्या᳓ अ᳓धि सा᳓नवि

06 आ यः - महासतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यः᳓ पप्रउ᳓ भानु᳓ना रो᳓दसी उभे᳓
धूमे᳓न धावते दिवि᳓
तिर᳓स् त᳓मो ददृश ऊ᳓र्मियासु आ᳓
श्यावा᳓सु अरुषो᳓ वृ᳓षा
आ᳓ श्यावा᳓ अरुषो᳓ वृ᳓षा

07 बृहद्भिरग्ने अर्चिभिः - महाबृहती

विश्वास-प्रस्तुतिः ...{Loading}...

बृह᳓द्भिर् अग्ने अर्चि᳓भिः
शुक्रे᳓ण देव शोचि᳓षा
भर᳓द्वाजे समिधानो᳓ यविष्ठिय
रेव᳓न् नः शुक्र दीदिहि
द्युम᳓त् पवाक+ दीदिहि

08 विश्वासां गृहपतिर्विशामसि - महासतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वासां᳐ गृह᳓पतिर् विशा᳓म् असि
त्व᳓म् अग्ने मा᳓नुषीणा᳐म्
शत᳓म् पूर्भि᳓र् यविष्ठ पाहि अं᳓हसः
समेद्धा᳓रं शतं᳓ हि᳓मा
स्तोतृ᳓भ्यो ये᳓ च द᳓दति

09 त्वं नश्चित्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ नश् चित्र᳓ ऊतिया᳓
व᳓सो रा᳓धांसि चोदय
अस्य᳓ राय᳓स् तुव᳓म् अग्ने रथी᳓र् असि
विदा᳓ गाधं᳓ तुचे᳓ तु᳓ नः

10 पर्षि तोकम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓र्षि तोकं᳓ त᳓नयम् पर्तृ᳓भिष् टुव᳓म्
अ᳓दब्धैर् अ᳓प्रयुत्वभिः
अ᳓ग्ने हे᳓ळांसि दइ᳓विया युयोधि नो
अ᳓देवानि ह्व᳓रांसि च

11 आ सखायः - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ सखायः सबर्दु᳓घां
धेनु᳓म् अजध्वम् उ᳓प न᳓व्यसा व᳓चः
सृज᳓ध्वम् अ᳓नपस्फुराम्

12 या शर्धाय - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ श᳓र्धाय मा᳓रुताय स्व᳓भानवे
श्र᳓वो अ᳓मृत्यु धु᳓क्षत
या᳓ मॄळीके᳓+ मरु᳓तां᳐ तुरा᳓णां᳐
या᳓ सुम्नइ᳓र् एवया᳓वरी

13 भरद्वाजायाव धुक्षत - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

भर᳓द्वाजाय अ᳓व धुक्षत द्विता᳓
धेनुं᳓ च विश्व᳓दोहसम्
इ᳓षं च विश्व᳓भोजसम्

14 तं व - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ व इ᳓न्द्रं न᳓ सुक्र᳓तुं
व᳓रुणम् इव मायि᳓नम्
अर्यम᳓णं न᳓ मन्द्रं᳓ सृप्र᳓भोजसं
वि᳓ष्णुं न᳓ स्तुष आदि᳓शे

15 त्वेषं शर्धो - अतिजगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वेषं᳓ श᳓र्धो न᳓ मा᳓रुतं तुविष्व᳓णि
अनर्वा᳓णम् पूष᳓णं सं᳓ य᳓था शता᳓
सं᳓ सह᳓स्रा का᳓रिषच् चर्षणि᳓भ्य आँ᳓
आवि᳓र् गूळ्हा᳓ व᳓सू करत्
सुवे᳓दा नो व᳓सू करत्

16 आ मा - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मा पूषन्न् उ᳓प द्रव
शं᳓सिषं नु᳓ ते अपिकर्ण᳓ आघृणे
अघा᳓ अर्यो᳓ अ᳓रातयः

17 मा काकम्बीरमुद्वृहो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ काकम्बी᳓रम् उ᳓द् वृहो व᳓नस्प᳓तिम्
अ᳓शस्तीर् वि᳓ हि᳓ नी᳓नशः
मा᳓ उत᳓ सू᳓रो अ᳓ह एवा᳓ चन᳓
ग्रीवा᳓ आद᳓धते वे̃ः᳓

18 दृतेरिव तेऽवृकमस्तु - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

दृ᳓तेर् ऽव° ते अवृक᳓म् अस्तु सख्य᳓म्
अ᳓छिद्रस्य दधन्व᳓तः
सु᳓पूर्णस्य दधन्व᳓तः

19 परो हि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

परो᳓ हि᳓ म᳓र्तियैर् अ᳓सि
समो᳓ देवइ᳓र् उत᳓ श्रिया᳓
अभि᳓ ख्यः पूषन् पृ᳓तनासु नस् तुव᳓म्
अ᳓वा नूनं᳓ य᳓था पुरा᳓

20 वामी वामस्य - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वामी᳓ वाम᳓स्य धूतयः
प्र᳓णीतिर् अस्तु सूनृ᳓ता
देव᳓स्य वा मरुतो म᳓र्तियस्य वा
ईजान᳓स्य प्रयज्यवः

21 सद्यश्चिद्यस्य चकृड़्तिः - यवमध्या महाबृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सद्य᳓श् चिद् य᳓स्य चर्कृतिः᳓
प᳓रि द्यां᳐᳓ देवो᳓ न᳓ ए᳓ति सू᳓रियः
त्वेषं᳓ श᳓वो दधिरे ना᳓म यज्ञि᳓यम्
मरु᳓तो वृत्रहं᳓ श᳓वो
ज्य᳓यिष्ठं+ वृत्रहं᳓ श᳓वः

22 सकृद्ध द्यौरजायत - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सकृ᳓द् ध द्यउ᳓र् अजायत
सकृ᳓द् भू᳓मिर् अजायत
पृ᳓श्न्या दुग्धं᳓ सकृ᳓त् प᳓यस्
त᳓द् अन्यो᳓ ना᳓नु जायते